TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११८

उत्तर पर्व - अध्याय ११८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ११८

श्रीकृष्ण उवाच ॥

अप्रस्तिव्रतास्त्यन्यत्सर्षपापप्रणाशनम् ‍ । तच्छुणुष्व महीपाल कथ्यमानं मयानघ ॥१॥

युधिष्ठिर उवाच ॥ शृणोमि ब्रूहि मे कृष्ण देवर्षेस्तस्य चेष्ठितम् ‍ । जन्मचैवार्घदानं च कलमुद्धमनस्य च ॥२॥

श्रीकृष्ण उवाच ॥ मित्रश्व वरुणश्वैव पूर्वमतौ सुरोत्तमौ । मंदरस्य समीपे तु चरेतुर्विपुलं तपः ॥३॥

तयोः संक्ष्पभजार्थाय वासवेन वराप्सराः । उर्वशी प्रेषिता तत्र रुपौदार्युगुणान्विता ॥४॥

तस्याः संदर्शनादेवं क्षुमितौ तौ सुरोत्तमौ । विकारं मनसो बुध्‍द्वा कुंभेवीर्यं ससर्जर्तुः ॥५॥

निमेः शापासत्र जातो वैसिष्ठो भगवानृषिः । अनंतरमगस्यस्तु जातो दिव्यस्तपोधनः ॥६॥

मलयस्यैकदेशे तु वैस्त्रानसविधानतः । सभार्यः संवृतो विर्पैस्तपस्तेपे सुदुश्वरम ॥७॥

आस्तां दैत्यौ पुरा दुष्टापादौ कृतयुगस्य तु । नाम्ना इल्वलवातापी देवब्राह्मणकंटकौ ॥८॥

तयोरेकोऽभवन्मेषो द्वितीयो भोज्यदायकः । भाद्धक्रमेण तेनैवं बहवो नाशिता द्विजाः ॥९॥

अथान्यस्मिन्दिने दैत्यो ह्यगस्त्यं संन्यमन्त्रयत् ‍ । भोज्यार्थं ब्राह्मणैः सार्द्ध भृगुगर्ग्गकुलोद्भवैः ॥१०॥

अगस्त्योप्यभवच्छ्राद्धे धौरेयो रोषदर्पितः । सोऽपि हत्वापचद्वह्रौ वातापिं मेषरुपिणम् ‍ ॥११॥

परिविष्यमाणेषु तेषु स्तिमितं प्राह दानवम् ‍ । अगस्त्यो भगवान्कुद्धः सर्व मे दीयतामिति ॥१२॥

मैषं मांसं ततः प्रादादिल्वलः कुपितस्तदा । अक्षयित्वाः भवत्स्वस्थो निर्विकारो महामुनिः ॥१३॥

शुचिर्बभौ ततः प्राह वातपिमिल्वलः शनै । निष्क्रमस्व मुनेर्द्देव भित्त्वा कस्माद्विलंबसे ॥१४॥

तच्छुत्वागस्त्यविप्रोपि उद्धारं कृतवान्गुरुम् ‍ । कुतो निष्क्रमणं प्राह भक्षितः स मया पुनः ॥१५॥

जीर्णोऽयं भस्मभूतोऽयं वातापिर्बह्यकंटकः । इल्वलोऽपि स्फुरत्क्रोधः सोऽगस्येन निरेक्षितः ॥१६॥

भस्मीभूतः क्षणेनैव ततः शांतं जगद्दभौ । तेन वैरेण ते दुष्टा नष्टशेषास्तु दानवाः ॥१७॥

संमंत्र्य निश्चयं मेरौ ततोऽगस्यमुपागताः । विवर्द्धयिषवस्तेजो मुनेरस्य दिवौकसः ॥१८॥

तेऽगस्त्यमाहुर्ब्रह्मर्षे समुद्रं शोषयस्वं वै । तच्छुत्वागस्त्यविग्रोपि आग्रेयीं धारणां दधत् ‍ ॥१९॥

तया पीतः समुद्रोपि भ्रांतमीनोर्मिकच्छपः । पीते समुद्रतोयेऽपि देवैः कुद्धैस्तु दानवाः ॥२०॥

क्षयं नीताः क्षणात्सर्वे क्रन्दमानाः पुनः पुनः । क्षेमं जगत्पभूत्सर्वममस्त्यर्षेः प्रसादतः ॥२१॥

अथ गंगानदीतोयैः संपूर्ण सागरे पुनः । मंथानं मंदरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ‍ ॥२२॥

ममंथुः सहिताः सर्वे समुद्रं दैत्यदानवा । अथोत्थिते रत्नसंघे सोमे श्रेकौस्तुभे गजे ॥२३॥

अतिलोभान्मथ्यमाने सागरे पयसानिधौ । अथोत्थितं ज्वलद्रौद्रं कालकूटं महाविषम् ‍ ॥२४॥

येनासौ सुरसंघात आधूर्णित इवाभवत् ‍ । सागरं संप्रविष्टास्ते रात्रौ रात्रौ विनिर्ययुः ॥२५॥

निर्गम्य च वधं चक्रुर्मुनीनामूर्ध्वरेतसाम् ‍ । बभंजुर्यज्ञपात्राणि दिवा तोये निलिल्यिरे ॥२६॥

समुद्रमध्ये न ज्ञात्वा ब्रह्मा नारायणो हरः । वायुः कुबेरी वसवः सर्वे देवाः सवासवाः ॥२७॥

ततो मन्त्रैः शंकरेण किञ्चित्तत्रैव भक्षितम् ‍ । क्षणाद्दग्धः समंत्रोपि नीलकंठी कृतो हरः ॥२८॥

ब्रह्मापि चेतनां प्राप्य अब्रह्मण्यमुवाच ह । नास्ति कश्विज्जगत्यस्मिन्विषमापातुमीश्वर ॥२९॥

अगस्त्यो दक्षिणाशायां लङ्गाकमूले महामुनिः । तदुच्छध्वं महाभागाः शरणं सर्वदा ह्यसौ ॥३०॥

एवमुक्ता गता देवा अगस्त्याश्रमदक्षिणाम् ‍ । देवान्वीक्ष्य च तान्हर्षादगस्यो मुनिसत्तमः ॥३१॥

ध्यानं चक्रे विषं येन हिमाद्रौ संप्रवेशितम् ‍ । तेनतद्धि निकुंजेषु हिमपर्वतसानुषु ॥३२॥

तस्मिन्काले विषं लग्नं किञ्चिच्छेषं द्रुमादिषु । उन्मत्तकरवीरार्क्कस्थलभूमिजलानिले ॥३३॥

तद्विषं चूर्णितं तेन क्षणात्संकोचितं तथा । हिमवातेन दुष्टेन वहमानेन पांडव ॥३४॥

मनुष्याणां तु जायंते रोगा नानविधा भुवि । ते च मासत्रयं सार्द्ध प्रवहंति विषोल्बणाः ॥३५॥

वृषसंक्रातिमारभ्य सिंहांते शाम्यते विषम् ‍ । रोगदोषपनोदश्व भवेत्पार्थ प्रभावतः ॥३६॥

एवं कालेन महता नीरुजे व्याधिवर्जिते । जगत्यस्मिर्‍पुरा पार्थ घनीभूते प्रजागणे ॥३७॥

निरंतरे मर्त्यलोके ऊर्ध्वबाहुप्रसारी वै । बलवान्धूमनिर्देशो मृत्युर्भ्राम्यति मूर्तिमान ॥३८॥

प्रजा व्यापादयन्कालादाजगाम महामुनेः । समीपं मूर्तिमान्क्रुद्द्दो मृत्युस्तेन निरिक्षितः ॥३९॥

भस्मीबभूव पश्वाच्च ब्रह्मणा सुखकारणात् ‍ । व्याधिवृन्दसमोपेतो मृत्युरन्यो विनिर्मितः ॥४०॥

तथान्यो दंडकारण्ये श्वेतो नामनृपोत्तमः । स्वमांसश्नता तेन निर्वेदात्प्रार्थितो मुनिः ॥४१॥

भगवन्सर्वमेवान्यद्दत्तं राज्य मदान्मया । अन्नं जलं वा श्राद्धं वा न दत्तं पापबुद्धिना ॥४२॥

ततोऽगस्त्यः करुणया रत्नैः श्राद्धमकल्पयत् ‍ । श्राद्धे निवृत्ते सहस्रा दिव्यदेहः श्रिया वृतः ॥४३॥

प्राप्तश्व परमं स्थानमगस्त्यर्षेः प्रसादतः । अथ विन्ध्यो महाशैलः सूर्यरोषातूयवर्धत ॥४४॥

कस्मान्मेरुमिवासौ मां न करोति प्रदक्षिणम् ‍ । वर्द्धमानं तु तं दृष्टाव ततो देवाः सवासवाः ॥४५॥

एकीभूयाश्रमं स्तुत्वा देवर्षिपुङ्गवम् ‍ । अगस्त्य्सूचुर्भगवन्सूर्यमार्गविरोधिनम् ‍ ॥४७॥

प्रस्थितं तीर्थयात्रायां विद्धि मामचलोत्तसे । स्थितौ च स्थयितां तावद्यावदागमनं मम ॥४८॥

एवमुक्त्वा संप्रयातो नाद्यापि विनिवर्तते । दृश्यते भ्राजयन्नाशां दक्षिणां गगनेज्वलम् ‍ ॥४९॥

त्रैलोक्यवंद्यचरंणो लोपामुद्रासहायवान् ‍ । लोपामुद्रापि तं प्राह देवर्षि देवपूजितम् ‍ ॥५०॥

तत्राश्रमस्थलिकायामृतुकाले हुपस्थिते । भोक्तमच्छामि विषयांस्त्वया सह सुखैषिणी ॥५१॥

भवेद्यदि गृहं रम्यं सर्वरत्नविभूषितम् ‍ । गजैरथैश्व संपूर्ण शयनैः प्रवरासनैः ॥५२॥

कुक्‍लपट्टनेत्रैश्व विलासैर्लालितैर्मुने । त्वया सह समायोगं यास्येऽहं कुरु चिन्तितम् ‍ ॥५३॥

एतच्छुत्वामुनिर्हृष्टः प्राह्ययद्धनंद क्षणात् ‍ । कारयामास भवनं संपूर्ण रत्नराशिभिः ॥५४॥

तत्र रेभे स भगवानगस्त्यः स्वाभमे सुखम् ‍ । तस्यैवं चेष्टितस्यर्षेः प्रयच्छार्ध युधिष्ठिर ॥५५॥

आस्तिक्यबुद्धया भक्त्चा च धम प्राप्स्यसि पांडव । कन्यायामागते सूर्ये अर्गाग्वै सप्तमे दिने ॥५६॥

( कन्यायां समनुप्राप्ते सूर्वे यः सन्निवर्तते ) प्रयूवसमये विद्वान्कुर्यादस्योदये निशि ॥५७॥

स्त्रानं शुक्लतिलै स्तदूच्छुक्लमाल्याम्बरो गृही । स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम् ‍ ॥५८॥

पञ्चरत्नसमायुक्तं घृतपात्रेणसंयुतम् ‍ । नानाभक्ष्यसमोपेतं सप्तधान्यसमन्वितम् ‍ ॥५९॥

काञ्चनं कारयित्वा तु यथाशक्त्या सुशोभनम् ‍ । पुरुषाकृतिं प्रशान्तं च जपमण्डलधारिणम् ‍ ॥६०॥

कमंडलुकरं शिष्यैमृगैश्व पारिधारितम् ‍ । मृत्युघ्नं विषहन्तारं दर्भमुष्टिकरं मुनिम् ‍ ॥६१॥

तस्मिन्कुम्भे समालग्नं चन्दनेन ततो न्यसेत् ‍ । स्त्रापितं चानुलिप्तं च चन्दनेन सुगंधिना ॥६२॥

पूजितं चापि कुसुमैर्ह्रद्यैर्धूपस्तु धूपितम् ‍ । ततश्वार्धः प्रदातव्यो यैर्द्रव्यैस्तानि मे शृणु ॥६३॥

र्खरूरैर्नालिकेरैश्वकूष्मांडैस्त्रपुषिरपि । कर्कोटकारवेल्लैश्वकर्चूरैबीजपूरकैः ॥६४॥

वृंताकैर्दाडिमैश्वव नारंगैः कदलीफलैः । दूर्वाकुरैः कुशैः काशैः पद्मैर्नीलोत्पलैस्तथा ॥६५॥

नानाप्रकारैर्भक्ष्यैश्वगोभिर्वस्त्रैरसैः शुभैः । विरुढैः सप्तधान्यैश्व वंशपात्रे निधापितैः ॥६६॥

सौवर्णरौप्यपात्रेणाम्रवंशमयेनच । मूर्ध्नि स्थितेन नम्रेण जानुभ्यां पृथिवीतले ॥६७॥

दक्षिणाभिमुखो भूत्वा ह्यर्घ्यपाद्यादिकं च यत् ‍ । शीलेन चेतसा भक्त्या दद्यात्कौरवनंदन ॥६८॥

काशपूष्पप्रतीकोश अग्नि मारुतसंभव । मित्रावरुणयोः पुत्र कुंभयोने नमोऽस्तु ते ॥६९॥

विंध्यवृद्धिक्षयकर मेषतोयविषापह । देवल्लभ देवर्षे लंकावासनमोऽस्तु ते ॥७०॥

वातापी भक्षितो येन समुद्राः शोषिताः पुरा । लोपामुद्रापतिः श्रीमान्योऽसौ तस्मै नमोऽस्तु ते ॥७१॥

येनोदितेन पापानि प्रलयं यांति व्याधय्ह । तस्मै नमोऽस्त्वगस्याय सशिष्याय सपुत्रिणे ॥७२॥

ब्राह्मणो वेद ऋचया दद्यादर्घ्य नमोऽस्तु ते । " अगस्त्यःस्वनमानस्व्हनित्यंप्राजापत्यंबलिमिच्छमानः ॥ उभौवर्णौवृष्टयनुग्रहार्थमुपोषत्यादेष्वशिखोजगाम् ‍ । " दत्वैवमर्घ्य कौतेय प्रतिपूज्य च पुष्पकैः ॥७३॥

विसर्जयित्वागस्त्यं तं विप्राय प्रतिपादयेत् ‍ ।दैवज्ञव्यासरुपाय वेदवेदांगवादिने ॥७४॥

एवं यः कुरुते भक्त्या ह्यगस्त्यं प्रतिपूजनम् ‍ । फलमेकं तथा धान्यं कोपं वासं परित्यजेत् ‍ ॥७५॥

संपूर्ण च ततो वर्षे पुनरन्यदुपक्रमेत् ‍ । दत्वार्घ्य सप्तवर्षाणि क्रमेणानेन पांडव ॥७६॥

पुमान्फलमवाप्नोति तदेकाग्रमनाः । श्रृणु । ब्राह्मणाश्वतुरो वेदान्सर्वशास्त्रविशारदः ॥७७॥

क्षात्रियः पृथिवी सवीं प्राप्नोत्यर्णवमेखलाम् ‍ । वैश्योऽप्यायुष्यमाप्नोति गोधनं चापि विन्दति ॥७८॥

शूद्राणां धनमारोग्यं सन्मानस्व्हाधिको भवेत् ‍ । स्त्रीणां पुत्राः प्रजायंण्त सौभाग्यं वृद्धिरिद्धिमत् ‍ ॥७९॥

विधवानां महत्पुण्यं वर्धते । पांडुनंदन । कन्या भर्तारमाप्नोति व्याधेर्मुच्यते दुःखितः ॥८०॥

येषुदेशेष्वगस्यर्षेः पूजनं क्रियते जनैः । तेषु देशेषु पर्जन्य़ः कामवर्षी प्रजायते ॥८१॥

ईतयः प्रशमं यांति नश्यंति व्याधयस्तथा । पठंति ये त्वगस्यर्षेः ख्यानं शृण्वंति चापरे ॥८२॥

ते सर्वे पापनिर्मुक्ताश्विरं स्थित्वा महीतले । हंसयुक्तविमानेन स्वर्ग यांति नरोत्तम ॥८३॥

मर्त्यो यदीच्छति गृहं परमर्द्धियुक्तं भोगं शरीरमरुजं पशुपुत्रपुष्टिम् ‍ । तत्सर्वल्लभमुनेरुदये महार्घ्य यच्छेन्महार्घफलवस्त्रधनैः सहान्यैः ॥८४॥ [ ५०५६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अगस्त्यार्घ्यंविधिव्रतं नामाष्टादशोत्तरशततमोऽध्यायः ॥११८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:27.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ढुगण दाखविणें

  • पराजित होणें 
  • अपयश येऊन फिरणें 
  • पाठ फिरविणें पहा. 
  • खाली पहा. 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.