संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २

विष्णुस्मृतिः - अध्यायः २

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ओं । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः ॥२.१॥

तेषां आद्या द्विजातयस्त्रयः ॥२.२॥

तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः ॥२.३॥

तेषां च धर्माः ॥२.४॥

ब्राह्मणस्याध्यापनं ॥२.५॥

क्षत्रियस्य शस्त्रनित्यता ॥२.६॥

वैश्यस्य पशुपालनं ॥२.७॥

शूद्रस्य द्विजातिशुश्रूषा ॥२.८॥

द्विजानां यजनाध्ययने ॥२.९॥

अथैतेषां वृत्तयः ॥२.१०॥

ब्राह्मणस्य याजनप्रतिग्रहौ ॥२.११॥

क्षत्रियस्य क्षितित्राणं ॥२.१२॥

कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य ॥२.१३॥

शूद्रस्य सर्वशिल्पानि ॥२.१४॥

आपद्यनन्तरा वृत्तिः ॥२.१५॥

क्षमा सत्यं दमः शौचं दानं इन्द्रियसंयमः ।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥२.१६॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥२.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP