संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६९

विष्णुस्मृतिः - अध्यायः ६९

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियं उपेयात् ॥६९.१॥

न श्राद्धं भुक्त्वा ॥६९.२॥

न दत्त्वा ॥६९.३॥

नोपनिमन्त्रितः श्राद्धे ॥६९.४॥

न व्रती ॥६९.५॥

न दीक्षितः ॥६९.६॥

न देवायतनश्मशानशून्यालयेषु ॥६९.७॥

न वृक्षमूलेषु ॥६९.८॥

न दिवा ॥६९.९॥

न संध्ययोः ॥६९.१०॥

न मलिनां ॥६९.११॥

न मलिनः ॥६९.१२॥

नाभ्यक्तां ॥६९.१३॥

नाभ्यक्तः ॥६९.१४॥

न रोगार्तां ॥६९.१५॥

न रोगार्तः ॥६९.१६॥

न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् ।
नोपेयाद्गुर्विणीं नारीं दीर्घं आयुर्जिजीविषुः ॥६९.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP