TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८०

उत्तर पर्व - अध्याय १८०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १८०

युधिष्ठिर उवाच ॥

भगवन्क्षत्रियैः शूरैः स्ववीर्योपात्तसंचयैः । कानि दानानि देयानि पविशणि शुभाणिच ॥१॥

अन्यैर्वा पुरुषैः कृष्ण अधर्मभयभीरुभिः । त्रहपीडात्भिसंतप्रैर्दुःस्वप्नाद्युपताषितैः ॥२॥

इह लोके परे चैव विहितं सर्वकामदम् ‍ । विशेषावहितं दानं कथयस्व महामते ॥३॥

श्रीकृष्ण उवाच ॥

श्रृणु भूपाल भद्रं ते दानधर्ममनुत्तमम् ‍ । विशेषेण महीपानां हिताय च नसंशयः ॥४॥

दानानि बहुरुपाणि नानाशास्त्रोदितानि च । गोदानादीनि राजेंद्र प्रधानानि न संशयः ॥५॥

किंतु प्रधानमेकंते दानं वक्ष्यामि भारत । वैरोचनाय यत्पूर्व शक्रः प्रोवाच भारत ॥६॥

शुक्र उवाच ॥

श्रूणु दैत्यपते दानं सर्वपापप्रणाशनम् ‍ । अ धयो व्याधयश्वैव ग्रहपीडाः सुदारुणः ॥७॥

येन दत्तेन नश्यंति पुण्यमाप्नोति चोत्तमम् ‍ । कार्तिक्यामयने चैव ग्रहणे शशिसूर्ययोः ॥८॥

दानेमेतत्प्रदातव्यं विषुंव सूर्यसंक्रसे । पुण्यं दिनमथासाद्य जितक्रोधो जितेंद्रियः ॥९॥

संस्थाप्य दारुजं दिव्यं हेमपट्टैरलंकृतम् ‍ । रथं सुचक्राक्षधरं युगयोक्त्रसमन्वितम् ‍ ॥१०॥

सुवर्णध्वजसंयुक्त सितासितपताकिनम् ‍ । पुष्पप्रकरणसंकार्णै प्रागुदक्प्रवेण शुभे ॥११॥

नद्यास्तीरेऽस्थवा गोष्टे विचित्रे वा गृहांगणे । रथस्य पूर्वभागे तु कृत्वा वेदिमनुत्तमास् ‍ ॥१२॥

पुराणवेदविद्यावान्विनयाचारसंयुतः । तस्यां संस्थापयेद्देवान्ब्रह्यादीन्कथयामि ते ॥१३॥

मध्ये ब्रह्मा प्रतिष्ठाप्यः पूजयेत्प्रणवेन तम् ‍ । विष्णुरुत्तरतः स्थाप्यः पौरुषेण तर्मर्चयेत् ‍ ॥१४॥

सूक्तेन रुद्रं रौद्रेण दक्षिणस्यांसमर्चयेत् ‍ । ग्रहान्सूर्यमुखांशश्वैव विधिवत्पूजयेत्तथा । पुष्पैर्गधैः फलैर्भक्ष्येर्दीमालाभिरेव च ॥१५॥

पूजयेर्द्बधकुमुमैः श्वेतवस्त्रेः सचंदनैः । शंखभेरीमृदंगानां शब्दैः सर्वत्रगाभिभिः ॥१६॥

ब्रह्मवोषविमिश्वैव कारयीते महोत्सवम ‍ । कुंडं कृत्वा विधानेन हस्तमात्रप्रमाणतः ॥१७॥

आग्नेय्यां दिशि राजेंद्र ब्राह्मणांस्तत्र पूजयेत् ‍ । चतुश्वारणिकान्विप्रान्पूजितान्ब्रह्मभूषणैः ॥१८॥

चतुरोष्टौ महाराज गुरुरोकोऽथवा भवेत् ‍ । होमोपकरणं सर्व मेलयित्वा तिलान्घृतम् ‍ ॥१९॥

अग्निकार्य ततः कुर्याद्यथावद्विधिपूर्वकम् ‍ । आघारावाज्यभागौ तु हुत्वा प्राग्वच्च तौ ततः ॥२०॥

विष्णवे शितिकंठाय मत्रैः पूर्वोदितैः शुभैः । ग्रहयज्ञोदितैश्वैव ग्रहाणां होम इष्यते ॥२१॥

एवं यज्ञविधिं कृत्वा यजमानो द्विजैः सह । योजयीत रथे दांतौ गजौ लक्षणसंयुतौ ॥२२॥

विचित्रतनुसंवीतौ शुभकक्षौ सुघंटिकौ । हिमपट्टैः सुतिलकैः शोभितौ शंखचामरैः ॥२३॥

दिव्यमुक्तापरिच्छन्नौ दिव्यांकुशसमन्वितौ । महामात्रान्वितौ चैव सर्वाभरणभूषितौ ॥२४॥

एवं विधं ततः कृत्वा रथं तं सगजं नरः । आरोपयेत्ततस्तास्मिन्ब्राह्मणं शंसितव्रतम् ‍ ॥२५॥

भूषितं कंठकटकैः कर्णवेष्टांगुलीयकैः । आगुप्तचोलकच्छत्रवस्त्रयुधसमन्वितम् ‍ ॥२६॥

बद्धतूर्णि धनुष्पाणिं बहुचर्मविभूषितम् ‍ । खङ्गधेनुकयानद्धं हारालंकृतविग्रहम् ‍ ॥२७॥

यजमानस्ततः प्राज्ञः शुल्कांबरधरः शुचिः । रथं प्रदक्षिणीकृत्य गृहीत्तकुसुमांजलिः ॥२८॥

इअममुत्त्वारयेन्मन्त्रं सर्वपापप्रणाशनम् ‍ । कुमुदैरावणौपद्मःपुष्पदंतोऽथवामनः ॥१९॥

सुप्रतीर्कोजनः सार्वभौमोऽश्तौ देवयोनयः । तेषां वंशप्रसूतौ तु बलरुपसमन्वितौ ॥३०॥

तद्युक्तरथदानेन मम स्यातां वरप्रदौ । रथोऽयं यज्ञपुरुषो ब्राह्मणोत्र शिवःस्वयम् ‍ ॥३१॥

ममेभरथदानेन प्रीयेतां शिवकेशवौ । इत्युच्चार्य महाभाग पूजनयित्वा पुनः पुनः ॥३२॥

आरोपयेत्ततस्मिन्ब्राह्मणं शंसितव्रतम् ‍ । स्वदारनिरतं शांतं ॥ वेदवे दांगपारगम् ‍ ॥३३॥

पंचाग्रयभिमतंचैवाव्यंगंव्याधिवर्जितम् ‍ । पुनः प्रदक्षिणी कृत्य रथस्थं द्विजसत्तमम् ‍ ॥३४॥

आद्वारमनुगच्छेच्च प्रणिपत्य गृहं विशेत् ‍ । ततोयज्ञावसानं तु दीनांधादीञ्जडान्कुशान् ‍ ॥३५॥

पूजयेद्विविधैर्दानैर्वस्त्रगोदानभोजनैः । अनेनैव विधानेन संकल्प्य रथमुत्तमम् ‍ ॥३६॥

कुंडमंडपसभारभूषणाच्छादनादिकम् ‍ । तदेव होमद्रव्यं च होममंत्रास्त एवं हि ॥३७॥

विशेषोऽश्वरथे राजन्मथ्यसाना निबोध्यताम् ‍ । हयौ लक्षणसंयुक्तौ खलीनालंकृताननौ ॥३८॥

विचित्रवस्तुसंवीतौ कठाभरणभूपितौ । सुप्रग्रहयुतौ योज्यौ दाता तस्मित्रथोत्तमे ॥३९॥

तं प्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ‍ ॥४०॥

नमोऽस्तुतेवेदतुरंगमाय त्रयीमयाय त्रिगुणात्मकाय । सुदुर्गमार्गे सुखपानपात्रे नमोऽस्तु ते वाजिधराय नित्यम् ‍ ॥४१॥

रथोऽथं सविताः साक्षाद्वेदाश्वामी तुरंगमाः । अरुणो ब्राह्मणश्वायं प्रयच्छंतु सुखं मम् ‍ ॥४२॥

इत्युच्चार्य ततस्तस्मिन्त्रथे ब्राह्मणसत्तमम् ‍ । आरोपयेद्‌गृहाद्‌द्वारं यावदेतममुब्रजेत् ‍ ॥४३॥

अनेन विधिना यस्तु दद्याद्वाजिरथं बुधः । हस्तीरथं वा पुरुषतस्य पुण्यफलं शृणु ॥४४॥

सर्वपॉपविनिर्मुक्तः सवीमयविवर्जितः । मन्वंतरशतं यावत्सर्वभोगसमन्वितः ॥४५॥

अप्सरोगेणसं कीर्णे विनानेसूर्यवर्चसे । दिव्यभोगान्वितः श्रीमान्कामचारे वसेद्दिवि ॥४६॥

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पुत्रपौत्रान्वितश्वैव चिरंजीवी प्रियातिथिः ॥४७॥

गजेनैकेन निर्दिष्टः कश्विद्नजरथोनृप । एकेनाश्वेनाश्वरथः कथ्यते वेदवादीभिः ॥४८॥

दानमंत्रास्त एवोक्ताः फलं तच्च निगद्यते ॥४९॥

यच्छंति ये रथवरंण सुधुराक्षचक्रं विक्रांतवारणयुतं तुरगान्वितं वा । सोपस्करंकनक पट्टविचित्रितांग ते स्यंदनेन सुरराजपुरं प्रयांति ॥५०॥ [ ७८३८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णपुधिष्ठिरसंवादे गजरथाश्वथदानविधिवर्णनंनामाशीत्युत्तरशततमोध्यायः ॥१८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:31.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

uproot

  • उपटणे 
  • समूळ नष्ट करणे 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site