संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४६

विष्णुस्मृतिः - अध्यायः ४६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ कृच्छ्राणि भवन्ति ॥४६.१॥

त्र्यहं नाश्नीयात् ॥४६.२॥

प्रत्यहं च त्रिषवणं स्नानं आचरेत् ॥४६.३॥

त्रिः प्रतिस्नानं अप्सु मज्जनं ॥४६.४॥

मग्नस्त्रिरघमर्षणं जपेत् ॥४६.५॥

दिवा स्थितस्तिष्ठेत् ॥४६.६॥

रात्रावासीनः ॥४६.७॥

कर्मणोऽन्ते पयस्विनीं दद्यात् ॥४६.८॥

इत्यघ्मर्षणं ॥४६.९॥

त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं अयाचितं अश्नीयात् । एष प्राजापत्यः ॥४६.१०॥

त्र्यहं उष्णाः पिबेदपस्त्र्यहं उष्णं घृतं त्र्यहं उष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः ॥४६.११॥

एतैरेव शीतैः शीतकृच्छ्रः ॥४६.१२॥

कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणं ॥४६.१३॥

उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः ॥४६.१४॥

बिसाभ्यवहारेण मूलकृच्छ्रः ॥४६.१५॥

बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः ॥४६.१६॥

पद्माक्षैर्वा ॥४६.१७॥

निराहारस्य द्वादशाहेन पराकः ॥४६.१८॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्येकदिवसं अश्नीयात् । द्वितीयं उपवसेत् । एतत्सांतपनं ॥४६.१९॥

गोमूत्रादिभिः प्रत्यहं अभ्यस्तैर्महासांतपनं ॥४६.२०॥

त्र्यहाभ्यस्तैश्चातिसांतपनं ॥४६.२१॥

पिण्याकाचामतक्रोदकसक्तूनां उपवासान्तरितोऽभ्यवहारस्तुलापुरुषः ॥४६.२२॥

कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥४६.२३॥

कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः ।
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥४६.२४॥

स्त्रीशूद्रपतितानां च वर्जयेच्चातिभाषणम् ।
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ॥४६.२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP