TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०७

उत्तर पर्व - अध्याय १०७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १०७

युधिष्ठिर उवाच ॥

अप्राप्ते न तथादुःखमैश्वर्यादौनरोत्तम । यथामनोरथैस्तैस्तैर्नानादुःखं भवेघृणाम् ‍ ॥१॥

यथा मनोरथैर्लब्धैर्न स्यादुःखभयं नृणाम् ‍ । ऐश्वर्याद्विच्युतोवापिसंततेर्देवलोकतः ॥२॥

अभीष्टादन्यतोवापि यदायेनविनिष्कृतिम् ‍ । प्रान्पोति पुरुषो वाथनारी वा पुण्यसंचयात् ‍ ॥३॥

तन्ममाचश्व भगवन्येन नाभ्येति विच्युतिम् ‍ । श्रीकृष्ण उवाच ॥ सत्यमेतन्महाभाग दुःखं प्रान्पोत्यसंशयः ॥४॥

ऐश्वर्यांदयचित्तस्य बंधुवर्गसुखस्य च । तदेतच्छुयतां पार्थ नेष्टात्परिच्युतिः ॥५॥

स्वर्गादेर्जायते सम्यगपवासवतां सताम् ‍ । द्वादशर्क्षाणि राजेंद्र प्रतिमासं तु यानि वै ॥६॥

तन्नान्मा चाच्युतं तेषु सभ्यक्संपूजयेन्नृप । पुष्पैर्घूपैस्तथांभोभिरभीष्टैरपरैरपि ॥७॥

आदितः कृत्तिकां कृत्वा कार्तिके नृपसत्तम । कृशरामव्र नैवेद्यै पूर्वं मासचतुष्टयम् ‍ ॥८॥

निवेदयेत्फाल्गुनादिसंयावं च ततःपरम् ‍ । आषाढा दिषु देवाय पायसं विनिवेदयेत् ‍ ॥९॥

तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्‍बुधः । पञ्चगव्यजलस्त्रानं तस्थैव प्राशनाच्छुचिः ॥१०॥

सभ्यक्संपूज्य राजेन्द्र ब्राह्मणान्भोजयेद्‍बुधः । पञ्चगव्यजलस्त्रानं तस्थैव प्राशनाच्छुचिः ॥१०॥

सभ्यक्संपूज्य राजेन्द्र तमेवपुरुषोत्तमम् ‍ । प्रणम्य प्रार्थयेद्विष्णं शुचिः स्त्रातो यथाविधि ॥११॥

नमो नमस्तोऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुषैतु पुण्वम् ‍ । ऐश्वर्यवित्तादि तथाऽक्षयं मे क्षयं च मा संततिरभ्युपैतु ॥१२॥

यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतः परतः परात्मा । तथाच्युतंमे कुरु वांछितं त्वं हरस्व पापं च तथाप्रमेय ॥१३॥

अच्युतानंत गोविन्द प्रसीद यदभीप्सितम् ‍ । तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥

एवमेवं समभ्यर्च्य प्रार्थयित्वा तथा शिवम् ‍ । नैवेद्यं स्वयमश्नीयान्नक्तं संपूजितेच्युते ॥१५॥

ततः संवत्सरस्यांते सुखसुप्तोत्थितेऽच्युते । घृतपूर्णं ताम्रपाव्रं बाह्मणाय विवेदयेत् ‍ ॥१६॥

शक्तितो दक्षिणां दद्यादच्युतः प्रीयतामिति । ततस्तु सप्तमेव्रर्षे कुर्यादुद्यापनं बुधः ॥१७॥

कार्या चैवाच्युतस्यार्चा शक्त्या स्वर्णमयी नृप । तदग्रे ब्राह्मणी स्थाप्या स्थविरासाभरणा चह ॥१८॥

महासती रौप्यमयी समानाही सदेवता । ततस्तौ पूजयित्वा च माल्यवस्त्रविलेपनैः ॥१९॥

मंव्रेणानेन राजेन्द्र प्रणिपत्य विधानतः । प्रतिवर्षं च दत्तं चेत्ताम्रपाव्रं द्विजातये ॥२०॥

तदेकहेलया दद्यात्सहिरण्याश्वसंयुतम् ‍ । गाश्व प्रदद्यात्संपूज्य सवत्साः कांस्यदोहनाः ॥२१॥

एकां वा शक्तितो दद्याद्भक्त्या तुष्यति केशवः । घटाः सत्पाव्रनिर्दिष्टाः सान्नाः पूर्णजलोज्ज्चलाः ॥२२॥

छव्रोपानद्युगैः सार्धमेवं दत्वा विसर्जयेत् ‍ । शय्यां सतूलिकां दद्याद्‍गृहं चोपस्करैः सह ॥२३॥

श्रिया च सह विष्णुं च पूजयेद्भूषयेत्प्रभुम् ‍ । वस्त्रैराभरणैश्वैव प्रणिपत्य क्षमापयेत ॥२४॥

कृतेनानेन राजेन्द्र च्युतिं नान्पोति मानवः । संततेः स्वर्गवित्तादेरैश्वर्यस्य तथैव च ॥२५॥

यद्वाभिमतमन्यच्च ततो न च्यवते नरः । तस्मात्सर्वप्रयतेन मासनक्षव्रपूजनैः ॥२६॥

यजेताक्षयकामस्तु सदैव पुरुषोत्तमम् ‍ । श्रीकृष्ण उवाच ॥ अवाषि श्रूयते काचित्सिद्धा स्व्रर्गे महाव्रता ॥२७॥

नारीतपोधना भूत्वा प्रख्याता सांभरायणी । समस्तसंदेहहरा सदा स्वर्गौकसां हि सा ॥२८॥

कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः । पूर्वेन्द्रचरितं राजन्पप्रच्छेदं बृहस्पतिम् ‍ ॥२९॥

पृर्वेन्द्रात्परतः पूर्वे ये बभूवः सुरेश्वराः । तेषां चरितमिच्छामि श्रोतुमंगिरसां वर ॥३०॥

एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः । प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ॥३१॥

नाहं चिरंतनान्वेद्मि देवराज सुरेश्वरान् ‍ । आत्मनः समकालीनमवेहि च सुरेश्वर ॥३२॥

प्रपच्छ देवेन्द्रः कोत्साभिर्मुनिपुंगवः । प्रष्टव्योऽव्र महाभाग कृतादिवसतिद्दिंवि ॥३३॥

बृहस्पतिश्विरं ध्यात्वा ततः प्राह शचीपतिम् ‍ । तपस्विनीं महाभागां पृच्छैतां सांभरायणीम् ‍ ॥३४॥

इत्युक्तस्तेनदेवेन्द्रःकौतुहलसमन्वितः । ययौ यव्र महाभागा सभ्यगास्ते तपास्विनी ॥३५॥

सा तौ द्दष्टवा समायांतौ देवराजबृहस्पती । सम्यगर्घ्येण संपूज्य प्रणिपत्याह सुव्रता ॥३६॥

नमोऽस्तुदेवराजायतथैवाङ्गिरसे नमः । यद्वां कार्यं महाभागी सकलं तदिहोच्यताम् ‍ ॥३७॥

यदि कर्तृं मया शक्यं तत्करिष्ये विमृष्य च । बृह्स्पतिरूवाच ॥ आवागभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ‍ ॥३८॥

यच्च कार्यं महाभागे पृष्टं तत्कथयस्व नः । यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि वै ॥३९॥

तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलम् ‍ । सांभारायण्युवाच ॥ यो वै पूर्व सुरेंन्द्रस्य ततश्व प्रथमो हि यः ॥४०॥

तमात्पूर्वतरोयश्वतस्यापिप्रथमश्वयः । तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ‍ ॥४१॥

तेषां च चरितं कृत्स्त्रं जानाभ्यंगिरसां वर । मन्वंतराण्यनेकानि सृष्टश्वि त्रिदिवौकसाम् ‍ ॥४२॥

यथावदाचष्टतयोः पूर्वेन्द्रचरितं महत् ‍ । स्वायंभुवे यस्तु मनौ मनौ स्वारोचिषे च यः ॥४४॥

तदा जगाद चरितं यथावत्सांभरायणी । कथयामास चाश्वर्य तच्चापि कथयामि ते ॥४६॥

शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः । सलोकपालान्समरे विजित्य सह दैवतैः ॥४७॥

इंद्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः । तं दृष्टा सहसा प्राप्तं शक्रः शज्यातलेऽलुठत् ‍ ॥४८॥

जुगोप सहसात्मानं शंकुकर्णभयार्दितः । दानवः शक्रशयने तस्मिन्नुपविवेश ह ॥४९॥

इन्द्राण्यपि तथा भीता गता वाचस्पतेर्गृहस् ‍ । अथ देवाः समाजग्मुर्भयाद्‍द्रष्टुं सुराद्विषम् ‍ ॥५०॥

आसीनं शक्रशयने प्रणिपातपुरस्सराः ॥ वासुदेवोऽपि तत्रागात्तं द्र्ष्टुं एवकंटकस् ‍ ॥५१॥

दृष्टाव कृष्णमनुप्राप्तं दानवः प्राह हर्षितः । धन्योऽहं कृतकृत्योऽहं यस्य मे गरुडध्वजः ॥५२॥

शक्रशय्यासनस्थस्य द्रष्टमभ्येति केशवः । ततः करे समालंव्य शयनाभ्याशमानयत् ‍ ॥५३॥

चकार कंठग्रहण बांधवस्येव हर्षितः । ततः कृष्णस्तु सहसा गृह्य दोर्भ्या शनैः ॥५४॥

पडियामास विहसन्नदंतं भैरवान्रवान् ‍ । ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः ॥५५॥

निर्जगाम ततः शकः शय्यामूलामूलादवाक्छिराः । तुष्टाव हरिमासीनं शंखचक्रऋणदाधरम् ‍ ॥५६॥

एतद्‌दृष्टं मया शक्र वसंत्यासुरसद्मनि । ततः कुतूहलपरो देवराट् ‍ तां तपस्विनीम् ‍ ॥५७॥

उवाच जानासि कथं त्वमेतान्सांभरायणि । सांभरायण्युउवाच ॥ सर्व एव हि देवेन्द्राः । स्वर्गस्था येऽमरेश्वराः ॥५८॥

वभूदुरेतेचरितमेतेषांवेद्मितेनवै । चरितं च मया तेषां श्रुतं दृष्ठं तथैव च ॥५९॥

इन्द्र उवाच ॥ किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया । स्वर्लोके वससतिः प्राप्ता यथानान्येन केनचित् ‍ ॥६०॥

अहो सर्वव्रतानां तु ह्युपोषितमथाद्भुतम् ‍ । प्रधानतरमत्यंतं स्वर्गवासप्रदं मतम् ‍ ॥६१॥

एवमुक्ताततस्तेन देवेन्द्रेण तपस्विनी । प्रयुवाच महाभाग यथावत्सांभरायणी ॥६२॥

मासर्क्षे ह्याच्युतोः देवः प्रतिमासं सुरेश्वर । यथोक्तव्रतया सम्यक्सप्तवर्षाणि पूजितः ॥६३॥

तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ॥६४॥

स्वर्गेन्द्रविभवैश्वर्य संततिर्याति चाच्युतिम् ‍ । नरो वाञ्छति तेनेत्थं तोषणीयस्ततः प्रभुः ॥६५॥

एतत्ते पूवदेवेन्द्रचरितं । धर्माथकाममोक्षाश्व वाञ्छिता विबुधाधिप ॥६७॥

विष्णोराराधनादन्यन्परमं सिद्धिकारणम् ‍ । तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ॥६८॥

तत्तथेत्यूचतुः सार्ध्वी चेरतुश्वापि तद्‌व्रतम् ‍ । तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः ॥६९॥

मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ॥७०॥

ये सांभयणिकथाचरितव्रेतास्मिन्वर्षाणि सप्त विधिना सुधियो नयंन्ति । ते स्वर्गलोकसभिगम्य कृताधिवासाः कल्पायुतायुतशतैरपि न च्यबंते ॥७१॥ { ४६०९ }

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोध्यायः ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:27.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चाबरणें

  • v i  Be confused, bewildered. 
  • अ.क्रि. ( को . ) गोंधळणें , भांबावणें ; थक्क होणें ; सुचेनासें होणें . 
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.