TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५८

उत्तर पर्व - अध्याय ५८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ५८

श्रीकृष्ण उवाच ॥

ब्रह्मपुव्रो महातेजा अव्रिर्नाम महानृषिः । तस्य पत्नी महाभाग अनसूया पतिव्रता ॥१॥

तयोः कालेन महता जातः पुव्रो महातपाः । दत्तो नाम महायोगी विष्णोरंशो महीतले ॥२॥

द्वितीयो नाम लोकेस्मिन्ननघश्वेति विश्रुतः । तस्य भार्यानदी नाम बभूव सहचारिणी ॥३॥

अष्टपुव्रा जीववत्सा सर्व ब्राह्मगुणैर्वृता । अनयोर्विष्णुरूपेण लक्ष्मीश्वैवानदी स्मृता ॥४॥

एवं तस्य सभार्यस्य योगाभ्यासरतस्य वा । आजग्मुः शरणं देवाः शुम्भदैत्येन पीडिताः ॥५॥

ब्रह्मलब्धप्रसादेन द्रुतं गत्वामरावतीम् ‍ । संरुद्धा जम्मदैत्येन दिव्यवर्षशतं नृप ॥६॥

दैत्यदानवसंयोगे पातालादेत्य भारत । तस्य सैन्यमसङ्खन्येयं दैत्यदानवराक्षसैः ॥७॥

तेन निर्णाशिता देवाः सेन्द्रचन्द्रमरुन्दणाः । त्याजिताः स्वानि धिष्ण्यानि त्यक्त्वा जग्मुर्दिशो दश ॥८॥

अग्रतः प्रलयं यान्तः सेन्द्रा देवा भयार्दिताः । पृष्ठतोऽनुव्रजन्ति स्म दैत्या जम्मपुरःसराः ॥९॥

युध्यन्तः शरसङ्‍घातैर्गदामुशलमुद्नरैः । नर्दन्तो वृषभारूढाः केचिन्महिषवाहनाः ॥१०॥

शरभैर्गण्डकैर्व्याघ्रैर्वानरै रमसैर्द्रुताः । मुञ्चन्तो यान्ति पाषाणाञ्छतन्घीस्तोमराञ्छरान् ‍ ॥११॥

यावद्विन्ध्यगिरिं प्राप्तास्तत्तस्याश्रममण्डळम् ‍ । अनघश्वानदी चैव दम्पत्यं यव्र तिष्ठति ॥१२॥

तयोः समीपं संप्राप्तास्ते नराः शरणार्थिनः । अनघोऽपि च तान्देवाँल्लीलयैव सवासवान् ‍ ॥१३॥

अभ्यन्तरे प्रविश्याथ तिष्ठध्वं विगतज्वराः । तथेति नाम ते कृत्वा सर्वे तुष्टिं समास्थिताः ॥१४॥

दैत्या अपि द्रुतं प्राप्ता न्घन्तः प्रहरणैररीन् ‍ । इत्यूचुरुल्बणा घोरान्गृह्लीध्वं ब्राह्मणीं मुनेः ॥१५॥

द्रुतं द्रुमानाक्षिप्यध्वं पुष्पोपगफलोपगान् ‍ । अथारोप्यानघं मूर्न्घि दैत्या जग्मुस्तदाश्रमान् ‍ ॥१६॥

तत्क्षणाच्चापि दैत्यानां श्रीर्वंभूव शिरोगता । द्त्तकेनापि ते द्दष्टा नष्टा ध्यानाग्निना क्षणात् ‍ ॥१७॥

निस्तेजसो बभूबुर्हि निःश्रीका मदपीडिताः । देवैरपि गृहीतास्ते दैत्याश्व हरणे रणे ॥१८॥

रुदन्तो निस्तनन्तश्व निश्वेष्टा ब्रह्मकण्टकाः । ऋष्टिभिः करणैः शूलैस्त्रिशूलैः परिघैर्घनैः ॥१९॥

एवं ते प्रलये जग्मुस्तत्प्रभावान्मुनेस्तदा । असुरा देवशस्त्रौघैजिंता इन्द्रेण घातिताः ॥२०॥

देवा अपि स्वराष्ट्रेषु तस्थुः सर्वे यथा पुरा । सुरैरपि मुनेस्तस्य देव्रर्षैर्महिमाऽभवत् ‍ ॥२१॥

ततः स सर्वलोकानां भवाय सततोत्थितः । कर्मणा मनसा वाचा शुभान्येव समाचरत् ‍ ॥२२॥

काष्ठकुडन्यशिलाभूत ऊर्ध्वबाहुर्महातपाः । ब्रह्मोत्तरं नाम तपस्तेपे सुनियतव्रतः ॥२३॥

नेव्रे ह्यनिमिषे कृत्वा भ्रुवोर्मध्ये विलोकयन् ‍ । व्रीणि वर्षसहस्त्राणि दिव्यानीति हि नः श्रुतम् ‍ ॥२४॥

तथोर्ध्वरेतस्तस्य स्थितस्यानिमिषस्य हि । योगाभ्यासप्रयत्नस्य माहिष्मत्याः पतिः प्रभुः ॥२५॥

एकाहाद्‍द्रुतमभ्येत्य कार्तवीर्योऽर्जुनो नृप । शुश्रूषाविनयं चक्रे दिवाराव्रमतन्द्रितः ॥२६॥

गाव्रसंवाहनं पूजां मनसा चिन्तितं तथा । संपूर्णे नियमे वृत्ते द्दढतुष्टन्या समन्वितः ॥२७॥

तस्मै ददौ वरान्पुष्टांश्वतुरो भूरिते जसः । पूर्वं बाहुसहस्त्र तु स वव्रे प्रथमं वरम् ‍ ॥२८॥

अधर्माभिहतस्यास्य सद्भिस्तस्मान्निवारणम् ‍ । धर्मेण पृथिवीं जित्वा घर्मेणैवानुपालनम् ‍ ॥२९॥

संग्रामान्सुबहूञ्जित्वा हत्वा वीरान्सहस्त्रशाः । सग्रामे युध्यमानस्य वधो मे स्याद्धरेः करात् ‍ ॥३०॥

मुनिना तेन लेकेऽस्मिन्दत्तं राज्यं महीतले । कार्तवीर्यस्य कौन्तेय योगाभ्यासं सविस्तरम् ‍ ॥३१॥

चक्रवर्तिपदं चैव अष्टसिद्धिसमन्वितम् ‍ । तेनापि पृथिवी कृत्स्त्र सप्तद्वीपा सपर्वता ॥३२॥

ससमुद्राकरवती धर्मेण विधिना जिता । तस्य बाहुसहस्त्रं तु प्रभावात्किल धीमतः ॥३३॥

यागाद्रथो ध्वजश्वैव प्रादुर्भवति मायया । दशयज्ञसहस्त्राणि तेषु द्वीपषु सप्तसु ॥३४॥

निरर्गलानि वृत्तानि स्वयं ते तस्य पाण्डव । सर्वे यज्ञा महाबाहो प्रसन्ना भुरिदक्षिणाः ॥३५॥

सर्वे काञ्चनवेदिक्याः सर्वे यूपैश्व काञ्चनैः । सर्वदेवैर्महाभागैर्विमानस्थैरलङ्‍कृताः ॥३६॥

गन्धर्वैरप्सरोभिश्व नित्यमेवोपशोभिताः । तस्य यज्ञे जगुर्गाथां गन्धर्वा नारदस्तथा ॥३७॥

चरित राजसिंहस्य महिमान निरीक्ष्यसे । तन्नून कार्तवीर्यस्य । गर्ति यास्यसि पार्थिव ॥३८॥

यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च । द्वीपेषु सप्तसु स वै खड्‍गचर्मशरासनी ॥३९॥

व्यचरच्छन्येनवद्यो वै दूरादारादपश्यत । अनष्टद्रव्यता चास्य न शोको न च वै क्लमः ॥४०॥

प्रभावेन महीराजः प्रजा धर्मेण रक्ष्य च । पञ्चाशीतिसहस्त्राणि वर्षाणां वै नराधिप ॥४१॥

समुद्रवसनायां स चक्रवर्ती बभूव ह । स एव पशुपालोऽभूत्क्षेव्रपालः स एव च ॥४२॥

स एव वृष्टन्यां पर्जन्यो योगित्वादर्जुजोऽभवत् ‍ । स वै बाहुसहस्त्रेण ज्याघानकठिनत्वचा ॥४३॥

वाति रश्मिसहस्त्रेण क्षोभ्यमाणे महोदधौ । स हि नागमनुष्यैस्तु माहिष्मत्यां महद्युतिः ॥४४॥

कर्कोटाहेः सुताञ्जित्वा पुरि तव्र न्यवेशयेत् ‍ । स वै पत्नीं समुद्रस्य प्रावृट्‍कालेम्बुजेक्षणाम् ‍ ॥४५॥

क्रीडते मदोन्मत्तः प्रतिखोतश्वकार ह । ललिता क्रीडता तेन फलनिष्पन्दमालिनीम् ‍ ॥४६॥

ऊर्मीभ्रुकुटिमत्येव शङ्कितास्योति नर्मदा । तस्य बाहुसहखेण क्षोभ्यमाणे महोदधौ ॥४७॥

भवन्त्यालीननिश्वेष्टाः पातालस्था महासुराः । तूष्णीं कृता महाभाग लीनहीनमहामतिः ॥४८॥

चकाराडोलयत्ता दोःसहखेण ससागरम् ‍ । क्रान्ता निश्वलमूर्द्धानो बभूवुश्व महोरगाः ॥४९॥

सायाह्रे कदलीखण्डान्निधास्यन्ति हता इव । सर्वे विद्या धनुर्जाताः सुतिक्तं पञ्चभिः शरैः ॥५०॥

लङ्काधिपं मोहयित्वा सबलं रावणं बलात् ‍ । निर्जित्य वशमानीय माहिष्मत्यां बबन्धच ॥५१॥

ततोऽभ्येत्य पुलस्त्यस्तु अर्जुनं संप्रसादयन् ‍ । मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुगामिना ॥५२॥

तस्य बाहुसहखस्य बभुव ज्यातलस्वनः । क्षुधितेन कदाचित्स प्रार्थितश्विव्रभानुना ॥५३॥

सप्तद्वीपां चिव्रभानोः प्रादाद्भिक्षां महीमिमाम् ‍ । कुण्डेशयस्ततोऽद्यापि द्दश्यते भगवान्हरिः ॥५४॥

निम्बादित्यश्व प्रत्यक्षो जाग्रतस्तस्य वेश्मनि । बभूव दुहिताहेतोः शरदोऽद्यापि तिष्ठति ॥५५॥

स एवं गुणसंयुक्तो राजाऽभूदर्जुनो भुवि । अनघस्य प्रसादेन योगाचार्यस्य पाण्डव्र ॥५६॥

तेनेयं वरलधंन कार्तवीर्येण योगिना । प्रवर्तिता मर्त्यर्लोके प्रसिद्धा ह्यनघाष्टमी ॥५७॥

अघं पापं स्मृतं लोके तच्चापि व्रिविधं भवेत् ‍ । यस्मादघं नाशयति तेनासावनघा स्मृता ॥५८॥

तस्याष्टगुणमैश्वर्यं विनोदार्यं विभाव्यते । अणिमा महिमा प्राप्तिप्राकाम्ये महिमा तथा ॥५९॥

ईशित्वं च वशित्वं चसर्वकामावसायिता । इत्यष्टौ योगसिद्धस्य सिद्धयो मोक्षलक्षणाः ॥६०॥

समुत्पन्ना दत्तकस्य लोके प्रत्ययकारकाः । याव्रासमाप्तौ संगृह्य यदद्यानि तथैव वा ॥६१॥

जगत्समस्तमनघं कुर्यादस्मादतोऽनघा । मदशो मद्नतप्रातो लोकेस्मिन्वृत्तको द्विजः ॥६२॥

युधिष्ठिर उवाच ॥ ईद्दशं पुण्डरीकाक्ष स वै राजा स्वयं व्रतम् ‍ ॥६३॥

चक्रे वा व्रिषु लोकेषु कैर्मन्व्रैः समयैश्व कैः । कस्मिन्काले तिथौ कस्यामेतन्मे वद केशाव ॥६४॥

श्रीकृष्ण उवाच ॥ कृष्णाष्टभ्यां मार्गशीर्षे दाम्पत्यं दर्मनिर्मितम् ‍ । अनघं चानघांच्चैव बहुपुव्रैः समन्विताम् ‍ ॥६५॥

पुराकृती कृतं शान्तं भूमिभागे स्थितं शुभम् ‍ । स्त्रात्वैवमर्चयेत्पुष्पैः सुसुगन्धैर्युधिष्ठिर ॥६६॥

ऋग्वेदोक्तऋचा विप्रा विष्णुं ध्यात्वा ममांशजम् ‍ । अनघं वासुदेवेनानघां लक्ष्मीं व्रजां तनुम् ‍ ॥६७॥

प्रद्युन्मदिपुव्रवर्गे हरिवशे यशोदितम् ‍ ॥६८॥

" ॐ अतो देवा अवंतु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्त धामभिः । इदं विष्णुर्विचक्रमे व्रेधा निदधे पदम् ‍ । समळ्हमस्य पांसुरे । व्रीणिपदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयत् ‍ । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा । तद्विष्णोः षरम पदं सदा पश्यन्ति सूरय़ः । दिवीत्व चक्षुराततम् ‍ तद्विप्रासो विपन्यवो जागृवांसः समिंधते । विष्णोर्यत्परमं पदम् ‍ " । कालोद्भवैः फलैः कन्दैः शृङ्गारैर्बदरैः शुभैः । वित्तैश्व धान्यैः पुष्पैश्व गन्धधूपैः सदीपकैः ॥६९॥

यः पूजयेद्भक्तियुक्तः सर्वपापैः प्रमुच्यते । ततो द्विजाम्भोजयेच्च सुह्रत्संबन्धिबान्धवान् ‍ ॥७०॥

व्रतावसाने गृह्रीयात्कश्विदेको नरो व्रतम् ‍ । तेषां मध्ये द्दढाश्वक्रुरनघव्रतपारगाः ॥७१॥

इदं जीवनघाती चेत्सत्यं तु समयोषितम् ‍ । चर्षमेकं ततः स्वेच्छा इदं तवानघव्रतम् ‍ ॥७२॥

तव्रोपेक्षणकं कार्यं नटनर्तकगायकैः । प्रभाते तु नवभ्यां त तोयमध्ये विसर्जयेत् ‍ ॥७३॥

एवं व्रतं यः कुरुते वर्षे वर्षे च हर्षितः । भक्तियुक्तः श्रद्धया च सर्वपापैः प्रमुच्यते ॥७४॥

कुटुंम्ब वर्द्धते तेषां येषां विष्णुः प्रसीदति । आरोग्यं सप्तजन्प्रानि ततो यांति परां नग्निम् ‍ ॥७५॥

एतामघौघशमनामनघाष्टमीं च कौन्तेय संप्रति मया कथितां हिताय । कुर्तन्त्यनन्यमनसः स्वयशोभिवृद्धन्यै ऋद्धिं प्रयान्ति कृतवीर्यसुतानुरूपम् ‍ ॥७६॥ [ २४०१ ]

इति श्रीभविष्य महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेअनघाष्टमीव्रतं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

book learning

  • पुस्तकी ज्ञान 
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site