TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८०

उत्तर पर्व - अध्याय ८०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ८०

श्रीकृष्ण उवाच ॥

फाल्गुनेऽमलपक्षस्य एकादश्यामुपोषितः । नरो वा यदि वा नारी समभ्यर्च जगत्पतिम् ‍ ॥१॥

द्वरेर्वाम वदन्भक्त्या भाबयुक्तो युधिष्ठिर । उत्तिष्ठन्प्रस्वपश्वैव हरिमेवानुकीर्तयेत् ‍ ॥२॥

ततोऽन्ये दिवसे प्राप्ते द्वादश्यां नियतो इरिम् ‍ । स्त्रात्वा सम्वक्समभ्यर्ग्य दत्त्वा विप्राय दक्षिणाम् ‍ ॥३॥

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः । प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ‍ ॥४॥

पातालसंस्थां बसुधां यां प्रसाय मनोरथान् ‍ । अवाप वसुदेवोऽसौ प्रदद्यात्तु मनोरथान् ‍ ॥५॥

यमभ्यर्च्य दिवि प्राप्तः सकलांश्व मनोरथान् ‍ । भ्रष्टराज्यश्व देवेन्दो यमभ्यर्च्य जगत्पतिम् ‍ ॥६॥

मनोरथानभिनवान्प्राप्तवांश्व मनोहराम । पवमभ्यर्च्य पूजां च निष्पाय च व्रतं तथा । भुञ्जीत प्रयतः सम्यरहविष्यं पाण्डुनन्दन ॥७॥

फाल्गुने चैव्रवैशाखे ज्येष्ठे मासि च सत्तम । चतुर्भिः पारणं मासैरेभिंनिष्यादितं भवेत् ‍ ॥८॥

रक्तपुष्पैश्व चतुरो मासात्कृवींत चार्चंनम् ‍ । दहेतुः गुग्गुलु प्राश्य गोशृङ्गक्षालनं जलम् ‍ ॥९॥

हविष्याव्रं च नैव्रेद्यमात्मनश्वपि भोजनम् ‍ । ततश्व श्रूयतां पार्थ आषाढादौ तु या क्रिया ॥१०॥

जातीपुष्पाणि घूपश्व शस्तः सार्जरसो नृप । प्राश्य दर्भोदक चास्य शाल्यन्नं च निवेदनम् ‍ ॥११॥

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ‍ । कार्तिकादिषु मासेषु गोमूवं कायशोधनम् ‍ ॥१२॥

सुगन्धं चेच्छया धूपं पूजां भृङ्गारकेन च । कांसारं चाव्र नैवद्यमश्नीयातच्च वै स्वयम् ‍ ॥१३॥

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा । पारणं चेच्छया विष्णोः पारणं पावनं मतम् ‍ ॥१४॥

यथाशक्त्या यथाप्रीत्या वित्तशाठन्यं विवर्जर्यत् ‍ । सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१५॥

पारनान्ते यथाप्रीत्या स्त्रापितः पूजितो हरिः । प्रीणितश्वेप्सितान्कामांस्तान्ददात्यव्ययान्नृप ॥१६॥

वर्षान्ते प्रतिमामिष्टां कारयित्वा सुशोभनाम् ‍ । स्वर्णकां च यथाशक्त्या शङ्खशार्ङ्गबिभुषिताम् ‍ ॥१७॥

पुष्पवस्त्रयुगच्छव्रां ब्राह्मणाय निवेदयेत् ‍ । हादशब्राह्मणांस्तव्र भोजयित्वा क्षमापयेत् ‍ ॥१८॥

द्वादशाव्र प्रदातव्याः कुम्भाः सान्नजलाक्षताः । छव्रोपानाधुगेः सार्द्धं दक्षिणाभिश्व भारत ॥१९॥

पषा पुण्या पापहरा द्भादशी फलसिम्छताम् ‍ । यथाभिलषितान्कामान्ददाति नूपसत्तम ॥२०॥

पूरयस्यास्विलान्मक्त्या यतश्वैषां मनोरथात् ‍ मनोरथा द्वादशीयं ततो लोकेषु बिश्रुता ॥२१॥

उपोष्यैतां व्रिभुवनं लब्धमिन्द्रेण वै पुरा । आदित्याश्वेष्टिताः पुधा धनमौशनसा तथा ॥२२॥

धौम्येनाध्ययनं प्राप्तमन्यैश्वाभिमतं फलम ‍ । राजर्पिभिस्तथा बिप्रैः खीबिट्‍शूद्रैश्व भूतले ॥२३॥

यं यं काममभ्यध्याय व्रतमेतदुपोषितम् ‍ । तत्तदान्पोत्यसंदिग्धं विष्णोराराधनोद्यतः ॥२४॥

अपुव्रो लमेते पुव्रमधनो लभते धनम् ‍ । रोगाभिभूतश्वारोग्यं कन्या प्रान्पोति सत्पतिम् ‍ ॥२५॥

समागमं प्रवानैरुपोष्यैतामवाप्यते । सर्वान्कामानवान्पोति मृतः स्वर्गे च मोदते ॥२६॥

नापुव्रो नाघनो ज्येष्ठो वियोगी न च निर्गुणः । उपोष्यैतद्‍व्रतं मर्त्यः स्त्री शूद्रो वापि जायते ॥२७॥

स्वर्गलोके सहस्त्राणि वर्षाणामयुतानि च । भोगानभिमतान्भुक्त्त्वा तव्र तव्र यथेच्छया ॥२८॥

इह पुण्यवतां नृणां धनिनां लघुशालिनास् ‍ । गृहे प्रजायते राजन्सर्वव्याधिविवर्जितः ॥२९॥

न द्वादशीमुपवसन्ति मनोरथाख्यांनैवार्चयन्ति पुरुषोत्तममादिदेवम् ‍ । गोब्राह्यणांश्व न नमन्ति न पूजयन्ति ये ते मनोमिलषितं कथसान्पवन्ति ॥३०॥ [ ३३०२ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः ॥८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

coarse grating

  • स्थूल जालक 
  • भरड जाळी 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.