TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४६

उत्तर पर्व - अध्याय ४६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ४६

श्रीकृष्ण उवाच ॥

लोमशो नाम विप्रर्षिर्मथुरायां गतः पुरा । सोर्चितो वसुदेवेन देवक्या च पुधिष्ठिर ॥१॥

उपबिष्टः कथाः पुण्याः कथयित्वा मनोहराः । ततः कथयितुं भूयो कथामेतां प्रचक्रमे ॥२॥

कसे हते मृताः पुव्राः पुव्रा जाता पुनः पुनः। मृतवत्सा दिवकि त्वं पुव्रदुःखेन दुःखिता ॥३॥

यथा चन्द्रमुखी दीप्रिर्बभूव मृतपुव्रिका । पश्वाच्चीर्णव्रता सैव बभूवाक्षतबत्सका ॥४॥

त्वमेब देवकि तथा भविष्यसि न संशयः । देवक्युवाच ॥ का सा चन्द्रमुखी ब्रह्यन्वभूव बहुपुव्रिका ॥५॥

किं विचीर्णं व्रतवर बहुसन्ततिकारकम् ‍ । सतां सदर्थकरणं सौभाग्यारोग्यवर्धनम् ‍ ॥६॥

लोमश उवाच ॥ अयोध्यायां पुरा राजा नहुषो नाम विश्रुतः । तस्य राज्ञो महादेही नाम्ना चन्द्रमुखी पुरा ॥७॥

पुरोहितस्य तस्येव पत्न्यातीन्मानमानिका । तयोरासीद्‍द्दढा प्रीतिः स्पृहणीया परस्परम् ‍ ॥८॥

अथापि तेपि मिव्रिण्यौ स्त्रानार्थं शरयूजले । प्राप्ते प्राप्ताश्व वव्रैव बह्रन्यश्व नगराङ्गनाः ॥९॥

स्त्रात्वा तु मण्डलं चकुः स्वपतेर्व्यक्तरूपिणः । लेखयित्वा शिवं शान्तमुमया सह शकरम् ‍ ॥१०॥

गन्धपुष्पाक्षतैभक्त्या पूजयित्वा यथाविधि । प्रणम्य गन्तुकामास्ताः पृष्टास्ताभ्या नरस्त्रियः ॥११॥

ता ऊचूः शङ्करोऽस्मानिः पावत्या सह पूजितः । स्वणंसूव्रमयं तन्तुं शिवायात्मा निवेदितः ॥१२॥

घारामयमिदं तावद्यावत्प्राणावधारणम् ‍ । तासां तु वचनं श्रुत्वा मिव्रिण्यौ तेऽपि भारत ॥१३॥

व्रस्यैव समयं तव्र बद‍ध्वा दोर्भ्यां तु डोरकैः । ततस्तह स्वगृहाञ्चरमुः स्वसखीभिः समावृताः ॥१४॥

कालेन महता यातं तस्यां वैतद्‍व्रत नृप । चन्द्रवत्याः प्रमत्ताया विस्मृतः स तु डोरकः ॥१५॥

मृता कैश्विदहोराव्रैः सा बभूव प्लवङ्गमी । मानी च कु्क् ‍ कुटी जाता प्रायः संनिकटं चरे ॥१६॥

तथैव जाते मिव्रिण्यौ पूर्वजातिस्मो तथा ॥ माभूय भूपसमयं प्रारभूतं चक्रनुः पुनः ॥१७॥

तद्दिने तव्र संप्राप्ते पुनः कालेन ते मृते । तव्रैद देशे जाते गोकुलसंयुते ॥१८॥

राज्ञो जाया बभूवाथ पृथ्वीनाथस्य वा पुनः । ईश्वरी नाम विख्याता राज्ञी राजन्द्रवल्लभा ॥१९॥

अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका । पुरोहितस्य कालेन कुक ‍ कुटी चहुपुव्रिणी ॥२०॥

जातिस्मरा पद्महस्ता अष्टपुव्राऽमृतप्रजा । पुनर्निरन्तरा प्रीतिर्बभूवाय तयोर्नृप ॥२१॥

तव्रेश्वरी पुव्रमेकं प्रसूता चैव रौगिणम् ‍ । नव वर्षं तु पञ्चत्वमगात्स च युधिष्ठिर ॥२२॥

ततस्तां भूषणां द्रष्टुमथैषा पव्रदुःखिता । सखीभावादतिस्त्रेहात्सर्वपुव्रसमन्विता ॥२३॥

अमुक्ताभरणा नित्यं स्वबावनैव भूषिता । तां द्दष्टवा पुव्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ॥२४॥

ततो गृहे प्रेष्य च तां सखीं वै तीव्रमत्सरा । चिन्तयामास सा राव्यां तस्याः पुव्रबधं प्रति ॥२५॥

हता ह्ताश्व तापुव्रा पुनर्जीवन्त्यनामयाः । कदाचिदाहुय सखीं भूषणां पुरतः स्थिताम् ‍ ॥२६॥

ईश्वरी प्राह किमिदं सखि पुण्यं त्वया कृतम् ‍ । येन ते निहताः पुव्राः पुनर्जीबन्ति नो भयम् ‍ ॥२७॥

बहुपुव्रा जीववासा अमुक्ताभरणा कथम् ‍ । शोभसेऽभ्यधिकं भद्रे विद्युत्सौदामिनीव हि ॥२८॥

भूषणोवाच ॥ भद्रे भाद्रपदे मासि सप्तम्यां सलिलाशये ।स्त्रात्वा शिवं मण्डलके लेखयित्वा सहाम्बिकम् ‍ ॥२९॥

भक्त्या संपुज्य समयं कुर्याद्वद्‍ध्वा करे गुणम् ‍ । यावज्जीवं मया तावच्छिवस्यात्मा निवेदितः ॥३०॥

इत्येवं समयं कृत्वा ततःप्रभृति डोरकम् ‍ । स्वर्णरौप्यमयं वापि करशाखासु धारयेत् ‍ ॥३१॥

मण्डकं वेष्टिकां दद्याच्छ‍वश्रूपक्षे द्विजे तु वा । स्वयं च ता न भोक्तव्या व्रतमङ्गमयात्सखि ॥३२॥

परितो मुद्रिका रौप्या सौवर्णा युधिष्ठिर । ताम्रपाव्रोपरि स्थाप्य ब्राह्मणाय निवेदयेत् ‍ ॥३३॥

सोहालकानिकासार दह्याद्भुञ्जीत च स्वयम् ‍ । मण्डल सद्मवित्तं च शिवं शक्तिसमन्वितम् ‍ ॥३४॥

सपूज्य सखि दुष्पाप्यं व्रैलोक्येऽपि न बिद्यते । तदेव समयं पुर्वं त्वया सह मया कृतः ॥३५॥

स मया पालितो भक्त्या ततोऽह सुस्थिता सखि । त्वया स भग्नः समयो दर्पात्त्यक्तः शरीरयोः ॥३६॥

तेन सततिविच्छिन्ना राज्येपि सवि दुःखिता । एप प्रभावः कथितो व्रतस्यास्य मया तव ॥३७॥

अर्द्धं तव प्रदास्यामि तस्य धर्मस्य सुव्रते । सखिभावात्प्रतीच्छ त्वं नाव्र कार्या विचारणा ॥३८॥

इत्युक्त्वा प्रतिजग्राह व्रतदानफल ततः । बभूव सुप्रजाः साध्वी मोक्षं प्राप्य सुरेश्वरी ॥३९॥

व्रतस्यस्य प्रभावेण सपुव्रा त्वं च देवकि । भविष्यसि व्रिलाकेश पुव्रं च जनयिष्यसि ॥४०॥

इत्येवं कथयित्वास्या लोमशो मुनिपुङ्गवः । जगाम नमसा पार्थ मयाऽप्येतत्तवोदितम् ‍ ॥४१॥

ये चरिष्यन्ति मनुजा व्रतमेतद्यधिष्ठिर । कृकवाकुषसङ्गाख्यं देवक्या चरितं शुभम् ‍ ॥४२॥

तेषां संततिविच्छेदो न कदाचिद्भविष्यति । स्त्रियश्व याश्वरिष्यन्ति व्रतमेतत्सुतप्रदम् ‍ ॥४३॥

मर्त्यलोके सुखं स्थित्वा यास्यन्ति शिवमन्दिरम् ‍ ॥४४॥

यः कुक् ‍ कुटीव्रतवरं प्लवगीसमेतं चक्ते चराचरगुरुं ह्रदये निधाय । तह्याकरोति कलुषौघविघातरक्षां सा स्त्री युवा भवति शोभनगीतवत्सा ॥४५॥ [ १९५८ ]

इति श्रीभविष्ये महापुराण उत्तारपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक् ‍ कुटमर्कटीव्रतवर्णनं नाम षट्‍चत्वारिंशोऽध्यायः ॥४६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:23.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

observation error

  • अभीक्षण त्रुटि 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site