संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९६

उत्तर पर्व - अध्याय १९६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः सप्रवक्ष्यामि लवणाचलमुत्तमम्‍ । यत्प्रदानान्नरो लोकप्राप्नोति शिवसंयुतम् ‍ ॥१॥

उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलमुत्तमम् ‍ । मध्यमः स्यातदर्द्धेनतदर्धेनाधमः स्मृत ॥२॥

वित्तहीनो यथाशक्त्या द्रोणादूद्वर्ध तु कारयेत । चतुर्थाशेन विषयान्पर्वतान्कारयेत्पृथक ‍ ॥३॥

विधानं पूर्व वत्कुर्याद्वह्यादीनां च सर्वदा । तद्वद्धेमतरुन्सर्वाल्लाँकपालनिवेशनम् ‍ ॥४॥

शिरांसि कामदेवादींस्तद्वत्तत्र निवेशर्यत । कुर्याज्जागरमत्रापि दानमंत्रान्निबोध मे ॥५॥

सौभाग्यससंभूतो यतोऽयंलवणोरसः । दानात्मकत्वेन च मांपाहिपापान्नगोत्तम ॥६॥

यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । प्रियं च शिवयोर्नित्यं तस्माच्छांतिप्रदो भव ॥७॥

विष्णुदेहासमुद्धूतं यस्मादारोग्यवर्धनम् ‍ । तस्मात्पर्वतरुपेण पाहि संसारसागरात् ‍ ॥८॥

अनेन विधिना यस्तु दद्याल्लवणपर्वतम । उमालोके वसेत्कल्पं ततो याति परां गतिम् ‍ ॥९॥

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पुत्रपौत्रेः परिवृतो जीवेच्च शरदां शतम् ‍ ॥१०॥

कुर्वति येलवणपर्वतसंप्रदानं संप्राप्नुवंति दिवि ते सुमहद्विमानम् ‍ । तत्राप्सरोगणसुरासुरसेव्यमानास्तिष्ठति हृष्टमनसो दिवि वृद्धमन्तः ॥११॥ [ ७७८६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणपर्वतदानविधिवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ॥१९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP