TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११४

उत्तर पर्व - अध्याय ११४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ११४

श्रीकृष्ण उवाच ॥

पुरा त्रेतायुगे पार्थ नावर्शत्पाकशासनः । कथंचिदनया द्राज्ञस्तस्य राष्ट्रे समंततः ॥१॥

ततोराष्ट्रं क्षुधाविष्टं बभूवातीवदारुणम् ‍ । पतंगभूषिकाकीर्ण चौरव्यालभयाकुलम् ‍ ॥२॥

तस्मिन्घोराकुले काले सपत्नीकः सबालकः । कौशिकः स्वगृहं त्यक्त्वा परराष्ट्रमगाच्छनैः ॥३॥

मार्गेऽथ गच्छता तेन कौशिकेन महर्षिणा । त्यक्तः सवालाको ह्येको दुर्भरं च कुटुंबकम् ‍ ॥४॥

तस्मिन्काले विशेषण क्षीणेऽन्नौषधिसंचये । कृत्वातिनिर्घृणं कर्म गतोऽसौ कौशिको मुनिः ॥५॥

सोऽपि वालो रुदन्दीनो दिशो वीक्ष्य स्थितः पथि । उत्थाय पिप्पलस्वाधः फलान्यत्तुं प्रचक्रमे ॥६॥

कूपे जलं पपौ नित्यं तत्रैवाश्रमंडलम् ‍ । कृत्वा सम्यक् ‍ स्थितो रौद्रं तेपे च विपुलं तपः ॥७॥

अथाजगाम भगवान्नारदो वेदपारगः । तं दृष्ट्रा दनिवदनं क्षुधातं द्विजपोतकम् ‍ ॥८॥

दयया तस्य संस्कारं चक्रे र्मौज्युदिबंधनम् ‍ । वेदानध्यापयामास सरहस्यपदक्रमान् ‍ ॥९॥

ददौ वैष्णवं मंत्र ल्द्वादशाक्षरामित्युत । वेदाभ्यासरतस्यास्य विष्णुध्यानपरस्य च ॥१०॥

प्रत्यंह पिप्पलादस्य विष्णुः प्रत्यक्षतां ययौ । वैनतेयमारुढो नीर्लोत्पलदलच्छविः ॥११॥

चतुर्भुजः पीतवासाः शंखचक्रगदाधरः । स उवाच तदा तुष्टो वरं ब्रूहि यमिच्छसि ॥१२॥

तच्छुत्वा नारदमुखं समालोक्य शिशुस्तदा । नारदेनाप्यनुज्ञातो ज्ञानविद्यामयाचत ॥१३॥

दत्वा ज्ञानं सोपदेशं योगाभ्यासं च निर्मलम् ‍ । नागरिगमनो विष्णुस्तत्रैवान्तरधीयत ॥१४॥

ततो राजन्प्रहाज्ञानी महर्षिः स शिशुस्तदा । नारदं परिप्रच्छ केमाहं पीडितो मुने ॥१५॥

ग्रहेणाग्रहभूतेन बालरुपोऽपि दुःखितः । न मे पिता न मे माता जीवितोस्म्यति पीडया ॥१६॥

ब्राह्मण्यं भवता दत्तं दैवान्मम द्विजोत्तम । एतच्छुत्वा शिशोर्वाक्यं कथयामास नारदः ॥१७॥

शनैश्वरेण करेण ग्रहेण त्वं हि पीडितः । पीडितश्व समस्तोऽपि देशोयं मंदचारिणा ॥१८॥

येनैतत्ते फलं प्राप्तं सैष सौरिः शनैश्वरः । प्रज्वलन्नतिदर्पेण स्फुरंतीव नभस्तले ॥१९॥

एवमुक्तः शिशुः क्रोधात्प्रजज्वालेव पावकः । आलोक्य गगनाद्धमौ पातयामास वै शनिम् ‍ ॥२०॥

पतमानो गिरेः शृंगाद्धग्रः खंजो बभूव ल्ह । धरण्यां पतितं दृष्टाव भास्करात्मजमातुरम् ‍ ॥२१॥

नरीनर्ति भुजक्षैपैर्नारदो दृष्टमानसः । हर्षाद्देवानथाहूय दर्शयामास तं शनिम् ‍ ॥२२॥

अथ देवास्तथा प्राप्ता ब्रह्मरुद्रेन्द्रपावकाः । शनैः संशमयामासुरुचुश्वेदमृषिंचिंतम् ‍ ॥२३॥

स्वस्ति तेऽस्तु महाभाग पिप्पलाद महामुने । भद्रे तेऽत्र कृतं नाम नारदेन महर्षिणा ॥२४॥

अन्वर्थमुक्तं विप्रेण पिप्पलादेति नामवै । भगवन्पिपल्लन्यत्वा जीवितोऽसि यतो मुने ॥२५॥

ततश्व पिप्पलादेति ख्यातिं लोके गमिष्यसि । ये च त्वां पूजयिष्यंति स्त्रात्वा पुष्पैर्महाऋषिम् ‍ ॥२६॥

इहाश्रमे समभेत्य रुपेस्मिन्भक्तिभाविताः । सप्तजन्मान्तरं यावत्पुत्रपौत्रानुगामिनः ॥२७॥

न तेषांबाधिका सत्यं ग्रहपीडा भविष्यति । स्मरिष्यंतीह ये च त्वां पिप्पलादेति नामताः ॥२८॥

तेषां शनैश्चर्कृता पीडा न प्रभविष्यति । क्षमस्वास्य महाभाग निर्दोषोऽयं ग्रहाग्रणीः ॥२९॥

चरन्वृक्षं शनैरेष शुभाशुभफलप्रदः । हतसाध्याग्रहाश्वते न भवंति कदाचन ॥३०॥

बलिहोममनमस्कारैः शांतिं यच्छंति पूजिताः । अतोऽर्थमस्य दिवसे स्त्रानमभ्यंगपूर्वकम् ‍ ॥३१॥

कार्य देयं च विप्राणां तैलमभ्यंगहेतवे । यस्तु संवत्सरं यावत्प्राप्ते शनिदिने वरः ॥३२॥

तैलं ददाति विप्राणां स्वशक्त्यान्यजनेऽपि च । ततस्संवत्सरस्यांते प्राप्ते तस्य दिने पुनः ॥३३॥

लोहैर्घठापितं सौरिं तैअल मध्ये विनिक्षिपेत् ‍ । लोहभांडकमध्यस्थं कृष्णवस्त्रयुगच्छदम् ‍ ॥३४॥

कृष्णगोदक्षिणायुक्तं कृष्णकबलशायिनम् ‍ । तिलतैलेन च स्त्रानं कृष्णपुष्पैः सुपूजितम् ‍ ॥३५॥

कृष्णगंधैः कृष्णधूपैः कृशरान्नैस्तिलौदनैः पूजयित्वा सूर्यपुत्रं ब्राह्मणाय निवेदयेत् ‍ ॥३६॥

मंत्रेणानेनब्रह्मर्षे शन्नोदेवीति भक्तिमान् ‍ । इतरेषां तु वर्णानां शृणु मन्त्रं द्विजोत्तम ॥३७॥

क्रूरावलोकनवशाद्भुवनं नाशयिष्यति यो ग्रहो रुष्टः । तुष्टो धनकनसुखं ददाति सौरिः शनैश्वरः पातु ॥३८॥

यं पुरा नष्टराज्याय नलाय प्रददौ किल स्वप्नेसौरिर्निजसंमन्त्रंशृणुकामफलप्रदम् ‍ ॥३९॥

क्रोडं नीलाञ्जनप्रख्यं नीलवर्णसमस्त्रजम् ‍ । छायामातेडसंभूते नमस्यामि शनैश्वरम् ‍ ॥४०॥

नमोऽर्कपुत्राय शनैश्वराय नीहारवर्णाजनमेच काय । श्रुत्वा रहस्यं भव कामदश्व फलप्रदो मे भव सूर्यपुत्र ॥४१॥

नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः । शनैश्वराय क्रूराय ल्शुद्धबुद्धिपदायिने ॥४२॥

य एभिर्नामभिः स्तौति तस्य तुष्टौ भवाम्यहम् ‍ । मदीयं तु जयं तस्य स्वप्नेऽपि न भविष्यति ॥४३॥

एवमूचे शनिः पूर्वमतस्तं ब्राह्मणे ददेत् ‍ । एवमेतदूव्रतं विप्र ये चरिष्यंति मानवाः ॥४४॥

वारे शनैश्वरे प्राप्ते वत्सरं यावदेवतु । तेषां शानैश्वरी पीडा देशेऽपि भविष्यति ॥४५॥

एवमुक्त्वा सुराः सर्वे प्रतिजग्मुर्यथागतम् ‍ । शनैश्वरोपि स्वस्थाने ग्रहांते खे प्रतिष्ठितः ॥४६॥

पिप्पलादोऽपि ब्रह्मज्ञो ब्रह्माज्ञां प्रतिपालयन् ‍ । शनैश्वरं तु संपूज्य तुष्टाव रचिताञ्जलिः ॥४७॥

कोणस्थः पिङ्गलो बभ्रूः कृष्णो रौद्रोन्तकोयमः । सौरिः शनैश्वरो मन्दः प्रीयतां मे ग्रहोत्तमः ॥४८॥

शनैश्वरमिति स्तुत्वा पिप्प्लादो महामुनिः । खे प्रज्वलन्विमानस्थो दृश्यतेऽद्यापि मानवैः ॥४९॥

लिदं शनैश्वराख्यानं ल्ये श्रोष्यन्ति समाहिताः । तेषां कुरुवरश्रेष्ठ शनीः पीडां न दास्यति ॥५०॥

कृष्णायसेन घटितां ग्रहराजमूर्ति लोहे निधाय कलशोतिलतैलपूर्णे । यो ब्राह्मणाय रविजं प्रददाति भक्त्या पीडा शनैश्वरकृता न हि बाधते तम् ‍ ॥५१॥ [ ४८८५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शनैश्वरव्रतवर्णनं नाम चतुर्दशोत्तरशततमोऽध्यायः ॥११४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:27.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुद्धेवाली गुर्बा

  • उधुका 
  • बुल्ली 
  • जुदेवाली गुलाबा 
  • उदका 
More meanings
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.