TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७१

उत्तर पर्व - अध्याय ७१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ७१

श्रीकृष्ण उवाच ॥

पुरा बभूव राजर्षिरजपाल इति श्रुतः । प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये ॥१॥

दुःखापनोदं कुरु भोब्याधितानां नरेश्वर । एवमुक्तश्विरं ध्यात्वा कृत्वाऽव्याधीन्प्रजागणान् ‍ ॥२॥

पालयामास ह्रष्टोऽसावजपालस्ततोऽभवत् ‍ । तेनैषा निर्मिता शान्तिर्नाम्ना नीराजता जने ॥३॥

तस्यास्तु पाण्डबश्रेष्ठ लक्षणं वच्मि ते शृणु । राज्ञा पुरोहितैः सार्द्ध्मनुष्ठेया विधानतः ॥४॥

तस्मिन्काले बभूवाथ रावणो राक्षसेश्वरः। लंकास्थितः सुरगणान्नियुनक्ति स्वकर्मसु ॥५॥

अखण्डमण्डलं चन्द्रमात्तपव्रं चकार ह । इन्द्रं सेनापर्ति चक्रे वायुं पांशुप्रमार्जकम् ‍ ॥६॥

वरुणं बद्धर्कास्थं धनदं धनरक्षकम् ‍ । यमं संषमनेऽरीणां युयुजे नन्व्रणे मनुम् ‍ ॥७॥

मेघाश्छादन्ति नृपतिं दुमपुष्पादिपङिक्तिषु । सप्तर्षथः शान्तिपरा ब्रह्मणा सह संस्थिताः ॥८॥

यामिकामध्यकक्षायां मन्घर्वा गीततत्पराः । प्रेक्षणीयेऽप्सरोवृन्दे बाह्ये विद्याधरावृत्ताः ॥९॥

गङ्गाद्याः सरितः पाने मार्हपत्ये हुताशनः । विश्वकर्मान्नसंस्कारे यमः शिल्पिप्रयोजने ॥१०॥

तिष्ठन्ति पार्थिवाः सर्वे पुरः सेवाविधायिनः । द्दश्यन्ते भासुरै रत्नैः प्रभावन्तो विभूषणैः ॥११॥

संद्दष्ट्‍बा रावणः प्राह प्रशस्त प्रतिहारकम् ‍ । सेवां कर्तुं मम स्थाने ब्रहि कोऽव्र समागतः ॥१२॥

स उवाच ॥ प्रणम्याग्र दण्डपाणिर्निशाचर । एष ककुत्स्थो मान्धाता धुन्धमारोऽनलोऽर्जुनः ॥१३॥

ययातिनहुषो भीमो राघवोयं विदूरथः । एते चान्ये च बहवो राजान इति आसते ॥१४॥

मेघाकारास्तव स्थमने नाजपाल इहागतः । रावणः कुपितः प्राह शीघ्रं दूतं व्यसर्जयत ‍ ॥१५॥

इत्युक्ते प्रहितो दूतो धूश्वाक्षो नाम राक्षसः । धूम्नाक्ष गच्छ ब्रूहि त्वमजपालं ममाज्ञया ॥१६॥

सेवां कुरु समागच्छ कबन्धाय च पार्थिव । अन्यथा चन्द्रहासेन त्वां करिष्ये विकन्धरम् ‍ ॥१७॥

रावणबैवमुक्तस्तु धूस्त्राक्षो गरुडो यथा । संप्राप्य तां पुरीं रम्यां तच्च राजकुलं गतः ॥१८॥

ददर्शयं तमेकं स अजपालमजावृतम् ‍ मुक्तकेशं मुक्तकक्षं नैकमुक्तक्रमद्वयम ‍ ॥१९॥

यष्टिस्कन्धं रैणुभृत ब्याधिभिः परिवारितम् ‍ । निहता मिव्रशादूलं सर्वोपद्रवनाशनम् ‍ ॥२०॥

मह्यामालिख्य नामानि विनिध्नन्तं द्विषां मणम् ‍ । स्त्रातं भुक्तं शुभे स्थाने कृटकृत्यं मुनिं यथा ॥२१॥

द्दष्टवा ह्रष्टमनाः प्राह धूम्नाक्षो रावणोदित्तम् ‍ । साक्षेपमजपालोऽपि प्रत्यक्त्वा कारणाण्तरम् ‍ ॥२२॥

प्रेषयमास धूम्नाक्षं ततः कृत्यं समादध । ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः ॥२३॥

गच्छ लङ्काधिपस्थानमाचरस्व यथोचितम् ‍ । नियुक्तस्त्वजपालन ज्वरो राजञ्जगासह ॥२४॥

गत्वर च कम्पयामास सगणं राक्षसेश्वरम् ‍ । रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ‍ ॥२५॥

प्रोवाच तिष्ठतु नृपस्तेन म न प्रयोजनम् ‍ । ततः सविज्वरो राजा बभूव धनदानुजः ॥२६॥

तेनैषा निर्मिता शान्तिरजपालने धीमता । सर्वरोगप्रशमनी सर्वोपद्रवनाशिनी ॥२७॥

कार्तिके शुक्लपक्षस्य तुदाश्यां रजनीमुखे । समुत्थिते विनिद्रे तु देवे दामोद्रे तदा ॥२८॥

वेद्यन्ते रत्नमालाभी रम्ये मालानुरञ्जिते । जनयित्वा न्वं विष्णुं हुत्वा मन्व्रौर्द्रिजोत्तमैः ॥२९॥

वर्द्दमाननरूत्थाभिर्दीपिकाभिर्हुताशनम् ‍ । कृत्वा महाजनैः सर्वैर्हरिं नीराजयेच्छनैः ॥३०॥

पुष्पैरभ्यर्चित्म देवं समालब्धं च चन्दनैः । बदरैः कर्बुरैश्वैव व्रुपुसैरिक्षुभिस्तथा ॥३१॥

गन्धैः पुष्पैरलङ्कारैर्वखै रत्नैश्व पूजितैः । तस्यैवानुमतां लक्षीं ब्रह्माणं चण्डिकाम तथा ॥३२॥

आदित्यं शंकर गौरी यक्षं गणपतिं ग्रहान् ‍ । मातरं पितरं नागान्सर्वान्नीराजयेत्ततः ॥३३॥

गर्वा नीराजनं कुर्यां महिष्यादेश्व मण्डलम् ‍ । भ्रामयेत्व्रासयेच्छर्दिघण्टावादनछादनैः ॥३४॥

ता गावः प्रस्नुता यान्ति पीडाशृत्या निरोगकाः । सिन्दूरकृतशृङ्गाग्राः संभारवशवत्सकाः ॥३५॥

अनुयान्ति सगोपालाः कालयन्तो धनानि ते । छेदानुलिप्तरक्ताङ्गच रक्तपीतसिताम्बराः ॥३६॥

एवं कोलाहले वृत्ते गवां नीराजनोत्सवे । तुरङ्गाल्लक्षणैर्युक्तान्द्विरदांश्व सुपूजितान् ‍ ॥३७॥

राजचिह्रानि सर्वाणि उद्धत्य स्वगृहाङ्गणे । राजा पुरोहितैः सार्द्धं भन्व्रिभृत्यपुरः सरः ॥३८॥

सिंहासनोपविष्टश्व शङ्खतूर्यादिनिस्दनैः । पूजयेद्रन्धकृसुमैर्वस्त्रदीपविलेपनैः ॥३९॥

ततः स्त्रीलक्षणैर्युक्ता वेश्या बाथ कुलाङ्गना । शीर्षोपरि नरेन्द्रस्य भ्रामयेद्दारूपाव्रिकाम् ‍ ॥४०॥

शान्तिरस्तु समृद्धिश्व द्विजैश्व स्वजनेन च । ततो नीराजयेत्सौम्यं हस्त्यश्वरथसङ्‍कुलम् ‍ ॥४१॥

एवमेषा महाशान्तिः ख्याता नीराजने जने । येषां राष्ट्रे पुरे ग्रामे कियते पाण्डुनन्दन ॥४२॥

तेषां रोगाः क्षयं यान्ति सुभिक्षं वर्द्धते सदा । शान्तिर्नीराजना लोके सर्वानरोगाच्यापोहति ॥४३॥

लोकानावर्द्धयित्वा तु अजपालचरो यथा । एषां रोगादिपीडासु जन्तूनां हितमिच्छता ॥४४॥

वर्षे वर्षे प्रयोक्तव्या शान्तिर्नीराजना इति ॥४५॥

नीराजयन्ति नवमेघनिभं हरिं ये गोब्राह्मणानरथगजांश्व नरेशचिह्रान् ‍ । ते सर्वरोगरहिताश्व नुता नरेन्द्रैरिन्द्रप्रभा भुवि भवन्त्यजपालवाक्यात् ‍ ॥४६॥ [ २९२७ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नीराजनद्वादशीव्रतवर्णनं नामैकसप्ततितमो‍ऽध्यायः ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reduction of capital

  • पूंजी कम करनापूंजी में कटौती 
RANDOM WORD

Did you know?

गणपतीची पूजा आणि व्रत फक्त पुरूषच करतात, मग फक्त स्त्रियांसाठी गणेश व्रत आहे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site