TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १११

उत्तर पर्व - अध्याय १११

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १११

युधिष्ठिर उवाच ॥

वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः । पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्वतः ॥१॥

का ह्यासां देवता कृष्ण किं व्रतं किमुपोषितम् ‍ । केन धर्मेण चैवैताः स्वर्गमाप्स्यंत्यनुत्तमम् ‍ ॥२॥

श्रीकृष्ण उवाच ॥ मम पत्नीसहस्त्राणि संति पांडव षोडश । रुपौदार्यगुणोपेता मन्मथायतनाः शुभाः ॥३॥

ताभिर्वसंतसमये कोकिलालिकुलाकुले । पुष्पितोपवनोत्फुल्लह्रारसरसरतटे ॥४॥

निर्भरापानगोष्टाषु प्रसक्ताभिरलांकृते । कुरंगनयनः श्रीमान्मालतीकृतशेखरः ॥५॥

गच्छन्समीपमार्गेण सांबः परपुरंजयः । साक्षात्कन्दर्परुपेण सर्वाभरणभूषितः ॥६॥

अनंगशरतप्ताभिः साभिलाषमवेक्षितः । प्रवृद्धोः मन्मथस्तासां सर्वाङ्गक्षोभदायकः ॥७॥

निरीक्ष्य तमहं सर्व विकारं ज्ञानचक्षुषा । अशपंरुषितः सर्वाहरिष्यंतीहदप्यवः ॥८॥

मथि स्वर्गमनुप्राप्ते भवतीः काममोहिताः एतद्वाक्यमुपश्रुत्य बाष्पपर्याकुलेक्षणाः ॥९॥

सामुचुर्वद गोविन्द कथमेतद्भविष्यति । भर्तारं जगतामीशं भवंतमपराजितम् ‍ ॥१०॥

दिव्यानुभावां च पुरीं रत्नवंति गृहाणि च । द्वारिवासिनः सर्वान्देवरुपान्कुमारकान् ‍ ॥११॥

भगवन्सर्वलोकस्यकथंभोग्याभवामहे । दासभावमनुप्राप्य भविष्यमः कथं पुनः ॥१२॥

को धर्मः कः समाचारः कथं वृत्तिर्भविष्यति । तथालालप्यमानास्ताबाष्पपर्याकुलेक्षणाः ॥१३॥

मया प्रोक्तायुवत्यस्ताः संतापस्त्यज्यतामयम् ‍ । जलक्रीडाविहारेशु पुरा सरसि मानसे ॥१४॥

भवतीनांसगर्वाणांनारदोऽभ्याशमागतः हुताशनसुताः सर्वा भवंत्योऽप्सरसःपुरा ॥१५॥

अप्रणम्यावलेपेन परिपृष्टः सवोगवित् ‍ । कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश ॥१६॥

तस्माद्‌द्वतप्रदानं च शापदानमभूत्पुरा । शय्याद्वयप्रदानेन मधुमाधवमासयोः ॥१७॥

सुवर्णोपरकरोत्सर्गान्द्वादश्यां शुल्कपक्षतः । भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि ॥१८॥

न कृतो यत्प्रमाणो मे रूपसौभाग्यमत्सरात् ‍ । परं पृष्ठोऽस्मितेनाशु वियोगो वो भविष्यति ॥१९॥

चौरेरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ । एवं नारदशापेन मच्छापेन च सांप्रतम् ‍ ॥२०॥

कार्यः संभ्रमः कश्चिद्दासत्वं वो भविष्यति । इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराननाः ॥२१॥

पुरा देवासुरेयुद्धे हतेषु शतशः पुनः । दानवासुरसैन्येषु राक्षसंषु ततस्ततः ॥२२॥

तेषां नारीसहस्त्राणि शतशोऽथ सहस्त्रशः । परिणीतानि यानिस्युर्बलाद्भुक्तानि यानिवै ॥२३॥

तानि सर्वाणि देवेशः प्रोवाच वदतांवरः । वेश्याधर्मेण वर्तध्वमधुना नृपमंदिरे ॥२४॥

भक्तिमंत्यो वरारोहास्तदा देवकुलेषु च । राजानःस्वामिनः स्तुत्या ब्राह्मणाश्वबहुश्रुताः ॥२५॥

तेशा गृहेषु तिष्ठध्वं सूतकं चापि तत्समम् ‍ । भविष्यति च सौभाग्यं सर्वासमपि शक्तिनः ॥२६॥

नचैकस्मिन्रतिः कार्या पुरुषे धनवर्जिते । अनुमान्यः प्रसाद्यश्व शुल्कदो देववत्सदा ॥२७॥

चापि मद्यपाभिश्व भाव्यं कौटिल्यबुद्धिभिः । यः कश्विच्छुल्कमादाय गृहमेष्यति वः सदा ॥२९॥

निरछद्मनैवापहार्य तत्सर्व दंभवर्जितम् ‍ । व्यभिचारो न कर्तव्यः स्वामिना सह कर्हिचित् ‍ ॥३०॥

रुपयौवनदर्पेण धनलोभेन वा पुनः । दासी भूत्वा च याकाचिव्द्यभिचारं करोति ल्च ॥३१॥

पतिना सह पापिष्ठा पापिष्ठां यत्यधोगतिम् ‍ । देवतानां पितृणां च पुण्येऽह्री समुपस्थिते ॥३२॥

गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः । ब्राह्मणेभ्यो वरारोहाः कार्याणि वचनानि च ॥३३॥

यच्चाप्यन्यद्‌व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः । अविचारेण सर्वाभिरनुष्टेयं च तत्पुनः ॥३४॥

संसारोत्तारणायालमेतद्वेदविदो बिदुः । यदा सूर्यदिने प्राप्ते पुष्योवासपुनर्वसुः ॥३५॥

भवेत्सर्वौषधिस्त्रानं सम्यङ्गनारी समाचरेत् ‍ । तदा पंचशरस्यापि संनिधातृत्वमेष्यति ॥३६॥

अर्चयेत्पुण्डरीकाक्षमनङ्गस्यापि कीर्तनम् ‍ । कामाय पादौ संपूज्य जंघे वै मोहकारिणे ॥३७॥

मेढ्रें कंदर्पनिधये कटिं प्रीतियुजे नमः । नाभिं सौख्यसमुद्राय वामनाय तथोदरम् ‍ ॥३८॥

हृदयं हृदयेशाय स्तनावाह्रादकारिणे । उत्कंठायेति वै कंठमास्यमानन्दजाय च ॥३९॥

वामांसं पुष्पबाणाय दक्षिणम् ‍ । नमोऽनन्ताय वै मौलिं विलोलायेति च ध्वजम् ‍ ॥४०॥

सर्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत् ‍ । नमःश्रपितये तार्क्ष्यध्वजांकुशधराय च ॥४१॥

मदिनेपीतवस्त्राय चक्रिणे नमः । नमो नारायणयेति कामदेवात्मने नमः ॥४२॥

नमः शांत्यै नमः प्रीत्यै नमो रत्यै नमः श्रिये । नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थदेति च ॥४३॥

एवं संपूज्य गोविन्दमनंगात्मकमीश्वरम् ‍ । गन्धैर्माल्यैरथाधूपैर्नैवद्यैश्वैव भामिनी ॥४४॥

अत्रचाहूय धर्मज्ञं ब्राह्मणं वेदपारगम् ‍ । अव्यंगावयवं पूज्य गंधपुष्पादिभिस्तथा ॥४५॥

शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम् ‍ । तस्मै विप्राय सा दद्यान्माधवः प्रीयतामिती ॥४६॥

यथेष्टाहारभुक्तं च तमेव दिजसत्तमम् ‍ । रत्यर्थ कामदेवोऽयभिति चित्तेऽवधार्य च ॥४७॥

यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी । सर्वभावेन चात्मानमर्पयोत्स्मितभाषिणी ॥४८॥

एवमादित्यवारेण सदा तद्‌व्रतमाचरेत । तंडुलप्रस्थदानं च यावन्मासांस्तु द्वादश ॥४९॥

ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी । विप्रस्योपस्करैर्युक्तां शय्यां दद्याविलक्षणाम् ‍ ॥५०॥

सोपधानकविश्रामांस्वास्तरावरणां शुभाम् ‍ । दीपिकापानहच्छत्रपादुकासनसंयुताम् ‍ ॥५१॥

सपत्नीकमलंकृत्य हेमसूत्राङ्‌गुलीयकैः । सूक्ष्मवस्त्रैः सकटकैर्धपमाल्यानुलेपनैः ॥५२॥

कामदेवं सपत्नीकं गुडकुंभोपरि स्थितम् ‍ । ताम्रपात्रास्नागतं हैमनेत्रपटावृतम् ‍ ॥५३॥

सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ‍ । दद्यादेतेन मंत्रेण तथैकां गां पयस्विनीम ॥५४॥

यथांतरं न पश्यामि कामकेशवयोः सदा । तथैव सर्वकामाप्तिस्तु विष्णो सदा मम ॥५५॥

यथा न कामिनी देहात्प्रयति तव केशव । तथापि मम देवेश शरीरस्थं पतिं कुरु ॥५६॥

तथैवकाञ्चनंदेवंप्रतिगृह्रन्दिजोत्तमः । " क इदं कोऽदात्कस्मा अदात्कामः कामायादात्कासो दाता कामः प्रतिग्रहीता कामँसमुद्रमाविशमैतत्ते " इतिवैदिकमन्त्रमीरयेत । कोऽदादितिपठेन्मन्त्रं ध्यायंश्वेतसि माधवम् ‍ ॥५७॥

ततःप्रदक्षिणी कृत्य विसृजेद्विजपुङ्गवम् ‍ । शय्यासनादिकं सर्वे ब्राह्मणस्य गृहं नयेत ॥५८॥

ततः प्रभृति योऽन्योपि रत्यर्थ गृहमागतः ससम्युअक्सूर्यवारेण समं पूज्यो यथेच्छया ॥५९॥

एवमेकं द्विजं शांतं पुराणज्ञं विचक्ष्णम् ‍ । तमर्चयीत च सदा अपरं वा तदाज्ञया ॥६०॥

न प्राप्नोति यदा विघ्नं गर्भजुतकजं क्कचित् ‍ । दैवं वा मानुषं वास्यादुपरागेणवाततः ॥६१॥

साधारणेन कल्पेन यथाशक्त्या समापयेत् ‍ । एतद्धः कथितं सर्वे वेश्याधर्ममशेषतः ॥६२॥

पुरुहूतेन यत्पोक्तं दानवीषु ततो मया । तदिदं च व्रतं भवतीषु प्रकाशितम् ‍ ॥६३॥

सर्वपापप्रशमनमनंतफलदायकम् ‍ । कल्याणिनीनां कथितं कुरुध्वं तद्वराननाः ॥६४॥

एतत्पार्थ मया पूर्व गोपीनां तु प्रकाशितम् ‍ । पुराण धर्मसर्वस्वं वेश्याजनसुखपदम् ‍ ॥६५॥

करोति याशेषमखण्ड्मेतत्कल्याणिनी माधवलोकसंस्था । सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः ॥६६॥ [ ४७८९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कामदानवेश्याव्रतवर्णनं नामैकादशोत्तरशततमोऽध्यायः ॥१११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:27.3630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Peon cum Farash

  • चपरासी व फर्राश 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.