संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४७

विष्णुस्मृतिः - अध्यायः ४७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ चान्द्रायणं ॥४७.१॥

ग्रासानविकारानश्नीयात् ॥४७.२॥

तांश्चन्द्रकलाभिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां नाश्नीयात् । एष चान्द्रायणो यवमध्यः ॥४७.३॥

पिपीलिकामध्यो वा ॥४७.४॥

यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः ॥४७.५॥

यस्य पौर्णमासी स यवमध्यः ॥४७.६॥

अष्टौ ग्रासान्प्रतिदिवसं मासं अश्नीयात्स यतिचान्द्रायणः ॥४७.७॥

सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः ॥४७.८॥

यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रायणः ॥४७.९॥

व्रतं एतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः ।
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥४७.१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP