TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८२

उत्तर पर्व - अध्याय ८२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ८२

युधिष्ठिर उवाच ॥

यन्न तापाय वै पुसां भवत्यामुष्सिकं कृतम् ‍ । तद्‍पापाय भवति तदाचक्ष्व यदूत्तम ॥१॥

उपवासप्रभावं वै कृष्णाराधनकाङ्क्षिणाम् ‍ । कथयेह महाबाहो नैव तृप्यामि कथ्यतः ॥२॥

श्रीकृष्ण उवाच ॥ श्रूयतां पार्थ यत्पृष्टाः कौतुकाद्भवता वयम् ‍ । आमुष्मिकं न तापाय प्रतापाय च जायते ॥३॥

उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणाम् ‍ । कथयामि यथावृत्तं पूर्वमेव नरोत्तम ॥४॥

वैदिशं नाम नगरं प्रख्यातं नृपसत्तम । तव्र वैश्योऽभवत्पूर्वं सीरभद्र इति श्रुतः ॥५॥

भार्यया मातृदुहितापुव्रपौव्रैः समन्चितः । प्रभूतभृत्यवर्गश्व बहुव्यापारकारकः ॥६॥

पुव्रपौव्रादिभरणे व्यासक्तिर्मतिरेव च । परलोकं प्रति मतिस्तस्य नातीत्कदाचन ॥७॥

चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जमम ‍ । सर्वव्रान्यव्र निःस्त्रेहः पुव्रन्मेहपरिप्लुतः ॥८॥

न जुहोत्युदिते काले न ददात्यतितृष्णया । बभूब चोद्यमस्तस्य पुव्रादिभरणे परः नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणा ॥९॥

तुष्णाभिभूतो राजेन्द्र स्ववर्गभर्णोज्झितह । कलेनागच्छता सोऽथमूतो विन्ध्याटवीतटे ॥१०॥

यातनादेहभृत्प्र्तो ग्रीष्मकालेऽभवन्नृप । तं ददर्श महाभागो दिव्ययानसमन्वितः ॥११॥

वेदवेदाङ्गविद्वेषी विपीतो नामः वै द्विजः । भास्करस्यांशुभिर्दीतैर्दहन्तमतिदारुणैः ॥१२॥

प्रतप्तवालुकामध्ये तृपर्तश्वतिपीडितः । क्षुत्क्षामकण्ठं शुष्कास्यं तथोद्वृतविलोचनम् ‍ ॥१३॥

निष्कान्तजिह्र ङ्गिबु विस्फाटैः सर्वतश्वितम् ‍ । निश्वासायासखेदेने विह्रलः पीडितोदरः ॥१४॥

निजेन कर्मणा बद्धमसमर्थं प्रसर्पणे । तथाद्दशमथो द्वष्ट्रवा गर्दभेयो महानुषिः ॥१५॥

विपीतः प्राह राजेन्द्र कारुण्यभरितं वचः जानन्नपि यश्राप्राप्तं तस्यानुष्ठानजं फलम् ‍ ॥१६॥

जन्तोस्तस्योपकाराय सर्वतोह्रादयन्निव । विपीत उवाच ॥ अष धूर्यां शूभिस्तप्तैर्बहुभिः पथि पांशुभिः ॥१७॥

उपर्यर्ककरैस्तीक्ष्णैस्तृषावातानेपीडितम् ‍ । अन्यस्तव्राण कैर्धोरैरविधह्यैः सुदारुणैः ॥१८॥

कययेह यथातस्त्रमेकाकी दह्यसे कथन् ‍ । तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः ॥१९॥

वेदनार्त उवाचेदं कृच्छ्रादुच्छ्रस्य मन्दकम् ‍ । सीरभद्र उवाच ॥ बह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति ॥२०॥

अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः । इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः ॥२१॥

इतीच्छाशतमारूढस्तेन दह्यामि दुर्मतिः । शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम् ‍ ॥२२॥

तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिह । पितृदेवमनुष्याणामदत्त्वा पोषिता हि ये ॥२३॥

ते गता नापि वर्तन्ते दह्याम्येकोऽव्र दुर्मतिः । पुव्रक्षेव्रकलव्रेषु ममा वार्‍हतचेतसा ॥२४॥

बह्रसाधुकृतं कर्म तेन दह्यामि दुर्मतिः । मृते मयि धने तस्मिन्नन्यायोपाजिंते सदा ॥२५॥

रूपवन्तोऽभिवर्तन्ते दह्याम्येकोव्र दुर्मतिः न मया पुजिता गेहान्निर्गता द्विजसत्तमाः ॥२६॥

स्ववर्गमिहकामेन तेन दह्याम्यहंमतिः । यन्मे न पुजिता देवाः कुटुम्बं पोषितं परम् ‍ ॥२७॥

एकाकी तव्र दह्यामि ये सुतास्तेऽन्यतो गताः । नित्यं नैसित्तिकं कर्म पूर्वेषां चैव नो कृतम् ‍ ॥२८॥

एकाकी तेन दह्यामि गतास्ते फलभोगिनः । दाराः पुव्राश्व भृत्याश्व भृत्याश्व पापबुद्धन्या मया भृताः ॥२९॥

एककी तेन दह्यामि गतास्ते फलभोगिनः । दाराः पुव्राश्व भृत्यार्थे मयान्यायार्थसंचयः ॥३०॥

कृतस्तेनाव्र दह्यामि ये भुक्तास्तेऽन्यतो गताः । क्षतपापं मयाभुक्तमन्यैस्तत्कर्मसंचितम् ‍ ॥३१॥

दह्याम्येकोऽहमत्यन्तं गतास्ते फलभोगिनः । यन्ममत्वाभिभृतेन मया पापमुपाजिंतम् ‍ ॥३२॥

व तदन्यस्य कस्यापि केवलं मम दुष्कृतम् ‍ । अन्तर्दुःखेन दग्धोऽहं बहिर्दह्यामि भावयन् ‍ ॥३३॥

एवं दुःखदूयास्वादात्पापमेकं द्विधास्थितम् ‍ । करु तस्मान्समुद्धारं पश्येमं विषसागरं ॥३४॥

तव्र येनाहमाह्लादं प्रान्पुयां मुनिसत्तम । विपीत उवाच ॥ अल्पकालिक उद्धारे तव्र पश्यामि संशयम् ‍ ॥३५॥

प्रक्षीणं पापमैतावत्सुदृत्तं चास्ति ते परम् ‍ । अतीते दशमे जन्मम्यष्युताराधनेच्छया ॥३६॥

सुकर्म जयदा भद्र द्वादशीं समुपोषितः । न च तस्याः फलंलब्धं पापमत्यन्तदुर्जयम् ‍ ॥३७॥

अल्पैरहोभिः संक्षीणमामपाव्रे यथा जलम् ‍ । गतं पापमयं ह्यस्याः प्रभावोऽत्यन्तदुर्लभः ॥३८॥

नाशः पापस्य कुरुते जयं सुकृतकर्मणः। सकृत्कर्मप्रदा ह्येषा ततो वै द्वादशी स्मृता ॥३९॥

यथैतद्वदतार्तेन भवता परिदेवितम् ‍ । तथैव पापिनः सर्वे वदन्त्यार्तस्वरेण हि ॥४०॥

पापमव्र कृतं प्रेत्य भद्र तापाय जायते । आह्लादाय तथा पुण्यमिह पुण्यसिह पुण्यकृतां नृणाम् ‍ ॥४१॥

सीरभद्रं समाश्वास्य यथावित्थं महामुनिः । सोप्यल्पेनैव कालेन ततो मोक्षभवाप्तवान् ‍ ॥४२॥

उपवासप्रभावश्व कथितस्ते नरोत्तम । येनाल्पैरेव दिवसैर्भूरिपापं क्षयंगतम् ‍ ॥४३॥

तस्मान्नरेण पुण्याय यतितव्यं न पातकम् ‍ । उपवासाश्व कर्तव्याः सदैवात्महितैषिणा ॥४४॥

युधिष्टिर उवाच । अथैतत्कष्टपापानां विपाको नरकस्थितैः । पुरुषैर्भुज्यते शश्वत्तन्मोक्षं वद सत्तम ॥४५॥

श्रीकृष्ण उवाच ॥ जयासमेताः पुरुषाः सदा सुकृतकर्मणः । जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम् ‍ ॥४६॥

फालगुनामलपक्षस्य एकादश्यामुपोषितः । द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ‍ ॥४७॥

एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन् ‍ । पूजायां वासुदेवस्य भुञ्जीत सुसमाहितः ॥४८॥

कामं ऋघं च लोभं च मदं मोहं च वर्जयेत् ‍ । दोहादीन्वर्जयेद्दोषान्सर्वान्धनमदोद्भवान् ‍ ॥४९॥

भावयेद्विष्णुभक्तश्व संसारेऽसारतां तथा । एवं भावितचित्तेन प्राणिनां हितमिच्छता ॥५०॥

नमो नारायनायेति वक्तव्यं स्वपता निशि । तथैव कुर्यादद्वादश्यां नान्मा क्षुत्पारणं नूप ॥५१॥

सौवर्णताम्रपाव्राणि मृन्मयान्यपि पाण्डव । यवपाव्राणि पूर्वं तु दद्यान्मासचतुष्ठयम् ‍ ॥५२॥

आषाढादिद्वितीयं तु पारयेच्च महामते । तव्रापि घृतपाव्राणि दद्याच्छ्रद्धासमन्वितः ॥५३॥

कार्तिकादिषु मासेषु माघान्तेपु तथा तिलान् ‍ । विप्राय दद्यात्पाव्रं तु प्रतिमासमुपोषितः ॥५४॥

नामव्रयमशेषेण मासि मासि दिनदूयं ‍ । तथैवोच्चारयन्दद्यान्मासि मासि यवादिकम् ‍ । प्रणम्या च ह्रपीकेशं कृतपूजः प्रसादयेत् ‍ ॥५५॥

विष्णो नमस्ते जगतीप्रसूते श्रीवासुदेवाय नमो नमस्ते । नारायणास्यं प्रणतैर्विचिन्य करोतु मे शाश्वतपुण्यशिम् ‍ ॥५६॥

प्रसीद पुण्यं जयमेति विष्णो श्रीवासुदेवर्द्धिमुपैतु पुण्यम् ‍ । प्रयातु वाशेषमथो विनाशं मा तेऽङ्‍घ्रिपद्मादितरव्र मे मतिः ॥५७॥

विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम् ‍ । नाराय़णास्तु मे धर्मो जहि षापमशेषतः ॥५८॥

अनेकजन्मजनितं बाल्ययौवनवार्द्धके । पुण्यं विवृद्धिमायातु यातु पापं च संक्षयम् ‍ ॥५९॥

आकाशादिषु शब्दादौ श्रोव्रादौ महदादिषु । एकूतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः ॥६०॥

यथैक एव धर्मत्मा वासुदेवो व्यवस्थितः । तेन सत्येन पापं मे नरकार्तिप्रदं क्षयम् ‍ ॥६१॥

प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः । पापस्य हानिः पुण्यस्य बृद्धिर्मेऽस्तूत्तमोत्तमा ॥६२॥

एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव्र । भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥६३॥

पारणान्ते तु देवेशप्रीणनं शक्तितो नृप । कुर्वीताखिलपाखण्डैरालापं च विवर्जयेत् ‍ ॥६४॥

एवं संवत्सरस्यान्ते काञ्चनीं प्रतिमां हरेः। पूजयित्वा वस्त्रपुष्पैर्घृतपाव्रेण संयुतैः ॥६५॥

गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः । विलम्वितं च यत्वूर्वं देवानन्यान्भजेद्यदि ॥६६॥

तस्मिन्नहनि दातव्यं भोजते चानिवारितम् ‍ । इत्येषा कथिता पुण्या सुकृतस्य जयावहा ॥६७॥

द्वादशी नरकं पार्थ यामुपोष्य न पश्यति । नाग्नयो न च शस्त्रणि न च लोहमुखाः खगाः ॥६८॥

नारकास्तं प्रवाधन्ते मतिर्यस्य जनार्दने । नामोच्चारणमाव्रेण विष्णोः श्रीणाघसंचयः ॥६९॥

भवत्यघयिनाशश्व नरके पतनं कृतः । नमो नारायण हरे वासुदेवेति कीर्तयत् ‍ ॥७०॥

न याति नरकं मर्त्यः संक्षीणाशेषयातकः । तस्मात्पाखण्डिसंसर्गसकुर्वन्द्वादशीमिमाम् ‍ ॥७१॥

उपोष्य पुण्योपचये न याति नरकं नरः ॥७२॥

पापं क्षिणोति सुकृतस्य करोति वृद्धिं वृद्धिं प्रयच्छति नियच्छाति सर्वदोषात् ‍ । यद्‍द्वादशीह सुकृतातिहिता च लोके कस्मान्न तामुपवसन्ति विमढचित्ताः ॥७३॥ [ ३३८९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुतिष्ठिरसंवादे सुकृतद्वादशीव्रतव्रर्णन नाम द्मशीतितमोऽध्यायः ॥८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ŚAIBYA V(शैब्य)

RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site