संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७२

विष्णुस्मृतिः - अध्यायः ७२

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दमयमेन तिष्ठेत् ॥७२.१॥

दमश्चेन्द्रियाणां प्रकीर्तितः ॥७२.२॥

दान्तस्यायं लोकः परश्च ॥७२.३॥

नादान्तस्य क्रिया काचित्समृध्यति ॥७२.४॥

दमः पवित्रं परमं मङ्गल्यं परमं दमः ।
दमेन सर्वं आप्नोति यत्किंचिन्मनसेच्छति ॥७२.५॥

दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना ।
तं चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ॥७२.६॥

आपूर्यमाणं अचलप्रतिष्ठं समुद्रं आपः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिं आप्नोति न कामकामी ॥७२.७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP