TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५५

उत्तर पर्व - अध्याय ५५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ५५

युधिष्ठिर उवाच ॥

जन्माष्टमौव्रत ब्रूहि विस्तरेण मामच्युत ॥ कस्मिन्कालै समुत्पन्नं किं पुण्यं को विधिः स्मृतः ॥१॥

श्रीकृष्ण उवाज ॥ हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर । देवकी मांष्यरिष्वज्य कृत्वोत्सङ्गए रुरोद ह ॥२॥

तव्रैव रङगभूमौ हि मञ्चारूढजनोत्सवे । मल्लयुद्धे पुरवृत्ते समेते कुकुरान्धके ॥३॥

स्वजनैर्बन्धुभिः स्त्रिग्धैः समं स्त्रीभिः समावृते । वसुदेवोऽपि तव्रैव वात्सल्यात्प्ररुरोद ह ॥४॥

समाकृष्य परिष्वज्य युव्र पुव्रेत्युवाच ह । समद्नदस्वरो दीनो बाष्पपर्याकुलेक्षणः ॥५॥

बलभद्रं च मां चैव परिष्वज्य मुदा पुनः । अद्य मे सफलं जन्म जीवितं यस्तुजीवितम् ‍ ॥६॥

यदुमाभ्यां सुपुव्राभ्यां समुद्भूतः समागमः । एवमुक्त्वा हि दाम्पत्यं ह्रष्ट पुष्टं तथा ह्यभूत् ‍ ॥७॥

प्रणिपत्य जनाः सर्वे बभूव्रुस्ते प्रहर्षिताः । एवं महोत्सव हष्ट‍वा मामाह सकलो जनः ॥८॥

प्रसादः क्रियतां नाथ लोकस्यास्य प्रसादतः । यस्मिन्दिने जगन्नाथ देवकी त्वामजीजनत् ‍ ॥९॥

तद्दिने देहि वैकुण्ठं कुर्मस्तव्रे नमो नमः । सम्यग्भक्तिप्रपन्नानां प्रसादं कुरु केशव ॥१०॥

एवमुक्ते जनौधेन वसुदेबोऽतिविस्मितः । विलोक्य बलमद्रं च मां च कृत्वा रुरोद ह ॥११॥

एवमस्त्विति लोकानां कथयस्व यथा तथा । ततश्व पितुरादेशात्तथा जन्माष्टमीव्रतम् ‍ ॥१२॥

मथुरायां जनौघाग्रे षार्थ सम्यक्प्रकाशितम् ‍ । पौरजना जन्मदिनं वर्षे वर्षे ममोदितम् ‍ ॥१३॥

पुनर्जन्माष्टमीं लोके कुर्व्रन्तु ब्राह्मणादयः । क्षव्रिया वैश्यजातीयाः शूद्रा येऽन्येऽपि धार्मिकाः ॥१४॥

सिंहराशिगते सूर्यं गगने जलदाकुले । मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धराव्रिके ॥१५॥

वृषराशिस्थिते चन्द्रे नक्षव्रे रोहिणीखुते । बसुदेवेन देवक्यामहं जातो जनाः स्वयम् ‍ ॥१६॥

एव्रमेतत्समाख्यातं लोके जन्माष्टमीव्रतम् ‍ । भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् ‍ ॥१७॥

मधुरायास्ततः पश्वाल्लोके ख्यातिं गमिष्यति । शान्तिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः ॥१८॥

युधिष्ठिर उवाच ॥ तत्कीद्दशं व्रतं देव लोकैः सर्वैरनुष्ठितम् ‍ । जन्माष्टमीव्रतं नाम पव्रिव्रं पुरुषोत्तम ॥१९॥

येन त्वं तुष्टिमायासि लोकानां प्रभुख्ययः । एतन्मे भगवन्ब्रूहि प्रसादान्मधुस्‍दन ॥२०॥

श्रीकृष्ण उवाच ॥ पार्थ तद्दिवचे प्राप्ते दष्तधावनपूर्वकम् ‍ । उपवासस्थ नियमं गृह्लीयाद्भक्तिभावितः ॥२१॥

एकेनैवोपवासेन कृतेन कुरुनन्दन । सर्वजन्मकृतं पापं मुच्यते नाव संशयः ॥२२॥

उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥२३॥

ततः स्त्रात्वा च मध्याह्र नद्यादौ विमले जले । देव्याः सुशोभनं कुर्याद्देवक्याः सूतिकागृहम् ‍ ॥२४॥

पद्मरागैः पव्रनेव्रैर्मण्डितं चर्मितं शुभैः । रम्यं तु वनमालाभी रक्षामणिविभूषितम् ‍ ॥२५॥

सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम् ‍ । घण्ठार्मदलसङ्गीतमाङ्गल्यकलशान्वितम् ‍ ॥२६॥

यावार्धं स्वस्तिकाकुडन्यैः शङ्खन्वादिव्र्सङ्‍कुलम् ‍ । बद्‍ध्वासुरालोहखड्रगैः प्रियच्छागसमन्वितम् ‍ ॥२७॥

धान्ये विन्यस्य मुशलं रक्षितं रक्षपालकैः । षष्ठन्या देव्याश्व संपूर्णैर्नैवेद्यौर्विविधैः कृतैः ॥२८॥

एवमादि यथाशेषं कर्तव्यं सूतिकागृहम् ‍ । एतन्मध्ये प्रतिष्ठाप्या सा चाप्यष्टविधा स्मृता ॥२९॥

काञ्चनी राजती ताग्नी पैत्तली मृन्मयी तथा । दार्वी मणिमयी चैव कर्णिका लिखिताथवा ॥३०॥

सर्वलक्षणसंपन्ना पर्यङ्के चार्द्धसुप्तिका । प्रतप्तकाञ्चनामासा मया सह तपस्विनी ॥३१॥

प्रस्तुता च प्रसूता च तत्क्षणाच्च प्रहर्षिता । मां चापि बालकं सुप्तं पर्यङ्के स्तनपायिनम् ‍ ॥३२॥

श्रीवस्तव्रक्षसं पूर्णं नीलोत्पलदलच्छव्रिम् ‍ । यशोदा चापि तव्रैव प्रसूता वाकन्यकाम् ‍ ॥३३॥

तव्र देवासुरा नागा यक्षबिद्याधरा नराः । प्रणताः पुण्यमालाग्रव्यग्रहस्ताः सुरासुराः ॥३४॥

संचरन्त इवाकाशे प्राकारैरुदितोदितैः । वसुदेवोऽपि तव्रैव खड्‍गचर्मधरः स्थितः ॥३५॥

कश्ययो वसुदेवोयमदितिश्वापि देवकी । शेषनागो बलीमद्रो यशोदादित्यजा यतः ॥३६॥

नन्दः प्रजापतिर्दक्षो गर्गश्वापि चतुर्मुखः । एषोऽबतारो राजेन्द्र कंसोऽयं कालनेमिजः ॥३७॥

तव्र कंसनियुक्ता ये दानव्रा विविधायुधाः । ते च प्राहरिकाः सर्वे सुप्ता निद्राविमोहिताः ॥३८॥

गोधेनुकुञ्जराश्वास्य दानवाः शस्त्रपाणयः । नृत्यन्त्यप्सरसो ह्रष्टा मन्धर्वा गीततत्पराः ॥३९॥

लेखनीयश्व तव्रैव कालियो यमुनाह्रदे । रम्यमेव विधिं कृत्वा देवकीं नवसूतिकाम् ‍ ॥४०॥

तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः । कूष्माण्डैर्नालिकैरैश्व खर्जूरैर्दाडिमीफलैः ॥४१॥

बीजपूरैः पूगफलैर्लकुचैस्त्रपुसैस्तथा । कलदेशोद्भवैर्भृष्टैः पुष्पैश्वापि युधिष्ठिर ॥४२॥

ध्यात्वावतारं प्रागुप्तं मन्व्रेणानेन पूजयेत् ‍ ॥४३॥

गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिमादैर्भृङ्गारादर्शकुम्भप्रवरकृतकरैः सेव्यमाना मुनीन्द्रैः । पर्यङ्के स्वास्तृते या मुदिततरमनाः पुव्रिणी सम्यगास्ते सा देवी देवमाता जयति सुव्रदना देवकी कान्तरूपा ॥४४॥

पादावभ्यञ्जयन्ती श्रीर्देवक्याश्वरणान्तिके । निषण्णा पङ्कजे पूज्या जमौ देव्यै च मन्व्रतः ॥४५॥

ॐ देवक्यै नमः ॥ ॐ व्रसुदेवाय नमः ॐ बलभद्राय नमः ॥ ॐ श्रीकृष्णाय नमः ॥ ॐ सुभद्रायै नमः ॥ ॐ नन्दाय नमः ॥ ॐ यशोदायै नमः ॥ एवमादीनि नामानि समुच्चार्य पृथक्पृथक ‍ । पूजयेयुर्द्विजाः सर्वे स्त्रीशूद्राणाममन्व्रकम् ‍ ॥४६॥

विध्यन्तरमपीच्छन्ति केचिदव्र द्विजोत्तमाः । चन्द्रोदये शशाङ्काय अर्धं दद्याद्धरिं स्मरेत् ‍ ॥४७॥

अनघं वामनं शौरिं वैकुण्ठं पुरुषात्तमम् ‍ ॥ वासुदेवं हृषीकेशं माधवं मधुसूदनम् ‍ ॥४८॥

वाराहं पुण्डरीकाक्षं नृसिंह ब्राह्मणप्रियम् ‍ । दामोदरं पद्मनाभं केशवं गरुडध्वजम् ‍ ॥४९॥

गोविन्दमच्युतं क्लष्णमनन्तमपराजितम् ‍ । अधोक्षजं जगद्वीजं सर्गस्थित्प्रन्तकारणम् ‍ ॥५०॥

अनादिनिधनं विष्णुं व्रैलोक्येशं व्रिविक्रमम् ‍ । नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ‍ ॥५१॥

षीपाम्वरधरं नित्यं वनमालाविभूषितम् ‍ । श्रीवत्साङ्कं जगत्सेतुं श्रीधरं श्रीपतिं हरिम् ‍ ॥५२॥

योगेश्वराय योगसंभवाय योगपतये गोविन्दाय नमो नमः । इति स्त्रानमन्व्रः ॥ यज्ञेश्वराय यज्ञसंभवाय यज्ञपतये गोविन्दाय नमो नमः ॥५३॥

इत्यनुलेपनार्घ्याद्यर्वनधूपमन्व्रः । विश्वाय विश्वेश्वराय विश्वसंभवाय विश्वपतये गोविन्दाय नमो नमः ॥५४॥

इति नैवेद्यमन्व्रः ॥ धर्मेश्वराय घर्मपतये धर्मसंभवाय गोविन्दाय नमो नमः ॥५५॥

इति दीपासनमन्व्रः ॥ क्षीरोदार्णवसंभूत अव्रिनेव्रसमुद्भव । गृहाणार्ध्यं शशाङ्केन्दो रोहिण्या सहितो मम ॥५६॥

स्थण्डिले स्थापयेद्देवं सचन्द्रां रोहिणीं तथा । देवकीं वसुदेवं च यशोदां नन्दमेव्र च ॥५७॥

बलदेवं तथा पूज्य सर्वपापैः प्रमुच्यते । अर्धराव्रे वसोर्धारां पातयेद्‍गुडसर्पिषा ॥५८॥

ततो वर्द्धापनं षष्ठी नामादिकरणं मम । कर्तव्यं तत्क्षणाद्राव्रौ प्रभाते नवमीदिने ॥५९॥

यथा मम तथा कार्यं भगवत्या महोत्सवम् ‍ । ब्राह्मणान्भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ‍ ॥६०॥

हिरण्यं काञ्चनं गावो वासांसि कुसुमानि च । यद्यदिष्टतमं तत्तत्कृष्णो मे प्रीयतामिति ॥६१॥

यदेवं देवकी देवी बसुदेवादजीजनत् ‍ । भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ॥६२॥

सुजन्मवासुदेवाय गोब्राह्मणहिताय च । शान्तिरस्तु शिवं चास्तु इत्युक्त्वा तु विसर्जयेत् ‍ ॥६३॥

एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम् ‍ । वर्षे वर्षे भगवतो मद्भक्तो धर्मनन्दन ॥६४॥

नरो वा यदि वा नारी यथोक्तफलमान्पुयात् ‍ । व्रसंतानमारोग्यं धनधान्यादिसदगृगम् ‍ ॥६५॥

शालीक्षुयवसंपूर्णमण्डलं सुमनोहरम् ‍ । तस्मिव्राष्ट्रे प्रभुर्भुङ्के दीर्घायुर्मनसेप्सितान् ‍ ॥६६॥

परचक्रमयं नास्ति तस्मिन्‍राज्येऽपि पाण्डव । षर्जन्यः कामवर्षी स्यादीमिभ्यो न भयं भवेत् ‍ ॥६७॥

यस्मिन्गृहे पाण्डुपुव्र कियते देवकीव्रतम् ‍ । न तव्र मृतनिष्क्रान्तिर्न गर्भपतनं तथा ॥६८॥

न च व्याधिभयं तव्र भवेदिति मतिर्म । न वैद्यजनंसंयोगो न चापि कलहो गृहे ॥६९॥

संपर्केपापियः काश्वित्कुर्याज्जन्माष्टमीव्रतम् ‍ । विष्णुलोकमव्रान्पोति सोऽपि पार्थ न संशयः ॥७०॥

जन्माष्टमी जनमनोनयनाभिरामा पापापहा सपदि नन्दितनन्दगोपा । यो देवकीं सदयितां यजतीह तस्यां पुव्रानवाप्य समुपैति पदं स विष्णोः ॥७१॥ [ २२७१ ]

इति श्रीभविष्ये महापुराण उत्तारपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जन्माष्टमीव्रतवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:23.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cellular spore

  • Bot. पेशी बीजाणु 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site