संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३३

विष्णुस्मृतिः - अध्यायः ३३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ॥३३.१॥

परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः ॥३३.२॥

तेनायं आक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते ॥३३.३॥

जातिभ्रंशकरेषु संकरीकरणेष्व् अपात्रीकरणेषु ॥३३.४॥

मलावहेषु प्रकीर्णकेषु च ॥३३.५॥

त्रिविधं नरकस्येदं द्वारं नाशनं आत्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् ॥३३.६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP