TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०२

उत्तर पर्व - अध्याय १०२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १०२

युधिष्ठिर उवाच ॥

स्मरयामि ह्रषिकेश यन्नोक्तं भवता क्वचित ‍ । तत्साविव्रीव्रतं ब्रूहि ममोपरि दयां कुरु ॥१॥

श्रीकृष्ण उवाच ॥ कथयामि कुलस्त्रीणां महाव्याग युधिष्ठिर । यथाचीर्णं व्रतवरं साविव्या राजकन्यया ॥२॥

आसीस्नद्नेषु धर्मात्ना सर्वभूतहितेरसः । पार्थिवोश्वपतिनीम पौरजानपदप्रियः ॥३॥

क्षमावांश्व क्षितिपतिः सत्यवांश्व जितेन्द्रियः । स सभार्यो व्रतसिदं चचार नृपतिः स्वयम् ‍ ॥४॥

साविव्रीव्रतसिद्धं तत्सर्वकामप्रदायकम् ‍ । तस्य तुष्टाभवद्राजन्साविव्री ब्रह्मणः प्रिया ॥५॥

भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता । कमंडलुधरा देवी प्रसन्नवदनेक्षणा ॥६॥

उवाच दुहिता ह्येका तव्र राजन्भविष्यति । इत्येबमुक्त्वा साविव्री जगामादर्शनं पुत्तः ॥७॥

कालेन सा तथा राजन्दुहिता देवरूपिणी । सविव्र्या प्रीतया दत्ता साविव्या जप्तया तदा ॥८॥

साविव्रीत्येव नामास्याश्वकुर्विप्रास्तथा पिता । सा गृहवती सश्रीर्व्यवर्द्धत नृपात्मजा ॥९॥

साविव्री सुकुमाराङ्गी यौवनस्था बहूव ह । तां सुमध्यां पृशुश्रोणीं प्रतिमां काञ्चनीमिव ॥१०॥

प्राप्तेव देवकन्येति द्दष्टवा तामितरे जनाः । सा तु पद्मपलाशाक्षी प्रज्वलंतीव तेजसा ॥११॥

चचार सा च साविव्रीव्रतं थद्भृगुणोदितम् ‍ । अथोपोष्य शिरः स्त्रात्वा देवतामभिगम्य सा ॥१२॥

हुत्वाग्निं विधिवद्विप्रान्वाचयित्वेदुपर्वणि । तेभ्यः मुमनसः शेषाः प्रतिगृहा नृपात्मजा ॥१३॥

साध्वीपतिव्रताभ्येत्पदेवश्रीस्विरूपिणी । सोभिवाब्रपितुः पादौ कोराणवैनिवेद्यच ॥१४॥

कृतांजलिर्वरारोहानृपतेः पार्श्वतः स्थिता । नां दृष्टवा यौवनं प्राप्तां स्वच्छातां देवरूपिणीम् ‍ ॥१५॥

उवाच राजा संमंव्र्य स्मृत्यर्थं सह मंव्रिभिः । न स्मृतस्तु वरः कश्विद्योग्यस्तस्ये तथापि ह ॥१६॥

विचारवित्वा पश्यामि वरस्तुल्योअ न कश्वन । देवादीनां यथा वाच्यो नभवेयं तथा कुरु ॥१७॥

बुद्धन्यमानो मया पुव्रि धर्मशास्त्रेषु यच्छुतम ‍ । पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ॥१८॥

ब्रह्महत्यापितुस्तव्र सा कन्या वृपली स्मृता । अतोर्थं प्रेषपामीति कुरु पुव्रि स्वयंवरम् ‍ ॥१९॥

वृद्धैरमात्यैः सहिताशीव्रंगच्छविचारतः । एवमस्त्विति साविव्री प्रोक्ता तस्माद्विनिर्ययौ ॥२०॥

तपोवनानि रम्याणि राजर्षीणां जगाम सा । मान्यानामव्र वृद्धानां कृत्वा पादभिषेचनम् ‍ ॥२१॥

ततोभिगम्य तीर्थानि सर्वाण्येवाश्रयाणि च । आजगामपुनर्वेश्म साविव्रो सह मैव्रिभिः ॥२२॥

तव्रापश्यतै देवषिं नारदं पुरतः पितुः । आसीनमासन विप्र प्रणम्यस्मितभाषिपी ॥२३॥

कथयामास तत्सर्वं यथावृत्तं वनेऽभवत् ‍ । साविव्युवाच ॥ आसीत्साल्वेषु षर्मात्मा क्षव्रियः पृथिवापतिः ॥२४॥

द्युमत्सेन इति ख्यातो दैवदत्तो बभूव सः । नारद उवाच । अहो बत महात्कृष्टं साविव्यानृपते कृतम ‍ ॥२५॥

बाल्यभावाद्यदनया गुणवान्सत्यवान्नृपः। सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥२६॥

उपेतोऽस्तिगुणैः सर्वैर्द्मुमत्सेनसुतोबली । एको दोषोऽस्ति नान्यऽस्य सोऽद्यप्रभृतिसत्यवाक् ‍ ॥२७॥

संवत्सरेण हीनायुर्देहत्यागं करिष्यति । नारदस्य वचः श्रुत्वा दुहितां प्राह पाथिंवः ॥२८॥

पुव्रि साविव्रि गच्छ त्वमत्यं वरय सत्पतिम् ‍ । संवत्सरेण सोऽल्पायुर्देहत्यागं करिष्यति ॥२९॥

साविव्युवाच ॥ सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः । सकृत्प्रदीयते कन्या व्रीण्येतानि सकृत्सकृत् ‍ ॥३०॥

दीर्घायुरथवाल्पायुः सगुणो विर्गुणोऽपि वा । सकृद्वतो मया भती न द्वितीयं वृणोम्यहम् ‍ ॥३१॥

मनसा निश्वयं कृवा ततो वाचा भिधीयते । क्रियते कर्मणा पश्वात्प्रमाणं मे मनः सदा ॥३२॥

नारद उवाच ॥ यद्येतदिष्टं दुहिस्ततः शीघ्रं विधीयताम् ‍ । अविन्घमग्रे साविव्याः प्रादाने दुहितुस्तव ॥३३॥

एवभुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः । राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ‍ ॥३४॥

शुभे मुहूर्ते पाश्वस्थैव्रीह्मणैर्वेदपारगैः । साविव्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम् ‍ ॥३५॥

मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ‍ । एवं तव्राश्रमे तेषां वसतां प्रीतिपूर्वकम् ‍ ॥३६॥

कालस्तपस्यतांकश्विदतिचक्राम भारत । साविव्र्यास्तप्यमानायास्तिष्ठंत्याश्व दिवानिशम् ‍ ॥३७॥

नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते । ततः काले बहुतिथे व्यतिक्रांते कदाचन ॥३८॥

स प्राप्तकालो म्रियेत इति संचिंत्य भामिनी । प्रोष्टपदे सिते पक्षे द्वादश्यां रजनीमुखे ॥३९॥

गणयंत्याश्वसाविव्या नारदोक्तं वचोहृदि । व्रतं व्रिराव्रमुद्दिश्य दिवाराव्रं विनाभवत् ‍ ॥४०॥

ततस्त्रिराव्रं निर्वर्त्य स्त्रात्वा संतर्प्य देवताः । चतुर्थेऽहनिमर्तव्यामितिसंचिंत्यभामिनी ॥४१॥

श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी । अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ‍ ॥४२॥

साविव्यपि हि पप्रच्छ नत्वा श्वश्रूपदानि सा । श्वशुराववदतां च न गंतव्यं त्वयानघे ॥४४॥

बाले त्वं परमं भीरुः कथं गच्छसि काननम् ‍ । भूयोभावेन सा प्रोचे व्रष्टव्यं काननं मया ॥४५॥

गच्छेति तां तदोचाते श्वशुरौ चारुहासिनीम् ‍ । ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ‍ ॥४६॥

यथाशुक्ष्काणिवादायकाष्ठभारमकल्पयत ‍ । अथपाठन्यतः काष्ठं जाता शिरसि वेदना ॥४७॥

व्यथा मां बाधते बाले स्वप्तुमिच्छाभि सुंदरि । विश्वमस्व महाबाहो साविव्री प्राह दुःखिता ॥४८॥

पश्वादयगमिष्यामि स्वाश्रसं श्रमनाशानम् ‍ । यावदुत्संगके कृत्वा शिर आस्ते महीतले ॥४९॥

तावद्ददर्श साविव्री पुरुषं कृष्णपिंगलम् ‍ । किरिटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ‍ ॥५०॥

तमुवाचाथ साविव्री प्रणम्य मधुपिंगलम् ‍ । कस्त्वं देवोऽथवा दैत्योमां धर्षयितुमागतः ॥५१॥

न चाहं केनचिच्छक्या स्वधर्मादवरोपितुम् ‍ । स्प्रष्टुं बा पुरुषश्रेष्ठ दीप्तामग्निशिखामिव ॥५२॥

यम उवाच ॥ यमः संयमनश्वास्मि सर्वलोकभयंकरः । क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते ॥५३॥

न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः । एवमुक्त्वा सत्ववतः शरीरात्याशसंचयैः ॥५४॥

अंगुष्ठमाव्रं पुरुषं निश्वकर्ष यमो बलात् ‍ । अथ श्रांतां तामुवाच यमस्तदा ॥५६॥

निर्वर्त गच्छ साविव्रि स्वगृहे त्वमिहागता । पष मार्गो विशालाक्षि न केनाप्यनुगम्यते ॥५७॥

साविव्र्युवाच ॥ न श्रमो न च मे ग्लानिः कदाचिदपि जायते । भर्तारमनुगच्छंति यास्तासां न श्रमादयः ॥५८॥

सतां गतिर्नान्या स्त्रीणां भर्ता सदा गतिः । वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ॥५९॥

सर्वेषामेव जंतूनां स्थानमस्ति महीतलम् ‍ । भर्तारएवमनुजस्त्रीणां नान्यः समाश्रयः ॥६०॥

एवमन्यैश्व विविधैर्वाक्यैर्द्धर्मार्थसंहितैः । तुतोष सूर्यतनयः साविव्रीं चेदमव्रवीत् ‍ ॥६१॥

तुष्टोऽस्मि तव भद्रम ते वरं वरय भामिनि । साविव्र्यपि वरान्वव्रे विनयावनतानना ॥६२॥

चक्षुःप्राप्तिस्तथा राज्यं श्वशुरस्य महात्मनः । पितुःपुव्रशतंचैवपुव्राणांशतमात्मनः ॥६३॥

जीवितं च तथाभर्तुधर्मसिद्धिर्श्वशाश्वती । धर्मराजो वरान्दत्त्व प्रेषयामास तां ततः ॥६४॥

अथ भर्तारमासाद्य साविव्री ह्रष्टमानसा । जगाम साश्रमपदं सह भर्व्रा निराकुला ॥६५॥

भाद्रस्य पौर्णमास्यां तु यथाचीर्णं ब्रतंत्विदम् ‍ । माहात्म्यमस्य नृपते कथितं सकलं मया ॥६६॥

युधिष्ठिर उवाच ॥ कीद्दशं तद्‍द्‍तं देव साविव्र्या यदनुष्ठितम् ‍ । तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीद्दशम् ‍ ॥६७॥

का देवता व्रते तस्मिन्ब्रूहि मां प्रति हे प्रभो । सविस्तरं ह्रषीकेश ब्रूहि धर्मं सनातनम् ‍ ॥६८॥

श्रीकृष्ण उवाच । श्रूयतां पांडवश्रेष्ठ साविव्रीव्रतमादरात् ‍ । कथयामि कथं चीर्णं तथा सत्या युधिष्ठिर ॥६९॥

व्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम् ‍ । व्रिराव्रनियमः कार्य उपवासस्य भारत ॥७०॥

अशक्त्या तु व्रयोदश्या नक्तं कुयांज्जितेन्द्रियः। अयाचितं चतुर्दश्यामुपवासेन पूर्णिमा ॥७१॥

नित्यं स्त्रात्वा महानद्यां तडागे चाथ निर्झरे । विशेषः पूर्णमास्यां तु स्त्रानं सर्षपमृज्जलैः ॥७२॥

गृहीत्वा तिलकान्षाव्रे प्रस्थमाव्रं युधिष्टिर । अथवा धान्यमादाय यवशालितिलादिकम् ‍ ॥७३॥

ततो वंशमये पाव्रे वस्त्रयुग्मेन वेष्टयेत् ‍ । साविव्रीप्रतिमां कृत्वा सर्वावयवशोभनाम् ‍ ॥७४॥

सौवणीं मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम् ‍ । रक्तवस्त्रयुगं दद्यात्साविव्यै ब्रह्मणे तथा ॥७५॥

साविव्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत् ‍ । गंघैः सुगंधपुष्पैश्व घृपनैवेद्यदीपकैः ॥७६॥

पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः । नालिकेरैश्व खर्जूरैः कपित्थैर्दाडिमीफलैः ॥७७॥

जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा । जीरकैः कटुतुंबीभिः गुडेन लवणेन च ॥७८॥

विरूढैः सप्तधान्यैश्व वंशपाव्रे प्रकल्पितैः । राजोपचारभूतैश्व शुभैः कुंकुमकेसरैः ॥७९॥

अवतारवतीत्येवं साविव्री ब्रह्मणः प्रिया । तामर्चयेत मंव्रेण साविव्रीं ब्राह्मणः स्वयम् ‍ ॥८०॥

इतरेषां पुराणोक्तमंव्रोऽव्र समुदाह्रतः । ॐ कारपूर्वके देवि वीणापुस्तकधारिणी ॥८१॥

वेदमातर्नमस्तुभ्यमवैधव्यं प्रयच्छ मे । एवं संपूज्य विधिवज्जागरं कारयेत्ततः ॥८२॥

गीतवादिव्रशब्देन ह्यष्टतारीकदंबकैः । नृत्यहासैर्नयेद्राव्रिं पृष्ठतश्व कथानकैः ॥८३॥

साविव्याख्यानकं वापि वाचयेद ‍ द्विजसत्तमम् ‍ । यावत्प्रभातसमयं गीत्याभावरसैः समम् ‍ ॥८४॥

ततः प्रभाते विमल उषःकाले ह्युपस्थिते । ब्राह्मणे वेदविदुषि साविव्रीं विनिवेदयेत् ‍ ॥८५॥

यथा साविव्रकल्पज्ञे साविव्र्याख्यानवाचके । दैवज्ञ उंच्छवृत्तौ च दरिद्रेचाग्निहोव्रिणे ॥८६॥

मंस्त्रेणानेन कौंतेय प्रणम्य विधिपूर्वकम् ‍ । दर्भाक्षततिलैर्भिश्रा पूर्वाशाभिमुखास्थिता ॥८७॥

सुधी विप्रवरो विप्र ॐ कारस्वास्तिपूर्वके । साविवीयं मया दत्ता सहिरण्या महासती ॥८८॥

ब्रह्मणः प्रीणनार्थाय ब्राह्मणप्रतिगृह्यताम् ‍ । एवं दत्त्वा द्विजेंद्राय साविव्रीं तां युधिष्टिर ॥८९॥

नैवेद्यादि च तत्सर्वं तत्सर्वं ब्राह्मणः स्वगृहं नयेत् ‍ । स्वयं द्शपदं गच्छेत्स्ववेश्म पुनराविशेत् ‍ ॥९०॥

तव्र भुक्त्वा हविष्यान्नं ब्राह्मणैर्बांवैः सह । विसर्जयेत्ततो विप्रान्साविव्री प्रीयतामिति ॥९१॥

पंचदश्यां तथा ज्येष्ठे वटके च महासती । व्रिराव्रोपोषिता नारी विधिनानेन पूजयेत् ‍ ॥९२॥

सार्द्धं सत्यवता साध्वी फलनैवेद्यदीपकैः । पट्टालंबनं कृत्वा काष्ठभारं गुधिष्ठिर ॥९३॥

राव्रौ जागरणं कृत्वा न्नृत्यगीतपुरस्सरैः । प्रभाते विधिना पूर्वं पूर्वोक्तेन नरोत्तमः ॥९४॥

तत्सर्वं ब्राह्मणे दद्यात्प्रणियत्य क्षमापयेत् ‍ । एतत्तु ते व्रतमिदं कथितं विधिवन्मया ॥९५॥

याश्वरिष्यं तिलोकेस्मिन्पुव्रपौव्रामन्विताः । भुक्त्वा भोगांश्विरं भूमौ यात्यन्ति ब्रह्मणः पदम् ‍ ॥९६॥

एतत्पुण्यं पापहरं धन्यं दुःस्वन्पनाशनम् ‍ । जपतां शृण्वतांचैवसाविस्त्रीव्रतमादरात् ‍ ॥९७॥

स्मृत्यर्थवेदजननीं सहशंभुजायां संपुजयेदिह व्रिराव्रकृतोपवासा । साविव्रिवत्पितृकृलं च तथा स्वभर्तुरुद्धारयेच्च विभुनक्ति चिरं सुखानि ॥९८॥ [ ४३६४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वटसाविस्त्रीव्रतं नाम व्द्यधिकशततमोऽध्यायः ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:26.8630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अडसुडी

  • पु. ( कर . ) गुळव्याच्या हाताखालीं काम करणारा . 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.