TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५३

उत्तर पर्व - अध्याय १५३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १५३

श्रीकृष्ण उवाच ॥

जलधेनुं प्रवक्ष्यामि प्रीतये दत्तया यया । देवदेवो हृषीकेशः पूजितः सर्वभावनाः ॥१॥

जलकुंभं नरव्याघ्र स्थापयित्वा सुपूजितम् ‍ । रत्नगर्भ तु तं कृत्वा ग्राम्यैर्धान्यैः समन्वितम् ‍ ॥२॥

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ‍ । कुष्ठमांसी पुरोशीरवालकाममलकीयुतम् ‍ ॥३॥

मियङ्गगुपत्रसहितांसितज्ञोपवीतिनम् ‍ । सच्छत्रं सोपानहं च दर्भविष्टरसंस्थितम् ‍ ॥४॥

चतुर्भिः संयुतं रौप्यं तिलपत्रैश्चतुर्दिशम् ‍ । स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखम् ‍ ॥५॥

सवत्सां च प्रतिष्ठाप्य गोमयेनोपशोभिताम् ‍ । स्त्रग्दापुच्छीं कुर्वीत ताम्रदोहनकान्विताम् ‍ ॥६॥

ततः समभ्यर्च्य विभुं वासुदेवं सनातनम् ‍ । पुष्पधूपोपहारैश्व यथाविभवमात्मनः ॥७॥

संकल्प्य जलधेनुं च कुंभं तमभिमंत्र्य च । विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥८॥

सोमशक्रार्कशक्तिर्या धेनुरुपेण सास्तु मे । एतमामंत्र्य विधिवत्सफलां वत्सकान्विताम् ‍ ॥९॥

भक्त्या संपूज्यं गोविंदं जलशायिनमच्युतम् ‍ । सितवस्त्रधरंशांतो वीतरागोविमत्सरः ॥१०॥

दद्याद्विप्राथ राजेन्द्र प्रीत्यर्थ जलशायिनः । शेषपर्यकशयनः श्रीमाञ्छार्ङ्गविसूधितः ॥११॥

जलशायी जगद्योनिः प्रीयतां मस केशवः । इत्युच्चार्य जगन्नाथं विप्राय प्रतिपाद्यताम् ‍ ॥१२॥

तद्दिनं गोव्रतस्तिष्ठेच्छ्रेद्धया परया युतः । अनेन विधिनादत्वा जलधेनुं जनाधिप ॥१३॥

सर्वभोगानवाप्नोति ये दिव्या ये च मानुषाः शरीरारोग्यमतुलं प्रशमं सर्वकालिकम् ‍ ॥१४॥

नृणां भवंति दत्तायां सर्वे कामा न संशयः । अत्रापि श्रूयते भूप मुद्रलेन महात्मना ॥१५॥

जातिस्मरेण यद्रीतमिहाभ्येत्य पुरा किल । स मुद्नलः पुरा विप्रो यमलोकगतो मुनिः ॥१६॥

ददर्श यातनानेकाः पापकर्मकृतांनृणाम् ‍ । दीप्ताग्निक्ष्णन्त्रस्थाः क्काथतैलमयास्तथा ॥१७॥

उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ । व्रणक्षारनिपातोथ कुंभीपाकमहालयाः ॥१८॥

ता दृष्ट्रवा यातना विप्रश्वकार परमां कृपाम् ‍ । आह्रादं ते तदा जग्मुः पापास्तदनुकंपया ॥१९॥

तं दृष्ट्रवा नारकः केचिस्त्थित्वा तदवलोकिनः । तदवस्थं विलोक्याथ मुनिर्नारकिमण्डलम् ‍ ॥२०॥

धर्मराजं सपप्रच्छ तेषां प्रशमकारणम् ‍ । तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः ॥२१॥

आह्रादहेतुमधिकं नारकाणां नरोत्तम । दानानुभावात्सर्वेषां नारकाणां द्विजोत्तम ॥२२॥

स प्रवृत्तोऽयमाह्रादः कारणं तच्छुणुष्व मे । त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ‍ ॥२३॥

जलधेनुः पुरा दत्ता विधिवदि‌द्वजपुङ्गव । अस्मात्वज्जन्मनोऽती ते तृतीये द्विजजन्मनि ॥२४॥

तस्य दानस्य ते युष्टिरियमाह्राददायिती । ये त्वां पश्यंति शृण्वंति ये च ध्यायंति मानवाः ॥२५॥

शृणोषि यांश्व विप्रेन्द्र यांश्व ध्यायसि पश्यसि । निर्वृत्तिः परमा तेषां सर्वाह्रादप्रदायिनी ॥२६॥

सद्यो भवति माऽत्र त्वं द्विजाते कुरु विस्मयम् ‍ । आह्रादहेतुजननं नास्ति विप्रेन्द्र तादृशम् ‍ ॥२७॥

जलधेनुर्यथा नृणां जन्मान्येकोनर्विशतिम् ‍ । न दोषो न ज्वरो नार्ति र्नक्लमो द्विज जायते ॥२८॥

अपि जन्मसहस्त्रेऽपि जलधेनुप्रदायि नाम् ‍ । स त्वं गृच्छ गृहीत्वार्धमस्मत्तोद्विजसत्तम ॥२९॥

येषां समाश्रयः कृष्णे न नियम्या हि ते मया । कृष्णस्तु पूजितोयैस्तु ये कृष्णार्थमुपोषिताः ॥३०॥

यैश्व नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः । नमः कृष्णाच्युतानंतवासुदेवेत्युदीरितम् ‍ ॥३१॥

वैर्भावभावितैर्विप्र न ते मद्विषयोपगाः । दानं ददद्धिर्यैरुक्तमच्युतः प्रीयतामिति ॥३२॥

श्रद्धापुरः सरैर्विप्र न ते मद्विषयोपगाः । स एव नाथः सर्वस्य तन्नियोगकरावयम् ॥३३॥

जनसंयमनश्वाहमस्मत्संयमनो हरिः । इत्थं निशम्य वचनं यमस्य वदतोऽखिलम् ‍ ॥३४॥

ऊर्चुस्ते नारकाः सर्वे वह्रिशस्त्रार्कभीरवः । नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ॥३५॥

हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च । नमः पडकजनेत्राय नमः पड्कजनाभये ॥३६॥

जनार्दनाय श्रीशाय श्रीभर्त्रे पीतवाससे । गोविंदाय नमो नित्यं नमश्वोदधिशायिने ॥३७॥

नमः कमलनेत्राय नृसिंहाय निनादिने । शार्ङ्गिणे शितखड्‌गाय शङ्खचक्रगदाभृते ॥३८॥

नमो वामनरुपाय क्रांतलोकत्रयाय च । वराहरुपाय तथा नमो यज्ञाङ्गधारिणे ॥३९॥

व्याप्ताशेषदिगतायानंताय परमात्मने । वासुदेव नमस्तुभ्यं नमः कैटभसूदिने ॥४०॥

केशवाय नमो राम नमस्ते स्तु महीधर । नमोऽस्तु वासुदेवाय ह्येवमुच्चारिते च तैः ॥४१॥

शस्त्राणि कुंठतां जग्मुरनलश्वापि शीतताम् ‍ । समभज्यंत वस्त्रणिसमुत्पेतुरयोमुखाः ॥४२॥

संशुष्काः क्षारसरितः पतितः शाल्मलिद्रुमः । प्रकाशास्तमसौ जग्मे नरकाद्धानुभिः सह ॥४३॥

बवौ च युंजन्पवनोऽप्यसिपत्रवनं ततः । निरुत्साहा जडावेयो बभूवुर्यमकिंकराः ॥४४॥

जाता गंगबुवाहिन्यः पूयशोणितानिम्रगः । दिव्यः सुगंधि पवनो मनः प्रीतिकरस्तथा ॥४५॥

वेणुवीणास्वनयुताः शब्दाश्वासन्मनोरमः । तं तादृशमथालक्ष्य तदावैवस्वतो यमः ॥४६॥

क्षीणपापत्रयांस्तांस्तु पाद्यार्घ्यैः समपूजयत् ‍ । पूजयित्वाचतानाह स कृष्णाय कृतांजलिः ॥४७॥

समाहितमतिर्भूत्वा धर्मराजो नरेश्वर । विष्णो देव जगद्धातर्जनार्दन जगत्षते ॥४८॥

प्रणामंयेऽपिकुर्वन्तितेषामपि नमोनमः । अच्युताया प्रमेयाय मायावामनरुषिणे ॥४९॥

प्रणामंयेऽपि कुर्वन्ति तेषामपि नमोनमः । नमस्ते वासुदेवाय धीमते पुण्यकीर्तये ॥५०॥

प्रणामं ये च कुर्वन्ति तेषामपि नमो नमः । तस्य यज्ञवराहस्य विष्णोरमिततेजसः ॥५१॥

एवं स्तुत्वा हृषीकेशं धर्मराजस्य पश्यतः । विमानवरमारुह्य नारकास्त्रिदिवं ययः ॥५२॥

मुद्नलोऽपि महाबुद्धिर्दृष्टवैतदखिलं नृप । जातिस्मनोऽभवद्विप्रः कण्बगोत्रे महामुनिः ॥५३॥

संस्मृत्य यमवाक्यान विष्णोर्माहात्म्यमेव च । जलधेनोस्तु माहात्म्यं संस्मृत्येदमगायत ॥५४॥

अहो सुदुस्तरा विष्णोर्माथेयमतिगह्ररी । यया मोहितचित्तेरतु न वेत्ति परमेश्वरम् ‍ ॥५५॥

जीवो गच्छति कीतत्व यकामत्कुणयोनिताम् ‍ । तस्माद्‌द्रमलतादीनांयोनिंतस्माच्च पक्षिणाम् ‍ ॥५६॥

ततश्व पशुतां प्राप्य नरत्वमभिवांछति । ततो मानुष्यतां प्राप्य नरो योनिं कृतात्मनाम् ‍ ॥५७॥

तां प्राप्य च श्रियं परां नरा मायाविमोहिताः । दुरतरापि सुसाध्या सह माया कृष्णस्य मोहिनी ॥५८॥

विद्यते सा मनोन्यस्ता मुधैव मधुसूदने । अवार्प्यैवं च गार्हस्थ्यमवाप्यैवं च तत्परम् ‍ ॥५९॥

छिनत्ति वैष्णविं मायां केशवार्पितमानसः । अविरोधेन विषयान्भुञ्जीन्वष्णुं समाश्रयेत् ‍ ॥६०॥

भुक्त्वा नरतरत्येनां विष्णोर्मायां सुदुस्तराम् ‍ । ईदृग्बहुफला भक्तिः सर्वधातरि केशवे ॥६१॥

मायया तस्य देवस्य तां न कुर्वति मोहिताः । मुधैवोक्तं सुधापानं मुधा तद्धि यिचेष्टितम् ‍ ॥६२॥

मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः । आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ‍ ॥६३॥

ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ‍ । संवत्सरास्तथ मासा विफला दिवसाश्व ते ॥६४॥

नराणां विषयान्धानां यैस्तु नाराधितो हरिः । यो न वित्तर्द्धिविभवैर्न वासोभिर्नभूषणैः ॥६५॥

तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ‍ । जलधेनोस्तु माहात्म्यं शिशम्येदृग्विधं नरः ॥६६॥

नात्र यच्छति तेषां वै विवेकः कुत्र तिष्ठति । कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ॥६७॥

स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः । संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना ॥६८॥

ते जना भ्रष्टजन्मानो वंचितास्तस्य मायया । ऊर्ध्वबाहुर्विरौध्येष दृष्टलोकद्वयोऽस्मि भोः ॥६९॥

आराधयध्वंगोविन्दंजल वेनुंप्रयच्छत । दुःसहो नारको विह्रिरविष्ह्या यातना ॥७०॥

ज्ञातं मयैतदालभ्य कृष्णं भवति निश्वलम् ‍ । आदेशिको देशिको हि यममार्गे सुदुस्तरे ॥७१॥

विचिन्त्य तत्सत्यमेन्मनः कृष्णे निवेश्यताम् ‍ । इष्टेन किं क्रतुशतेन सुदुष्करेण क्लेशाधिकेन किमु कृतैर्नियमैर्व्रतैश्व । दत्वा द्विजाय पितृराजगृहं गतस्य ह्येकाऽपि गौर्जलमयी सुखमातनोति ॥७२॥ [ ६८३९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जलधेनुदानव्रतविधिवर्णनं नाम त्रिपंचाशदुत्तरशततमोऽध्यायः ॥१५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:29.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तिताल

  • पु. १ वादनसंबंधी ताल . ( तीन ठोके व एक वेळ विराम ). २ उच्छृंखल ; मनास येईल तसे वागणारे मूल . ३ ( व . ) नकली . [ सं . त्रिताल ] - वि . अशा प्रकारच्या तालाचे . 
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.