संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २००

उत्तर पर्व - अध्याय २००

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अतः परं प्रवक्ष्यामि कार्पासाचलमुत्तमम् ‍ । परमं सर्वदानानां प्रियं सर्वदिवौकसाम् ‍ ॥१॥

देशकालौ समासाद्य धनं श्रद्धां च यत्नतः । देयमेतन्महादानं कुलोद्धरणहेतवे ॥२॥

पूर्वोक्तेन विधानेन कृत्वा सर्वमशेषतः । पर्वतं कल्पयेत्तत्र कार्पासेन कार्पासेन विधानतः ॥३॥

विशद्धारस्तु कर्तव्य उत्तमः पर्वतो बुधैः । दशभिमर्मध्यमः प्रोक्तो जघन्यः पंचभिर्मतः ॥४॥

भारेणाल्पधनो दद्याद्वित्तशाठ्याविवर्जितः । धान्यपर्वतवत्सर्वमासाद्य नृपपुंगव ॥५॥

तद्वज्जागरनं कुर्यात्तद्वच्चैवाधिवासनम् ‍ । प्रभातायां तु शर्वर्यामिमं मंत्रमुदीरयेत् ‍ ॥६॥

त्वमेवावरणे यस्माल्लोकानामिह मिह सर्वदा । कार्पासाचलतस्तस्मादघौध्वंसनो भव ॥७॥

इति कार्पासशैलेद्रं योदद्यात्पर्वसंनिधौ । रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ॥८॥

रुपवान्सुभगो वाग्मी श्रीमातुलविक्रमः । पंच जन्मानि नारी वा जायते नात्र सशंयः ॥९॥

कार्पासपर्वमयो जगदेकबंधुर्यस्मान्न तेन रहितो वरस्त्रयोगः । तस्मादघौघशमनाय सुखाय नित्यं देयो नरेण नरनाथा विमत्सरेण ॥१०॥ [ ७८५७ ]

इति श्रीभविष्ये महापुराणे उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्पासा चलदानविधिवर्णनं नाम द्विशततमोऽध्यायः ॥२००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP