संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४९

विष्णुस्मृतिः - अध्यायः ४९

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


मार्गशीर्षशुक्लैकादश्यां उपोषितो द्वादश्यां भगवन्तं श्रीवासुदेवं अर्चयेत् ॥४९.१॥

पुष्पधूपानुलेपनदीपनैवेद्यैः वह्निब्राह्मणतर्पणैश्च ॥४९.२॥

व्रतं एतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥४९.३॥

यावज्जीवं कृत्वा श्वेतद्वीपं आप्नोति ॥४९.४॥

उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकं आप्नोति ॥४९.५॥

यावज्जीवं कृत्वा विष्णुलोकं ॥४९.६॥

एवं एव पञ्चदशीष्वपि ॥४९.७॥

ब्रह्मभूतं अमावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥४९.८॥

दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥४९.९॥

तस्यां दानोपवासाद्यं अक्षयं परिकीर्तितम् ।
तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता ॥४९.१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP