संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२१

उत्तर पर्व - अध्याय १२१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाव ॥

शृणु भारत वक्ष्यामि पञ्चाशीति व्रतानि च । नोक्तानि यानि कस्यापि मुभिर्धर्मदर्शिभिः ॥१॥

भविष्यमत्स्यमार्कडपुराणेषु च वर्णितम् ‍ । वाराहं चैव संगृह्य कथ्यंते तानि ॥२॥

पांडवयदभीष्टं सुमित्राय शिष्याय च सुताय च । न कथ्यते धर्मजातं किं तेनोदरवर्तिना ॥३॥

श्रुतिस्मृतिपुराणेभ्यो यन्मया ह्यवधारितम् ‍ । तत्ते वच्मि कुरुश्रेष्ठ कस्यान्यस्योपदिश्यते ॥४॥

स्त्रात्वा प्रभातसंध्यायामुपगृह्य च पिप्पलम् ‍ । तिलपत्राणि यो दद्यान्न स शोचेत तत्कृते ॥५॥

व्रतानामुत्तमं ह्येतत्सर्वपापप्रणाशनम् ‍ । पात्रव्रतमिति ख्यातं नाख्यातं कस्यचिन्मया ॥६॥

शुशुद्धस्य सुवर्णस्यसुवर्ण यःप्रयच्छति । पुण्य ह्रि विप्रकथिते प्रीत्या पीतयुगान्वितम् ‍ ॥७॥

व्रतं वाचस्पतेरेतद्वलबुद्धिप्रदायकम् ‍ । वृत्रघ्नस्य पुराख्यातं गुरुणा सर्वकामदम् ‍ ॥८॥

लवणं कटुतैलं च जीरकं मरिचानि च । हिंगुशुंठिसमायुक्तं सर्व परिचयं तथा ॥९॥

चतुर्थ्यामेकाभक्ताशी सकृद्दत्वा कुटुंबिने । गृहेषु सप्तसु सदा शिलायुक्तानि भारत ॥१०॥

एतच्छिलाव्रतंनाम लक्ष्मीलोकप्रदायकम् ‍ । कर्त्यव्यमिह यत्नेन मुखपाटवकारकम ॥११॥

नक्तमन्नं चरित्वा तु गवा सार्द्ध कुटुंबिने । हैमं चक्रं त्रिशूलं च दद्याद्विपाय वारासी ॥१२॥

प्रणम्यभक्त्या देवेशौ प्रीयेतां शिवकेशवौ । एतद्देवव्रतं नाम महापातकनाशनम् ‍ ॥१३॥

कृत्वैकभुक्तं वर्षात शक्त्वा हैमवृषान्विताम् ‍ । धेनुं तिलमयीं दद्यात्सर्वोपस्करणैर्युताम् ‍ ॥१४॥

एतद्रुद्रवतं नाम पापशोकप्रणाशनम् ‍ । यः करोति पुमान्राजन्सपदं याति शांकरम् ‍ ॥१५॥

सर्वौषध्युदकस्त्रातः पञ्चम्यां पूज्यपंचकम् ‍ । सप्तोपस्करदानं च यः करोति गृहाश्रमी ॥१६॥

गृहाद्युदूखलं शूर्प शिला स्थाली च प्रञ्चमी । उदकुंभं च चुल्ली च एतेषामनुकिञ्चन ॥१७॥

एतानि गृहिणां गेहे प्रस्थाप्य पुरुषोत्तमम् ‍ । उपस्करोति या नारी न सीदति कदाचन ॥१८॥

एतद्‌गृहव्रतं नाम सर्वसौख्यप्रदायकम् ‍ । अत्रिणा ह्यनसूयायाः कथितं पाण्डुनन्दन ॥१९॥

यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ‍ । ददाति श्रद्धयो येतो ब्राह्मणाय कुटुंबिने ॥२०॥

स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ‍ । आषाढदिचतुर्मासमभ्यंगं वर्जयेन्नरः ॥२१॥

पारिते च पुनर्दद्यात्तिलतैलघंठ नवम् ‍ । भोजनं पायसाज्यं च स याति भवनं हरेः ॥२२॥

लोकप्रतिकरं चैतत्प्रीतिव्रतिमिहोच्यते । वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् ‍ ॥२३॥

दद्याद्वस्त्रयुगं सूक्ष्मं रसपात्रैश्व संयुतम् ‍ । संपूज्य विप्रमिथुनं गौरी मे प्रीयतामितिः ॥२४॥

एतद्भौरीव्रतं नाम भवानीलोकदायकम् ‍ । पुरुष्जो यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः ॥२५॥

संवत्सरांते तस्मिन्वा दिवसे विघ्नवर्जितम् ‍ । अशोककांचन दद्यात्सद्वस्त्रयुगसंश्रितम् ‍ ॥२६॥

विप्राय वसुसंयुक्तं प्रद्युम्रः प्रीयतामिति । कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नृप ॥२७॥

एतत्कामव्रतं नाम सर्वशोकविनाशनम् ‍ । आषाढदिचतुर्मासं वर्जयेन्नखकुंतनम् ‍ ॥२८॥

वुंताकभक्षणं चैव मधुसर्पिर्घटान्वितम् ‍ । कार्तिक्या तुं पुनर्हैमं ब्राह्मणाय निवेदयेत् ‍ ॥२९॥

रुद्रलोकमवाप्नोति शिवव्रतमिदं स्मृतम् ‍ । एवं पञ्चदशीं स्मृत्वा एकभक्तेन मानवः ॥३०॥

संपूज्य पूर्णिमां देवीं लिखित्वा चन्दनादिना । ततः पञ्चघटान्पूर्णान्पयोदधिघृतेन च । मधुना सितखण्डेन ब्राह्मणायोपपादयेत् ‍ ॥३१॥

मनोरथान्पूरयस्व संपूर्णान्पूर्णिमा ह्यसि । पञ्चकुम्भप्रदानेन भूतानां तुष्टिस्तु मे । द्विजानेवं नमस्कृत्य सर्वान्कामानवाप्नुयात् ‍ ॥३२॥

एतत्पंचघटं नाम व्रतं पुष्टिप्रदायकम् ‍ । वर्जयेद्यस्तु पुष्पाणि हेमंतशिशिराव्रतम् ‍ ॥३३॥

पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्याथ काञ्चनम् ‍ । दद्याद्वै कालवेलायां प्रीयतांशिवकेशवौ ॥३४॥

शिरःसौगन्ध्यजननंसदान्दकरंनृणाम् ‍ । कृत्वा परपदं याति सौगन्ध्यव्रतमुत्तमम ‍ ॥३५॥

फाल्गुनादितृप्तियायां लवणं यस्तु वर्जयेत् ‍ । समाप्ते शयनं दद्याद्‌गृहे चोपस्करान्वितम् ‍ ॥३६॥

संपूज्य विप्रमिथुनं भवानी प्रीयतामिति । गौरी लोके वसेत्कल्पं सौभाग्यव्रतमुत्तमम् ‍ ॥३७॥

संध्यामौन नरःकृत्वा समाप्ते घुतकुंभदः । वस्त्रयुग्मं च घंटां ब्राह्मणाय निवेदयेत ॥३८॥

सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् ‍ । एतत्सारस्वतं नाम रुपविद्याप्रदायकम् ‍ ॥३९॥

मासमध्येऽथपञ्चम्यामुपवासी भवेन्नरः । समाप्ते हेमकमलं दद्याद्धेनुसमन्वितम् ‍ ॥४०॥

स वैष्णवं पदं याति लक्ष्मीः स्वाज्जन्मजन्मनि । एतलक्ष्मीव्रतं नाम दुःखशोकविनाशनम् ‍ ॥४१॥

या तु नारी पिबेत्तोयं जलधारां प्रपातयेत् ‍ । समाप्तधृतसंपूर्णां दद्याद्वदंतिकांनवाम् ‍ ॥४२॥

एतद्धाराव्रतं नाम सर्वरोगहरं परम । कांतिसौभाग्यजननं सपत्नीदर्पनाशनम् ‍ ॥४३॥

गौरीसमन्वितं रुद्रं लक्ष्म्या सह जनार्दनम् ‍ । राज्ञीसमन्वितं सूर्य प्रतिष्ठाप्ययथाविधि ॥४४॥

धूपाक्षेपेण सहितां सुघटां पात्रसंयुताम् ‍ । यो ददाति द्विजेन्द्राणां पुष्पैरभ्यर्च्य पांडुरैः ॥४५॥

दक्षिणासहितां कृत्वा प्रणम्य च विसर्जयेत । एतद्देवव्रतं नाम दिव्यदेहप्रदायकम् ‍ ॥४६॥

कृत्वोपलेपनं शंभोरग्रतः केशवस्य च । यावद्‌व्रतं समाप्यैतद्धेनुं च सजलान्विताम् ‍ ॥४७॥

जन्मायुतं स राजास्यात्ततः शिवपुरे वसेत् ‍ । एतच्छुत्वाव्रतं नाम बहुकल्याणकारकम् ‍ ॥४८॥

अश्वत्थं भास्करं गंगां प्रणम्यैव च वाग्यतः । एकभुक्तं नरः कुर्यादष्टचैकं विमत्सरः ॥४९॥

व्रतांते विप्रमिथुनं पूज्य धेनुत्रयान्वितम् ‍ । वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत् ‍ ॥५०॥

दिवि दिव्यविमानस्थः सेव्यतेऽप्सरसांगणैः एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ‍ ॥५१॥

घृतेन स्त्रपनं कृत्वा शंभोर्वा केश्वस्य च । ब्राह्मणो भास्कर स्यापि गौर्या लंबोदरस्य वा ॥५२॥

अक्षतैस्तु सामं कुर्यात्पद्मं गोमयमण्डले । समाप्य हेमकमलं तिल धेनुसमन्वितम् ‍ ॥५३॥

शुद्धमष्टाङ्गगूलं दद्याच्छिवलोके महीयते । सामगायनतश्वैतत्सामव्रतमिहोच्यते ॥५४॥

नवम्यामेकभुक्तं तु कृत्वा कन्याश्व शक्तितः । भोजयित्वा समादद्याद्धैमकंचुकवाससी ॥५५॥

हैमंचसिंहंविप्रायदत्त्वाशिवपुरंव्रजेत । भवार्बुदं सुरुपश्व शत्रुभिश्वापराजितः ॥५६॥

एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ‍ । यावत्समारमेद्यस्तु पञ्चदश्यां पयोव्रतं ॥५७॥

समाप्ते श्रद्धया दद्याद्गाश्व पञ्च पयस्विनीः । वासांसि च पिशंगानि जलकुंभयुतानिच ॥५८॥

स याति वैष्णवं लोकं पितृणां तारयेच्छतम् ‍ । कल्पांते राजराजः स्यात्पितृव्रतमिदं स्मृतम् ‍ ॥५९॥

तांबूलं समये नित्यं गौरीपुत्रं ददाति ये । पूगचूर्ण्समायुक्त स्त्रियो वा पुरुषोऽषि वा ॥६०॥

वर्ष्यस्यांते तु सौवर्ण कारयित्वा फलान्वितम् ‍ । मुक्ताफलमयं चूर्ण न्नितयं या प्रयच्छति ॥६१॥

न सा प्राप्नोति दौर्भाग्य न दौर्गन्ध्यं मुखस्य च । एतत्पत्रव्रतं नाम सौगन्ध्यजननं परम् ‍ ॥६२॥

चैत्रादिचतुरो मासाञ्जलं कुर्यादयाचितम् ‍ । ज्येष्ठाषाढे च वा मासं पक्षं वा पांडुनंदन ॥६३॥

व्रतांते माणिकं दयादम्रवस्त्रसमन्वितम् ‍ । घृतेन सहितं तद्वत्सप्तधान्यसमन्वितम् ‍ ॥६४॥

तिलपात्रं हिरण्यं च ब्रह्मलोकं महीयते । कल्पांते राजराजः स्याद्धारिव्रतमिहोच्यते ॥६५॥

पञ्चामृतेन स्त्रपनं कृत्वा विष्णोः । शिवस्य च । वत्सरांते पुनर्दद्याद्धेनुं पञ्चामृतैर्युताम ॥६६॥

विप्राय कनकं शंखं स पदं याति शांकरम् ‍ । राजा भवति कल्पांते वृत्तिव्रतमिहोच्यते ॥६७॥

यो हिंसां वर्जयित्वा तु मासं संवत्सरं तथा । व्रतांतेहेमहरिणंकृत्वाशक्त्याविचक्षणैः ॥६८॥

तद्वत्सवत्सांगांदद्यात्सोऽश्वमेधफल्म लभेत् ‍ । अहिंसाव्रतमित्यतेतत्सर्वशांतिप्रद नृणाम् ‍ ॥६९॥

माघमास्युषसि स्त्रानं कृत्वा दंपत्यमर्चयेत् ‍ । भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणैः ॥७०॥

सौभाग्यं महदाप्नोति शरीरारोग्यमुत्तमम् ‍ । सूर्यलोक वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ‍ ॥७१॥

आषाढादिचतुर्मासं प्रातः स्त्रायी भवेन्नरः । विप्राय भोजनं दद्यात्कार्तिक्यां गोप्रदो भवेत् ‍ ॥७२॥

घृतकुंभं ततो दत्त्वा सर्वान्कामानवाप्नुयात् ‍ । वैष्णवव्रतभित्युक्तं विष्णुलोकमवाप्नुयात् ‍ ॥७३॥

अयनादयनं यावद्धर्जयेन्मधुसर्पिषी । तदंते पुण्यदानि घृतधेन्वा सहैव तु ॥७४॥

दत्त्वा शिवप्रदं याति दत्त्वा तु घृतपायसम् ‍ । एतच्छीव्रतं नाम शीलारोग्यफलप्रदम् ‍ ॥७५॥

संध्यादीपप्रदो यस्तु मासं तैलं विवर्जयेत् ‍ । समाप्ते दीपकं दद्याच्चक्रशुलै च कांचने ॥७६॥

वस्त्रयुग्मं च विप्राय स तेजस्वी भवेदृढम् ‍ । एतद्दीपव्रतं नाम सदा कांतिप्रदायकम् ‍ ॥७७॥

एकभक्तेन सप्ताहं गौरीं वा यस्तु पूजयेत् ‍ । संपूज्य पार्वतीं भक्त्या गन्धपुष्पाविलेपनैः ॥७८॥

ततः सुवासिनीभ्यां तु कुंकुमेन विलेपयेत् ‍ । पुष्पैर्विलेपयेच्चैनां कर्पूरागरुचन्दनैः ॥७९॥

तांबूलं शोभनं दत्त्वा नारिकेलफलं तथा । प्रयितां कुमुदां देवीं प्रणिपत्य विसर्जयेत् ‍ ॥८०॥

एकैकां पूजयेद्देवीं सप्ताहं यावदेव तु । पुनस्तु सप्तमे पूर्णे ताः सतैव निमंत्रयेत् ‍ ॥८१॥

षड्रसं भोजयित्वा तु यथाशक्त्या विषूषणैः । भूषायत्वा माल्यवस्त्रेः कर्णवेष्टांगुलयिकैः ॥८२॥

कुमुदा माधवी गौरी भवानी पार्वती उमा । काली च दर्पणं हस्ते प्रत्येकं विनिवेदयेत ॥८३॥

ब्राह्मणं पूजयित्वैकं वाच्यः संपन्नमस्तु ते । सप्तसुन्दरकं नामव्रतं चैतद्युधिष्टिर ॥८४॥

करोति सुन्दरं देहं सौभाग्यं यच्छते परम् ‍ । वर्जयेच्चैत्रमासे तु यस्तु गन्धानुलेपनम् ‍ ॥८५॥

शुक्तिं गंधभृतां दत्त्वा विप्राय सितवाससी । शक्त्या च दक्षिणा दद्यात्सर्वान्कामान्समश्रुते ॥८६॥

वारुणं च षदं याति तदेतद्वरुणव्रतम् ‍ । वैशाखमासे लवणं वर्जयित्वा यतव्रतः ॥८७॥

मासांतेऽथ ततो दद्यात्सवत्सां गां द्विजायते । स्थित्वा विष्णुपदे कल्पं ततो राजा भवेदिह ॥८८॥

एतत्कांतिव्रतं नाम कांतिकीर्तिप्रदायकम् ‍ । ब्रह्माण्डं कांचनं कृत्वा तिलद्रोणपरिस्थितम् ‍ ॥८९॥

त्र्यहं तिलव्रती भूत्वा वह्रिं संतर्पद्‌द्विजम् ‍ । संपूज्य विप्रदंपत्यंमाल्यवस्त्रविभूषणैः ॥९०॥

शक्तितस्त्रिपलादूर्ध्वविश्वात्माप्रीयतामिति । पुण्येऽह्री दद्यात्सं परं ब्रह्म यात्यपुनर्भवम् ‍ ॥९१॥

एतद्‌ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् ‍ । यश्वोभयमुखीं दद्यात्प्रभूतकनकान्विताम् ‍ ॥९२॥

दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम् ‍ । त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम् ‍ ॥९३॥

पलादूर्ध्व यथाशक्त्या तंदुलंरुपसंयुताम् ‍ । छादितं वरवासोभिः पुष्पमालाविभूषितम् ‍ ॥९४॥

दत्त्वा स्वर्गे वसेत्कल्पं कल्पव्रतमिदं स्मृतम् ‍ । यस्तुवत्सतरीं भव्यां कंठाभरणभूषितम् ‍ ॥९५॥

सुपर्याणां सुखस्पृष्टां खलीनालंकृताननाम् ‍ । मोदकोदकपात्रेण तांबूलेन समन्विताम् ‍ ॥९६॥

स्थगितां स्थापयेत्पृष्ठे शृंगाग्रेषु हिमान्विताम् ‍ । ईदृग्विधां व्यतीपाते ग्रहणे चायनद्वये ॥९७॥

अयाचितेन च स्थित्वा ततो दद्याद्‌द्विजातये । एतद्‌द्वारवतं नाम मार्गखेदविनाशनम् ‍ ॥९८॥

परलोकध्वगमने क्लांतिश्रमहरं परम् ‍ । नक्ताशी त्वष्टमीषु स्यादूत्सरांतेऽष्टमोप्रदः ॥९९॥

पौरंदरं पदं याति सुगतिव्रमुच्यते । यश्वेन्धनप्रदो राजन्हेमंताशिशिरव्रतम् ‍ ॥१००॥

घृतधेनुं प्रयच्छेति परं ब्रह्म स गच्छति । शरीरारोग्यजननं द्युतिकांतिप्रदायकम् ‍ ॥१०१॥

वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् ‍ \ एकादश्यां तु नकाशी यश्वक्रं विनिवेदयेत ॥१०२॥

तद्वच्छंखं तु सौवर्ण चैत्रे चित्रासु पांडव । य एतत्कुरुते भक्त्या च विष्णोः पदमाप्नुयात् ‍ ॥१०३॥

एतद्विष्णव्रतं नाम कल्पादौ राज्यलाभकृत । पयोव्रतस्तु पञ्चुम्यां व्रतांते गोयुगप्रदः ॥१०४॥

लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतम् ‍ । सप्तम्यां नक्तभृग्दद्यात्समाप्ते गां पयस्विनीम् ‍ ॥१०५॥

सोऽर्कलोकमवाप्नोति भानुव्रतमिहोच्यते । चतुर्थ्या नक्तभ्ग्दद्यादष्टगाहोमचारणम् ‍ ॥१०६॥

व्रतं वैनायकं नाम सर्वविघ्नविनाशनम् ‍ । महाफलानि यस्त्यक्त्वा चातुर्मासं द्विजातये ॥१०७॥

हैमानि कार्तिके दद्याद्भोयुगेन समं नरः । सितं वस्त्रयुगंतद्वत्संपूर्णाष्टघटास्तथा ॥१०८॥

एतत्फलव्रतं नाम फलवाप्तिकरं सदा । यश्वोपवासी सप्तम्यां समांते हेमपङ्कजम् ‍ ॥१०९॥

धेनूश्व शक्तितो दद्यात्सवत्साः कांस्यदोहनाः । भक्त्या राजेन्द्र विप्राय वाचकाय निवेदयेत् ‍ ॥११०॥

एतत्सौरव्रतं नाम सूर्यलोकप्रदायकम् ‍ । द्वादशद्वादशीर्यस्तु नामप्राशनसंयुतः ॥१११॥

समुपोष्य समांते तु सवस्त्राः सोदकाघटाः । द्वादशात्रगदेयाश्व सर्वकामप्रसिद्धये ॥११२॥

गोविन्दव्रतमित्यद्धोविन्दपददायकम् ‍ । कार्तिक्या यो वृषोत्सर्ग कृस्वा नक्तं समाचरेत् ‍ ॥११३॥

स गोलोकमवाप्नोति वृषव्रतमिदं स्मृतम् ‍ । व्रतांते गौः प्रदातव्या भोजनं शक्तितः परम् ‍ ॥११४॥

विप्राणामत्र कथितं प्राजापत्यमिदं व्रतम् ‍ । चतुर्दश्यां तु नक्ताशी समांते गोयुगप्रदः ॥११५॥

शैवं पदमवाप्नोति ज्ञेयं च त्र्यम्बकव्रतम् ‍ । सप्तरात्रोषितो दद्याद्‌घृतकुंभं द्विजायते ॥११६॥

ब्रह्मव्रतमिदं प्राहुर्बह्मलोकप्रदायकम् ‍ । मासांते च सगां दद्याद्धेनुमंतेपयस्विनीम् ‍ ॥११७॥

शक्रलोके वसेत्कल्पं शक्रव्रतमिदं स्मृतम् ‍ । कार्तिकस्य सिते पक्षे चतुर्दश्यां चराधिप ॥१८॥

सोपवासः पञ्चगव्यं पिबेद्रात्रौ विचक्षणः । कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा ॥१९॥

भितधेन्वास्तथा क्षीरं रक्तायास्तु तथा दधि । गृहीत्वा कर्बुरायास्तु घृतमेकत्र मेलयेत् ‍ ॥१२०॥

वेदोक्तमंत्रै राजेन्द्र कुशोदकसमन्वितम् ‍ । ततःप्रभातसमये स्त्रात्वा संतर्प्य देवताः ॥१२१॥

ब्राह्मणन्वाचयित्वा तु भुञ्चीयाद्वाग्यतः शुचिः । ब्रह्मकूर्चव्रतं ह्येतत्सर्वपापप्रणाशनम् ‍ ॥१२२॥

यद्वाल्ये यच्च कौमार्ये वार्धक्ये चापि यत्कृतम् ‍ । ब्रह्म कूर्चोपवासेन तत्सर्व नश्यति क्षणात् ‍ ॥१२३॥

अनग्निपक्कमश्नाति तृतीयायां तु नरः । गां दत्वा शिवमभ्येति पुनरावृत्तिर्जितम् ‍ ॥१२४॥

एतदृषिव्रतं नाम सर्वमाङ्गल्यकारकम् ‍ । हेमं पलद्वयादूर्ध्व रथमश्वयुगान्वितम् ‍ ॥१२५॥

तिलप्रस्थोपरि गतं सितमाल्ययुगन्वितम् ‍ । दत्वा कृतोपवस्तु दिवि कल्पशतं वसेत् ‍ ॥१२६॥

तदंते राजराजः स्यादग्निव्रतमिदं स्मृतम । कृत्वा पलद्वयादूर्ध्व शय्याभ्यांसंयुतं नरः ॥१२७॥

हैमं रथवरं श्रेष्ठं सर्वोषस्करसंयुतम् ‍ । सत्यलोके वसेत्कल्पं सहस्त्रमथ भूपतिः ॥१२८॥

भवेद्रुपोषितो दत्वा करिव्रतमदं शुभम् ‍ । मुखवासं परित्यज्यं समांते गोप्रदो भवेत् ‍ ॥१२९॥

यक्षाधिपं समाप्ने तिसुमुखव्रतमुच्यते । निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत ॥१३०॥

वारुणं लोकमाप्न्तो वरुणव्रतमुच्यते । चान्द्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत् ‍ ॥१३१॥

चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकप्रदायकम् ‍ । ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवा ॥१३२॥

अथाष्टमी चतुर्दश्यौ रुद्रव्रतमिदं स्मृतम् ‍ । अनुलेपनं यः कुर्यात्तृतीयायां शिवालये ॥१३३॥

धेनुदा याति भवानीव्रतमुच्यते । माघे निश्यार्दवासाः स्यात्सप्तम्यां गोप्रदो भवेत् ‍ ॥१३४॥

दिवि कल्पं वसित्वेह राजा स्यात्तापनं यतम् ‍ । वाजी दत्वा सोपवासी दिवि कल्पशतं वसेत् ‍ ॥१३५॥

तदंते राजराजः स्याश्वव्रतमिदं स्मृतम् ‍ । तव्वत्कल्पद्वयादूर्ध्वरिभ्यांसंयुतंनरः ॥१३६॥

हैमं रथं नरश्रेष्ठ सर्वोपस्करणान्वितम् ‍ । त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् ‍ ॥१३७॥

आदित्यलोकमाप्नोति पूजितः ससुरासुरैः । सुरलोकमवाप्नोति धामव्रतमिदं स्मृतम् ‍ ॥१३८॥

त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः । पूर्णमास्यामवाप्नोति मोक्षमिन्दुव्रतादिह ॥१३९॥

दत्त्वासितद्वितीयायामिंदोर्लवणभोजन । कांस्यं सवस्त्रं राजेंद्र दक्षिणासहितं तथा ॥१४०॥

समांते गोप्रदो यांति विप्राय शिवमंदिरम् ‍ । कल्पांते राजराजः स्यात्सोमव्रतमिदं स्मृतम् ‍ ॥१४१॥

प्रतिपद्येकभक्ताशी समांते कपिलाप्रदः । वैश्वानरपुरं याति आग्नेयव्रतमुच्यते ॥१४२॥

एकादश्यां माघमासे चतुर्दश्यष्टमीषु च । एकभक्तेन योदद्याद्वालकान्यजिननि च ॥१४३॥

उपानहौ कंबलांश्व चैत्रे छत्रादिकं ततः । करपत्रादिकं चापि यथाशक्त्या विचक्षणः ॥१४४॥

ब्राह्मणानां महाराज सोऽश्वमेधफलं लभेत् ‍ । एतत्सौख्यव्रतं नाम सर्वसौख्यप्रदायकम् ‍ ॥१४५॥

दशम्यामेकभक्ताशी समांते दशधेनुदः । दिशश्व काञ्चनीर्दद्यान्नारीरुपा युधिष्ठिर ॥१४६॥

तिलद्रोणोपरिगता ब्रह्माडधिपतिर्भवेत् ‍ । एतद्विश्वव्रतं नाम महापातकनाशनम् ‍ ॥१४७॥

संपूज्य सितसप्तम्यां भानुं धान्यानि सप्त यः । ददाति नक्तभुग्राजल्लँवणेन समं द्विजे ॥१४८॥

स तारयति सप्ताष्टौ कुलान्यात्मानमेव च । एतद्भानुव्रतं नामधनधान्यप्रदायकम् ‍ ‍ ॥१४९॥

मासोपवासी योदद्याद्धेनुं विप्राय शोभनाम् ‍ । स वैष्णवं पदं याति भीमव्रतमिदं स्मृतम् ‍ ॥१५०॥

पक्षोपवासी योदद्याद्धिप्राय कपिलाद्वयम् ‍ । स ब्रह्मलोकमाप्नोति पूजितः सुरसत्तमै , ॥१५१॥

दद्यात्रिंशत्पलादूर्ध्व महीं कृत्वा तु काञ्चनीम् ‍ । कुलाचलाद्रिसहितां तिलवस्त्रसमन्विताम् ‍ ॥१५२॥

तिलद्रोणो परिगतां ब्राह्मणाय कुटूंबिने । दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते ॥१५३॥

एतन्महीव्रतं प्रोक्तं सप्तकल्पानुवर्तकम् ‍ । माघमासेऽथ चैत्रे वा गुडधेनुप्रदो भवेत् ‍ ॥१५४॥

गुडव्रस्तृतीयायां सर्वोपस्करणैर्युतम् ‍ । गौरीलोकमवाप्नोति पूज्यतेऽप्सरसां गणैः ॥१५५॥

उमाव्रतमिदं प्रोक्त सततानन्ददायकम् ‍ । वत्सरं त्वेक भक्ताशी सभक्षजलकुंभडः ॥१५६॥

शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ‍ । कार्तिकादितृतीयायां प्राश्यं गोमूत्रयावकम् ‍ ॥१५७॥

गौरीलोके वसेत्कल्पं ततो राजा भवेदिह । एतद्रुद्रवतं नाम महाकल्याणकारकम् ‍ ॥१५८॥

चैत्री त्रिरात्रं नक्ताशी नद्यां स्त्रात्वा ददाति यः । अजाः पयस्विनीः पञ्च ब्राह्मणाय कुटुंबिने ॥१५९॥

न जायते पुनरसौ जीवलोके कदाचन । एतद्धुस्तव्रतं प्रोक्तं सर्वव्याधिविनाशनम् ‍ ॥१६०॥

कन्यादानं तु यः कुर्यादुद्वहं कारयेच्च य्ह । एकविंशतिकुलोपेतो ब्रह्मलोकं स गच्छति ॥१६१॥

कन्यादानापरं दानं च चास्त्यभयधिकं क्कचित् ‍ । ये करिष्यंति नृपते तेषांलोकोऽक्षयो दिवि ॥१६२॥

तिलपिष्ट्मयं कृत्वा गजं हेमविभूषितम् ‍ । कुर्यात्कुशमयं तद्वदारोहकसमन्वितम् ‍ ॥१६३॥

नक्षत्रमालासहितं चामरापीडधारिणम् ‍ । दशनाग्रबद्धनेत्रक्तवस्त्रयुगान्वितम् ‍ ॥१६४॥

ताम्रपात्र्यां कुंडके वा कृतं दत्वाग्रमोदकम् ‍ । दशनाग्रबद्धनेत्रर्क्तवस्त्रयुगान्वितम् ‍ ॥१६५॥

कंठप्रमाणामाविश्य जलं मलविवर्जितः । कांताकारिणा ह्येतत्कथितं तु युधिष्ठिर ॥१६६॥

कांतारकारि दुर्गेषु वारयत्यपि कुष्कृतीन । इह लोके परे चैव नात्र कार्याविचारणा ॥१६७॥

ये कुर्वति पुण्ये व्रतं पौरं दरे नराः । तेषा पौरंदरो लोको भवेदाभूतसंप्लवम् ‍ ॥१६८॥

पयोव्रतस्तु पञ्चम्यां दत्वा नागं द्विजातये । सौवर्ण सर्वजनितं भयं तेषाम न जायते ॥१६९॥

सिताष्टम्यां सोपवासो वृषभं यः प्रयच्छति । सितवस्त्रसमाच्छत्रं घण्टाभरणभूषितम् ‍ ॥१७०॥

शिवलोके वसेत्कल्पं ततो राजाभवेदिह । वृषव्रतमिदं प्रोक्तं सर्वधर्मप्रदायकम् ‍ ॥१७१॥

उत्तरे त्वयने प्राप्ते घृतप्रस्थेन पो हरिम् ‍ । स्त्रापयित्वा ब्राह्मणाय वऽवां यः प्रयच्छति ॥१७२॥

स सर्वकामसंयुक्तः पुत्रभ्रातृसमन्वितः । सूर्यलोके वसेद्राजन्राज्ञीव्रतमिहोच्यते ॥१७३॥

सकृन्नवभ्यां भक्तेन पूजयेद्विन्घ्यवासिनीम् ‍ । पुष्पैधपैस्ततो दद्यात्पञ्जरं शुकशोभितम् ‍ ॥१७४॥

हैमं विप्राय शांताय सवाग्मी जायते नरः । एतदाग्नेयमित्युक्तं व्रतमग्निपदयपदम् ‍ ॥१७५॥

द्वादश्यां गुह्यकानां च पललैक्षर्वसंयुतम् ‍ । विप्राय भोजनं दत्वा यः स याति हरेः पदम् ‍ ॥१७६॥

विष्कम्भादिषु योगेषुइ एकभक्तरतो नरः ॥१७७॥

यो ददाति क्रमादेषु घृततैलफलैक्षवम् ‍ । यवगोधूमचणकान्निष्पावाञ्छालितंदुलान् ‍ ॥१७८॥

लवणं दधि दुग्धं च वस्त्रं कनकमेव च । कंबलं गां वृषं छत्रमुपानद्युगलंतथा ॥१७९॥

कर्पूरंकुंकुमंचैवचंदनंकुसुमानि च । लोहं कनकताम्रं च रौप्यं चेति युधिष्ठिर ॥१८०॥

स्त्रातः स्वशक्त्या विधिवत्सर्वपापैः । प्रमुच्यते । न वियोगमवाप्नोति योगव्रतमिदं स्मृतम ॥१८१॥

कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषभं । पौषमाघादिमासेषु सौवर्णीः सर्व एव हि ॥१८२॥

क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः । पौर्णमास्यांपौर्णमास्यांकौंतेयबहुदक्षिणाम् ‍ ॥१८३॥

एतद्राशिव्रंत नामसर्वोपद्रवनाशनम् ‍ । सर्वाशापूरकं तद्वत्सोमलोकप्रदायकम् ‍ ॥१८४॥

पञ्चाशीतिर्व्रतानांते कथिता पांडुनंदन । यां श्रुत्वा ब्रह्महा गोघ्नः पितृहा मातृहा तथा ॥१८५॥

मुच्यते तत्क्षणादेव पातकैः सोपपातकैः ॥१८६॥

पंचाधिका तव मया कथिता व्रतानां राजन्नशीतिरतिसौख्यधनप्रदानम् ‍ । एतां समाचरति यः शुऋगुयात्पठेद्वा हस्ताग्रलग्न इव तस्य सुरेशलोकः ॥१८७॥ [ ५२७० ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे व्रतपञ्चाशीतिवर्णनंनामैकविंशत्युत्तरशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP