TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४

उत्तर पर्व - अध्याय ४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ४
युधिष्टिर उवाच ॥
देवत्वं मानुषत्वं च तिर्यक्त्वं केन कर्मणा । प्रान्पोति पुरुषः केन गर्भवासं सुदारुणम्‍ ॥१॥
गर्भस्थश्व किमात्मास्ते कथमुत्पद्यते पुनः । दन्तोत्थानादिकान्दोषान्कथं तरति दुध्वरान्‍ ॥२॥
बालभावे कथं पुश्विम स्यादुषा केन कर्मणा । कुलीनः केन भवति सुरुपः सुधनः कथम्‍ ॥३॥
कथं दारानवान्पोति गृहं सर्वगुणैर्युत्म्‍  । पण्डितः पुव्रर्वास्त्यागी स्पादामयविवर्जितः ॥४॥
कथं सुखेन स्त्रियते कथं भुङ्‍के शुभाशुभम‍ । सर्वमेवामलमले गहनं प्रतिभाति मे ॥५॥
श्रीकृष्ण उवाच ॥ शुभैर्देवत्वमान्पोति मिश्रैर्मानषतां ब्रजेत्‍ । अशुभैः कर्ममिर्जन्तुस्तिर्यग्योनिः प्रजायते ॥६॥
प्रमाणं श्रुतिरेवाव्र घर्माधर्माविनिश्वये । पापं पापेन भवति पुण्य़ं पुण्येन कर्मणा ॥७॥
ऋतुकाले तदा भुक्तं निर्दीषं येन संस्थितम्‍ । तदा तद्वायुना स्पृष्ट खीरक्ते नैकतां ब्रजेत्‍ ॥८॥
विसर्गकाले शुक्तस्य जीवः करण्संयुतः । मृत्युः प्रविशते यानिं कर्ममिः स्वैर्नियोजितः ॥९॥
तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत्‍ । पञ्चराव्रेण कललं बुद्धुदाकारतां व्रजंत्‍ ॥१०॥
बुद्‍बुदं सप्रराव्रेण मांसपेशी भवेत्ततः । द्विसप्ताहाद्भवेत्पेशी रक्तमांसैर्द्दढाञ्चता ॥११॥
बीजस्येवाङ्‍कुराः पश्याः पञ्चविंशतिरात्रतः। भवन्ति मासमव्रेण पञ्चधा जायते पुनः ॥१२॥
ग्रीव शिरश्व स्कन्धश्व पृष्ठवंशस्तथोदरम्‍ । मासद्वयेन सर्वाणि क्रमशः संभवन्ति च ॥१३॥
व्रिभिर्मासैः प्रजायन्ते ह्स्ताद्यङ्रकुरसन्धयः । मासैश्वतुर्निरङ्रगुल्यः प्रजायन्ते यथाक्रमम्‍ ॥१४॥
मुखं नासा च कणौं च मासैर्जायेत पश्चभिः। दन्तपंक्तिस्तथा गुह्यं जायन्ते च नखाः पुनः ॥१५॥
कणौं च रन्ध्र्सहितौ षण्मासाम्यन्तरेण तु । पायुमेढ्रमुपस्थश्व नामिश्वाप्युपजायते ॥१६॥
सन्धयो ये च गाव्रेपु मासैर्जायन्ति सप्तभिः । अङ्गप्रत्यङ्रसंपूर्णः शिरः केशसमन्वितः ॥१७॥
विभक्तावयवः पुष्टः पुनर्मासाष्टकेन च । पञ्चात्मकसमायक्तः परिपक्कः स तिष्ठति ॥१८॥
मातुराहारवीर्येण षड‍विधेन स तिष्ठति । रसेन ग्रत्यहं बालो वर्धते भरतर्षभ ॥१९॥
तत्तेऽहं संप्रवक्ष्यामि यथा श्रुतमरिन्दम । नामिसूत्रनिबन्धेन वर्धते से दिजे दिने ॥२०॥
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिञ्छरीरके । सुखं दुःखं विजानाति निद्रास्वन्पं पुराकृतम्‍ ॥२१॥
मृतश्वाहं पुनर्जातो जातश्वाहं पुनर्मुतः । नानायोनिसहस्त्राणि मया द्दष्टानि तानि वै ॥२२॥
अघुना जातमाव्रोऽहं प्राप्तसंस्कार एव च । एतच्छ्रेयः करिष्यामि येन गर्मे न संश्रयः ॥२३॥
गर्मस्थश्विन्तयेद्देवमहं नर्भाद्विनिःसृत । अध्येष्ये चतुरो वेदान्संसारविनिवर्तकान्‍  ॥२४॥
एवं स गर्भदुःखन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन ॥२५॥
यथा गिरिवराक्रान्तः कश्विद्‍दःखेन तिष्ठति । तथा जरायुणा देही दुःखे तिष्ठति वेष्टितः ॥२६॥
पतितः सागरे यद्वद्‍दुःखेनास्ते समाकुलः । गर्भोदकेन सिक्ताङ्गस्तथास्ते व्याकुलः पुमान्‍ ॥२७॥
लोहकुम्मे यथा न्यस्तः पच्यते कश्विदग्निना । तथा स पच्यते जन्तुर्गर्भस्थः पीडितोदरः ॥२८॥
सूचीभिरग्निवर्गाभिर्विभिन्नप्त्य निरन्तरम्‍ । यद्‍दुःखमुपजायेत तद्नर्भ्रेऽष्टगुणं पुमान्‍ ॥२९॥
गर्भवासात्परो वासः कष्टो नैवास्ति कुव्रचित्‍ । देहिनां दुःखवद्राजन्सुघोरो ह्यतिसङ्कटः ॥३०॥
इत्येतद्नर्भदुःख हि प्रणिनां परिकीर्तितम्‍  चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ॥३१॥
गर्भात्कोटिगुणम दुःखं योनियन्त्रप्रपीडनात्‍ । संमूर्च्छितस्य जायेत जायमानस्य देहिनः ॥३२॥
शरवत्पीडन्यामानस्य यन्व्रेणेव समन्ततः । शिरसि ताडन्यमानस्य पाप्रद्नरकेण च ॥३३॥
गर्भान्निष्क्रम्यमाणस्य प्रबलैः सूतिमारूतैः । जायते सुमह्रद्‍दुःखं परिव्राणमविन्दतः ॥३४॥
यन्व्रेण पीडिता यद्वन्निः स्पुस्तिळेक्षवः । तथा शरीर निःसारं योनियन्व्रपप्रीड्तिम्‍ ॥३५॥
अस्थिमज्जात्वचामांसस्त्रायुबन्धेन यन्व्रतम्‍ । रक्तमांसमृदयुक्तविण्मूव्रद्रवलेपनम्‍  ॥३६॥
केशलोमतृणाच्छन्नं रोगापतनमातुरम्‍ । वदनैकमहद्‍द्वारं दन्तोष्ठकविभूषितम्‍ ॥३७॥
ओष्ठद्वयकपाटं च दन्तजिह्रार्गलान्वितम्‍ । नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम्‍ ॥३८॥
जराशोकसमाविष्टं कालचक्रानले स्थितम्‍ । कामक्रोधसमाक्रान्त व्यसनैश्वोपमर्दितम्‍ ॥३९॥
भोगतृष्णातुरं मूढं रागद्वेषचशानुगम्‍ । संवर्तिताङ्गप्रत्यङ्ग जरायुपरिवेष्टितम्‍ ॥४०॥
सङ्कटे ताविविक्तेन योनिद्वारेण निर्गतम्‍ । विण्मूव्ररक्त सिक्ताङ्रं पत्केशाच्च समुद्भवम्‍ ॥४१॥
इति देहगृहं प्रोक्तं नित्यस्यानित्यमात्मनः । अविशुद्वं विशुद्धस्य कर्मबन्धविनिर्मितम्‍ ॥४२॥
शुक्रशोणितसंयोगाद्देहः संजायते यतः । नित्यं विण्मूव्रपूर्णश्व तेनायमशुचिह स्मृतः ॥४३॥
यथान्तर्विष्ठया पूर्णः शुचिः स्यान्न बहिर्घदः । यत्नतः शोघ्यमानाऽपि देहोऽयमशुचिस्तथा ॥४४॥
संप्राप्याव्र पविव्राणि पञ्चगव्यहर्वीषि च । अशुचिवि क्षणाच्चापि किमन्यद्वस्तुबिन्दवः ॥४५॥
देहः संशोध्यमानोऽपि पश्चगव्यकुशाम्बुभिः । घृष्यमाण इवाङ्गरो निर्मलत्वं न गच्छति ॥४६॥
श्रोव्राणि यस्य सततं प्रवहन्ति गिरेरिव । कफमूव्रपुरीषाघैः स देहः शुच्यते कथम्‍ ॥४७॥
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते । शुचिरेकः प्रदेशोऽपि विद्‍पुर्णः स्यन्दते किल ॥४८॥
कायः सुगन्धधूपाद्यैर्यत्नेनापि तु संस्कृतः । न जहाति स्वकं भावं श्वपुच्छमिब नामितम्‍ ॥४९॥
यथा जात्यैव कृष्णो हि न शुक्लः स्यादुपायतः । संशोध्यमानाऽपि तथा भवेः न्मूर्तिर्न निर्मला ॥५०॥
जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम्‍ । न विरज्यति लोकोंऽयां पीडयन्नपि नासिकाम्‍ ॥५१॥
अहों मोहस्य माहात्म्यं येन व्यामोहितं जगत्‍ ।जिघ्रन्पन्स्वकं दोवं कायस्य न विरज्यते ॥५२॥
एवमतच्छरीर हि निसर्गादशुचि ध्रुवम्‍ । विङ्‍माव्रलारं निःसारं कदलीप्तारसन्निमम्‍ ॥५३॥
गर्भस्थस्य स्मृतिर्यासींत्सा जातस्या प्रणश्यति। संमूर्च्छितस्य दुःखेन योनियन्व्रप्रपीडनात‍ ॥५४॥
बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः । स्पृष्टमाव्रेण घोरेण ज्वरः समुपजायते ॥५५॥
तेन ज्वरेण महता महामोहः प्रजायते । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ॥५६॥
स्मृतिभ्रंशात्तु तस्येह पूर्वकर्मवशेन च । रतिः संजायते तूर्णं जन्तोस्तवैव जन्मनि ॥५७॥
रक्तो मूढस्य लोकोऽयमकार्ये संप्रवतते । न चात्मानं विजानाति परं विन्दते च सः ॥५८॥
न श्रूयते परं श्रेयः सति चक्षुपि नेक्षते । समे पथि शनैर्गच्छन्स्खलतीव पदे पदे ॥५९॥
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते तेन रागलोभ्रवशानुगः ॥६०॥
गर्भस्मृतेरभावेन शास्त्रमुक्तं महाषिर्भिः । तद्‍दुःखमथनार्थाय स्वर्गमोक्षप्रसाधकम्‍ ॥६१॥
ये सत्यस्मिन्परे ज्ञाने सर्वकामार्यसाधके । न कुर्वन्त्यात्मनः श्रेयस्तदव्र महदद्भुतम्‍ ॥६२॥
अव्यक्तेन्द्रियवृत्तित्वाद्वाल्ये दुःख महत्पुनः । इच्छन्नपि न शक्रोति कर्तुं वक्तुं च सक्र्तियाम्‍ ॥६३॥
दन्तोत्थाने महद्‍दुःखं मौलेन व्याधिना तथा । बालरोगैश्व विविधैः पीडा बालग्रहैरपि ॥६४॥
तृङ्‍बुभुक्षापरीताङ्रः कश्वित्तिष्ठति रारटन्‍ । विण्मूव्रभक्षणमपि मोहाद्वालः समाचरेत्‍ ॥६५॥
कौमारे कर्णवेधेन मातापिव्रोश्व ताडनात्‍ । अक्षराध्ययनात्पुसां दुःखं स्याद्‍गुरुशासनात्‍ ॥६६॥
प्रसन्नेन्द्रियवृत्तिश्व कामरागप्रपीडनात्‍ । रोगोद्धतस्य सततं कुतः सौख्य़ं च यौवने ॥६७॥
ईर्ष्यया च महाद्‍दुःखं मोहाद्रक्तस्य जायते । नेव्रस्य कुपितस्यैव रागो दुःखाय केवलम्‍ ॥६८॥
न राव्रौ विन्दते निद्रां कोपाग्निपरिपीडितः । दिवा वापि कुतः सौख्यमर्थोपार्जनचिन्तया ॥६९॥
स्त्रीष्वापासितदेहस्य ये पुंसः शुक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥७०॥
कृमिभिस्तुद्यमानस्य कुष्ठिनः कामिनस्तथा । कण्डूयनाग्नितापेन यद्भवेत्खीषु तद्धि तत्‍ ॥७१॥
याद्दशं विन्दते सौख्यं गण्डान्वयविनिर्गमे । ताद्दशं स्त्रीपु मन्तव्यं नाधिकं तासु विद्यते ॥७२॥
गण्डस्य वेदना यद्वत्स्फुटितस्य निवर्तते । तद्वत्स्त्रीष्वपि मन्तव्यं न सौख्यं परमार्थतः ॥७३॥
विण्मूव्रस्य समुत्सर्गात्सुखं भवति यादशम्‍ । ताद्दशं तेषु विज्ञेयं मूढैः कल्पितमन्यथा ॥७४॥
मारीष्वशुचिभूतासु सर्वदोषाश्रयासु च । नाणुमाव्रकमप्येवं सुखमस्ति विचारसः ॥७५॥
सन्मानमयमानेन वियोगेन सुसंगमम्‍ । यौवनं जरया ग्रस्तं किं सौख्यमनुपद्रवम्‍ ॥७६॥
वलीपलितखालित्यैः शिथिलीकृतविग्रहम्‍ । सर्वं क्रियास्त्रशक्तं च जरया जजरीकृतम्‍ ॥७७॥
स्त्रीपुंसयोर्नवं रूपं तदान्योन्यं प्रियं पुरा । तदेव जरया ग्रस्तमुभयोरपि प्रियम्‍ ॥७८॥
अपूर्ववत्स्वभात्मानं जरया परिवर्तितः । यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ॥७९॥
जराभिभूतः पुरुषः पत्नीपुव्रादिबान्धवैः । अशक्तत्वाद्‍दुराचारैर्भृत्यैश्व परिभूयते ॥८०॥
धर्ममर्थं च कामं च मोक्षं च नजरं यतः । शक्तं साघयितुं तस्माच्छरीरमिदमात्मनः ॥८१॥
वातपित्तकफादीनां वैपम्यं व्याविरुच्यते । तस्माह्माधिमयं ज्ञेयं शरीरमिदमात्मनः ॥८२॥
वाताद्यव्यतिरिक्तत्वाद्याधीनां पश्र्जरस्य च । रोगैर्नानाविधैर्यानि देहदुःखान्यनेकधा ॥८३॥
तानि च स्वात्मबेद्यानि किमन्यक्तथयाम्यहम्‍ । एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्‍ ॥८४॥
तवैकः कालसंयुक्तः शेषाश्वागन्तवः स्मृताः । ये त्विह। गन्तवः प्रोक्तास्ते प्रशाम्यन्ति भेपजैः ॥८५॥
जपहोपप्रदानैश्व कालमृत्युर्न शाम्यति । यदि चापि न म्रुत्युः स्याद्विषमद्यादशङ्कितः ॥८६॥
न सन्ति पुरुषे तस्मादपमृत्युविभीतयः । विविधा व्याधयः शस्त्रं सर्पाद्याः प्राणिनस्तथा ॥८७॥
विषाणि जङ्गमाद्यानि मृत्योर्द्वाराणि देहिनाम्‍ । पीडितं सर्वरोगाधैरपि धन्वन्तरिः स्वयम्‍ ॥८८॥
स्वस्थीकर्तुं न शक्रोति प्राप्तं मृत्यु च देहिनाम्‍ । नौषधं न तपो दातं न मन्व्रा न च बान्धवा ॥८९॥
शक्नुवन्ति परिवातुं नरं कालेन पीडितम्‍ । रसायनतपोजप्यैर्योगसिद्धैमहात्मभिः ॥९०॥
कालमृत्युरपि प्राज्ञैस्तीर्यते नालसैर्नरैः । नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्‍ ॥९१॥
नास्ति मृत्युसमस्त्रासः सर्वेषामेव देहिनाम्‍ । सद्भार्या पुव्रमिव्रणि राज्यैश्वर्यधनानि च ॥९२॥
अबद्धानि च वैराणि मृत्युः सर्वाणि कृन्तति । हे जनाः किंवान पश्यष्ठां सहस्त्रस्यापि मध्यतः ॥९३॥
जनाः शतायुषः पञ्च भवन्ति न भवन्ति च । अशीतिका विपद्यन्ते कचित्सप्ततिका नराः ॥९४॥
परमायुषं स्थितं षष्टिस्तच्चैवानिश्चितं पुनः । यस्य यावद्भवेदायुर्देहिनां पूर्वकर्माभिः ॥९५॥
तस्यार्द्धमायुषो राव्रिर्हरते मुत्युरूपिणी । बालभावेन मोहेन वार्द्धक्ये जरया तथा ॥९६॥
वर्षाणां व्रिशतियांति धर्मकामार्थंवर्जिता । आगन्तुकैर्मयैः पुसां व्याधिशोकैरनेकधा ॥९७॥
भक्ष्यतेऽर्द्धं च तव्रापि यच्छेषं तच्च जीवति । जीवितान्ते च मरणं महाघोरमवाप्रुयात्‍ ॥९८॥
जायत्ते जन्मकोटीपु मृतः कर्मवशात्पुनः । देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात्‍ ॥९९॥
मरणं तद्विनिर्दिष्टं नान्यथा परमार्थतः । महातपःप्रविभ्रृस्य च्छिद्यमानेषु मर्मसु ॥१००॥
यद्‍दुःखं मरणे जन्तोर्न तस्येहोपमा क्वचित्‍ । हा तात मातः कान्तेति रुदन्नेवं हि दुःखितः ॥१॥
मण्डूक इव सर्पेण ग्रस्यते मृत्युना जनः । वान्धवैः संपरिष्वक्तः प्रियैः स परिवारितः ॥२॥
निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यति । कन्दते चैव खट्‍वायां परिवर्तन्मुहुर्महुः ॥३॥
संमूढः क्षीयतेऽत्यर्थं हस्तपादावितस्ततः । खट्‍वातो वाञ्छते भूमिः भूमेः खट्‍वां पुनर्महीम्‍ ॥४॥
विविशस्त्यक्तलज्जश्व मूव्रविष्टानुलेपितः । याचमानश्व सलिलं शुक्ष्ककण्ठोष्ठतालुकः ॥५॥
चिन्तयानश्व वित्तानि कस्यैतानि मृते मयि । पञ्चावटान्खन्यमानः कालपाशेन कर्शितः ॥६॥
स्त्रियते पश्यतामेव जनानां घुर्घुरस्वनः । जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात्‍ ॥७॥
संप्राप्योत्तरकालंहि देहं त्यजति पौर्विकम्‍ । मरणात्प्रार्थनाद्‍दुःखमधिक ह्यविवेकिनः ॥८॥
क्षणिकं मरणाद्‍दुःखमनन्तं प्रार्थनाकृतम्‍ । जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः ॥९॥
अधिकः कोऽपरस्तस्माद्यो न यास्यति लाघवम्‍ । ज्ञातं मयेदमधुना मतो भवति यद्‍गरुः ॥११०॥
न पर प्रार्थयेद्भूयस्नृष्णा लाघबकारनम्‍ । आदौ दुःखं तथा मध्ये दुःखमन्ते च दारूणम्‍ ॥११॥
निसर्गात्सर्धभूतानामिति दुःखपरम्परा । वर्तमानान्यतीतानि दुःखान्येतानि यानि तु ॥१२॥
नरा न भावयन्त्यज्ञा न विरज्यन्ति तेन ते । अत्याहारान्महद्‍दुःखमनाहारन्महत्तमम्‍ ॥१३॥
तुलितं जिवितं कष्टं मन्येऽप्येवं कुतः सुखम्‍ । बुभुक्षा सर्वरोगार्णा व्याधिः श्रेष्ठतमः स्मृतः ॥१४॥
स चान्नौषधिलेपेन क्षणमावं प्रशाम्यति । क्षुद्वन्याधिवेदनातुल्य निःशेपबलकृन्तनी ॥१५॥
तयाभिभूतो भ्रियत ययान्यैर्व्याधिभिर्नरः । तद्र्सोपि हि कामाद्वा जिह्राग्रे परिवर्तते ॥१६॥
तत्क्षणाद्वार्द्धकालेन कण्ठं प्राप्य निवर्तते । इति क्षुद्वयाधितप्तानामन्नमौषधवत्स्मृतम्‍ । न तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः ॥१७॥
मृतोपमो यश्वेक्षेत सर्वकार्यचिवर्जितः । तव्रापि च कुतः सौख्यं तमसाच्छादितात्मनः ॥१८॥
प्रबोधेऽपि कुतः सौख्यं कायैंरुपहतात्मनः । कृषिगोरक्षवाणिज्यसेवाध्वादिपरिश्रमैः ॥१९॥
प्रातर्मूव्रपुरीवाभ्यां मध्याह्रे तु बुभुक्षया । तृप्ताः कामेन बाध्यन्ते जन्तवोऽपि विनिद्रया ॥१२०॥
अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे । आये दुःखं व्यये दुःखमर्थेभ्यश्व कुतः सुखम्‍ ॥२१॥
चौरेम्यः सांलेलादग्नेः स्वजनात्पार्थिवादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृताभिव ॥२२॥
खेयातं पक्षिभिर्मांसं भक्ष्यते श्वापदैर्मुवि । जले च मक्ष्यते मत्स्यैस्तथा सर्वव्र वित्तवान्‍ ॥२३॥
विमोहयन्ति संपत्सु तापयन्ति विपत्तिषु । खेदयन्त्यर्जनकाले कदा ह्यर्थाः सुखावहाः ॥२४॥
यथाऽर्थपतिरुद्विग्नो यश्व सर्वार्थानिःस्पृहाहः । यतश्वार्थपतिर्दुःखी सुखी सर्वार्थानिःस्पृहः ॥२५॥
शीतेन दुःखं हमन्ते ग्रीव्मे तापेन दारुणम्‍ । वर्षासु । वातवर्षाभ्यां कालेऽप्येवं कुतः सुखम‍ ॥२६॥
विवाहविस्तरे दुःखं तद्नर्भोद्वहने पुनः । प्रसवेऽपत्यदोषैश्व दुःखं दुःखादिकर्मभिः ॥२७॥
दन्ताक्षिरोगैः पुव्रस्य हा कष्टं किं करोम्यहम्‍ । गावो नष्टाः कृषिर्भग्ना वृषाः क्कपि पलायिताः ॥२८॥
अमी पाघूर्णकाः प्राप्ता भक्तच्छेदे च मे गूहे । बालापत्या च मे भार्या कः करिष्पति रन्धनम्‍ ॥२९॥
प्रदानकाले कन्यायाः कीद्दशश्व वरो  भवेत्‍ । इति चिन्ताभिभूतानां कुतः सौख्यं कुटुम्बिनाम्‍ ॥१३०॥
कुटुम्बचिन्ताकुलितस्य पुसः श्रुतं च शीलं च गुणाश्व सर्वे । अपक्ककुम्मे निहिता इवापः प्रयान्ति देहेन समं विनाशम्‍ ॥३१॥
राज्ये च सुमहद्‍दुःखं सन्धिविग्रहचिन्तया । पुव्रादपि भयं यव्र तव्र सौख्यं हे कीद्दशम्‍ ॥३२॥
स्वजातीयाद्वधं प्रायः सर्वेषामेव देहिनाम्‍ । एकद्रव्याभिलाषित्वाच्छुनामिब परस्परम्‍ ॥३३॥
नाप्रधृष्यबलः कश्विन्नृपः ख्यातोस्ति भूतले । निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निभयः ॥३४॥
आजन्मनः प्रभृति दुःखमयं शरीर कर्मात्मकं तब मया कथितं नरेन्द्र । दानोपवासनियमैश्व कृतैस्तदैव सर्वोपभोगसुखभागभवतीह पुंसाम्‍ ॥१३५॥ [३२७]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संसारदोपख्यापनं नाम चतुर्थोऽध्यायः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:21.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stabilised resistance

  • स्थायीकारी रोध 
RANDOM WORD

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site