TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३६

उत्तर पर्व - अध्याय ३६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ३६

श्रीकृष्ण उवा च ॥

पञ्चमी दयिता राजन्नागानन्दविवर्द्धनी । पञ्चम्यां किल मागानां भवगीत्यत्सवो महान् ‍ ॥१॥

वासूकिस्वक्षकश्वैव कालिको मणिभद्रकः । धूनराष्ट्रो रैवतश्व कर्कोटकधमञ्जयौ ॥२॥

एसे प्रयच्छन्त्यभयं प्राणिनां प्राणजीविनाम् ‍ । पञ्चम्यां स्त्रापपन्तीह नागान्क्षीरेण ये नराः ॥३॥

तेषां कुले प्रयच्छन्ति अभयं प्राणिनां सदा । शप्ता नागा यदा माव्रा दह्यमाना दिवानिशम् ‍ ॥४॥

विर्वापिता गवां क्षीरैस्ततःप्रभृति वल्लभाह । युधिष्ठिर उवाच ॥ माव्रा शप्ताः कथं नागाः किमुद्दिश्य च कारणम् ‍ ॥५॥

कथ वा तस्य शापस्य विनाशोऽभूज्जनार्दन । श्रीकृष्ण उवाच ॥ उच्चैःश्ववाश्वराजश्व श्वेतवर्णोऽमृतोद्भवः ॥६॥

तं द्दष्ट्रवा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् ‍ । अश्वरत्नमिदं श्वेतं पश्य पश्यामृतोद्भव्रम् ‍ ॥७॥

कृष्णांश्व पश्यसे वालान्सर्वश्वेतानुताद्य वै । विनतोवाच ॥ सर्वश्वेतो हयवरो नाय़ं कृष्णो न लोहितः ॥८॥

कथं त्वं पश्यसे कृष्णं विनतोवाच तां स्वयम् ‍ । कद्रूरुवाच ॥ पश्येहमेकनयाना कृष्णवालसमन्वितम् ‍ ॥९॥

द्विनेव्रा च त्वं व्रिनते न पश्यसि पणं कुरू । विनतोवाच ॥ अहं दासी भविव्री ते कृष्णकेशे प्रदर्शिते ॥१०॥

न चद्दर्रायसे कद्रु मम दासी भविष्यसि । एवं ते विपणं कृत्व्रा गते क्रोधसमन्विते ॥११॥

स्वप्रते प्राज्यदोषे तु कदूर्जिह्यमचिन्तयत् ‍ । आहूय पव्रान्पोवाच वाला भूत्वा ह्रयोत्तमे ॥१२॥

तिष्ठष्व विपणौ जेण्ये विनतां जयगृद्धिनीम् ‍ । प्रोचुस्ते जिह्यबुद्धिं तां नागाः कदूं विगृह्य च ॥१३॥

अधर्म एष तु महान्करिष्यामो न ते वचः । अशपद्रुषिता कद्रूः पावको वः प्रधक्ष्यति ॥१४॥

गते बहुतिथे काळे पाण्डवो जनमेजयः । सर्पसव्रं स कर्ता वै भ्‍मावन्यैः सुदुष्करम् ‍ ॥१५॥

तस्मिन्सव्रे च तिग्मांशुः पावको मक्षयिष्यति । एवं शप्त्वा तदा कद्रूः प्रत्युवाच न किञ्च ॥१६॥

माव्रा शाप्तस्तदा नागः कर्तव्यं नान्वपद्यत । वासुक्तिर्दुःखसतप्तः पपात भुवि मूर्च्छितः ॥१७॥

वासुकिं दुःखितं द्दष्ट्‍वा ब्रह्या प्रोवाच सान्त्वयन् ‍ । मा शुचो वासुकेऽत्यर्थं शृणु मद्वचनं परम् ‍ ॥१८॥

यायावरकुले जातो जरत्कारुरिति द्विजः । भविष्यति महातेजास्तस्मिन्काले तपोनिधिः ॥१९॥

भगिंनीं च जगत्कारुं तस्य त्वं प्रतिदास्यसि । भविता तस्य पुव्रोऽसौ आस्तीक इति विश्रुतः ॥२०॥

स तत्सव्रं प्रवृद्ध व नागानां भयदं मह्त् ‍ । निषेधयिष्यति मुनिर्वाग्मिः संपूज्य पार्थिवम् ‍ ॥२१॥

तदियं भगिनी नाग रूपौदार्यगुणान्विता । जरत्कारुर्जरत्कारोः प्रदेया ह्यविचारतः ॥२२॥

यदासौ प्रार्थ्यतेऽरण्ये यत्किञ्चित्प्रवदिष्यति । तत्कर्तव्यमशेषण इच्छञ्छ्रेयस्तथात्मनः ॥२३॥

पितामहव्रचः श्रुत्वा वसुकिः प्रणिपत्य च । तथाकरोद्यथा चोक्त यन्तं परममास्थितः ॥२४॥

तच्छ्र्त्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः । पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः ॥२५॥

अप्लवे तु निमग्नानां घोरे यज्ञाग्निसागरे । आस्तीकस्तव्र भविता प्लवभूतोऽभयप्रदः ॥२६॥

श्रुत्वा स चापि राजानमृत्विजस्तदनन्तरम् ‍ । निवर्तयिष्यति यागं नागानां मोहनं परम् ‍ ॥२७॥

पञ्चम्यां तच्च भविता ब्रह्या प्रोवाच लेलिहाम् ‍ । तस्मादिय महाराज पञ्चमी दयिता शुभा ॥२८॥

नागानां हर्षजननी द्त्ता वै ब्रह्मणा पुरा । द्त्त्वा तु भोजन पूर्वं ब्राह्मणानां तु कामतः ॥२९॥

विसुज्य नागाः प्रीयन्तां ये केचित्पृथिव्रीतले । हिमाचले ये वसन्ति येऽन्तरिक्षे दिवि स्थिताः ॥३०॥

ये नदीषु महानागा ये सरःस्वभिगामिनः । ये वापीषु तडागषु तेषु सर्वेषु वै नमः ॥३१॥

नागान्विप्रांश्व संपूज्य विसर्ज्य च यथार्थतः । ततः पश्वाच्च भूञ्जीयात्सह भृत्यैर्नराधिप ॥३२॥

पूर्वं मधुरमश्रीयात्स्वेच्छया तदनन्तस्म् ‍ । एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ॥३३॥

मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः । विमानव्ररमारूढो रमते कालमीप्सितम् ‍ ॥३४॥

इह चागत्य राजासौ सर्वराजवरो भवेत् ‍ । सर्वरन्तसमृद्धश्व वाहनाढयश्व जायते ॥३५॥

पञ्चजन्मन्यसौ राजा द्वापरे द्वापरे भवेत ‍ । आधिव्याधिविनिर्मुक्तः पत्नीपुव्रसहायवान् ‍ ॥३६॥

तस्मात्पूज्याश्व नागाश्व घृतक्षीरादिना सदा । युधिष्ठिर उवाच ॥ दशन्ति यं नरं कृष्ण नागाः क्रोधसमन्विताः ॥३७॥

भवेत्किं तस्य दष्टस्य विस्तरात्प्रब्रवीहि मे । श्रीकृष्ण उवाच ॥ नागदष्टो नरो राजन्प्राप्य मृत्युं व्रजत्यधः ॥३८॥

अधो गत्वा भवेत्सर्पो निर्विषो नाव्र संशयः । युधिष्ठिर उवाच ॥ नागदष्टः पिता यस्य भ्राता माता सुह्रत्सुतः ॥३९॥

स्वसा वा दुहिता भार्या किं कर्तव्यं वदस्व मे । मोक्षाय तस्य गोविन्द दान ब्रतमुपोषितम् ‍ ॥४०॥

बूहि मे यदुशार्दूल येन स्वर्गतिमाप्रुयात् ‍ । श्रीकृष्ण उवाच ॥ उपोष्या प्रञ्चमी राजन्नागानां पुष्टिवर्द्धनी ॥४१॥

वर्षमेकं तु राजेन्द्र विधानं शुणु याद्दशम् ‍ । मासे भाद्रपदे या तु शुक्लपक्षे महीपते ॥४२॥

सा च पुण्यतमा प्रोक्ता ग्राह्या सद्नतिकाम्यया ॥४३॥

चतुर्थ्यामकभक्तं तु तस्यां नक्तं प्रकीर्तितम् ‍ । भूरिचन्द्रमयं नागमथवा कलधौतजम् ‍ ॥४४॥

कृत्वा दारुमयं चापि उताहो मृन्मयं नृप । पञ्चम्यामर्चयेद्भक्त्या नागं पञ्चफणं शृणु ॥४५॥

करवीरैस्तथा पद्मैर्जाती पष्पैः सुशोभनैः । गन्धपुष्पैह सनैवेद्यैः पूज्य पन्नगसत्तप्रम् ‍ ॥४६॥

ब्राह्मणान्भोजयेत्पश्वाद्धृतपायसमोद्कैः । नारायणबलिः कार्यः सर्पदष्टस्य देहिनः ॥४७॥

दोन पिण्डप्रदाने च ब्राह्मणानां च तर्पयेत् ‍ । वृषोत्सर्गस्तु कतव्यो गते संवत्सरे नृप ॥४८॥

स्त्रानं कृत्वोदकं दद्यात्कृष्णोऽव्र प्रीयतामिति । अनन्तं वासुकिं शेषं पद्मं कम्बलमेव च ॥४९॥

तथा तक्षकनागं च नागमश्वतरं नृप । घृतराष्ट्रं शङ्खपालं कालियं तक्षक तथा ॥५०॥

पिङ्गलं च महानाग मासि मासि प्रकीर्तिताः । वत्सरान्ते पारणं स्यान्महाब्रा ह्यणभोजनम् ‍ ॥५१॥

इतिहासविदे नागं काञ्चनन कृतं नृप । तथा धेनु प्रदातव्या सवत्सा कांस्य दोहना ॥५२॥

एष पारणके पार्थ विधिः प्रोक्तो विचक्षणैः । कृते व्रतवरे तस्मिन्सद्नतिं यान्ति बान्धवाः ॥५३॥

ये दन्दशूकरदनैर्मृताह प्राप्त ह्यधोगतिम् ‍ । वर्षमेक चरिष्यन्ति भक्त्या ये व्रतमुत्तमम् ‍ ॥५४॥

दांष्ट्रिकं मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति । यश्वेदं शृणुयान्नित्यं पठेद्भकत्या समन्वितः ॥५५॥

न वै कुटुम्बे नागेभ्यो भयं भवति कुव्रचित् ‍ । श्रीकृष्ण उवाच ॥ तद्वद्भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ॥५६॥

यस्त्वालेख्य़ नरो नागान्कृष्णवर्णादिवर्णकैः । पूजयेद्नन्धपुष्पैस्तु सर्पिर्गुग्गुलुपायसैः ॥५७॥

तस्य तृष्टिं समायान्ति पन्नगास्तक्षकादयः । आसप्तमात्कुलात्तस्य न भयं नागतो भवेत् ‍ ॥५८॥

तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्‍बुधः । तथा चाश्वयुजे मासि पञ्चभ्यां कुरुनन्दन ॥५९॥

कृत्वा कुशमयान्नागानिन्द्राण्या सह पूजयेत् ‍ । घृतोदकाभ्यां पयसा स्त्रापयित्वा विशाम्पते ॥६०॥

गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्व विविधैत्सथा । यस्त्वस्यां विविधान्नागाञ्छचिर्भक्त्या समन्व्रितः ॥६१॥

पूजयेत्कृरुशार्दूल तस्य शेषादयो नृप । नागाः प्रीता भवन्तीह शान्तिं प्रान्पोति शोभनाम् ‍ ॥६२॥

स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः । इत्येतत्कथितं वीर पञ्चमीव्रतमुत्तमम् ‍ ॥६३॥

तव्रायमुच्यते मन्व्रः सर्वदोषेधकः । ॐ कुरु कुल्लेहुं फट् ‍ स्वाहा । भक्ताश्व भक्तिसहिताः शतपञ्चमीषु ये पूजयन्ति भुजगान्कुसुमोपहारैः । तेषां गृहेष्वभयदायिन एव सपाः शश्वत्पमोदपरमा रुचयो भवन्ति ॥६४॥ [ १७१० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नागपञ्चमीव्रतवर्णनं नाम षट् ‍ व्रिंशत्तमोऽध्यायः ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:22.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

active pressure

  • क्रियाशील दाब 
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.