संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १००

विष्णुस्मृतिः - अध्यायः १००

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


धर्मशास्त्रं इदं श्रेष्ठं स्वयं देवेन भाषितम् ।
ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥१००.१॥

इदं पवित्रं मङ्गल्यं स्वर्ग्यं आयुष्यं एव च ।
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥१००.२॥

अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यं एव च ।
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ॥१००.३॥

य इदं पठते नित्यं भूतिकामो नरः सदा ।
इदं रहस्यं परमं कथितं च धरे तव ॥१००.४॥

मया प्रसन्नेन जगद्धितार्थं सौभाग्यं एतत्परमं यशस्यम् ।
दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् ॥१००.५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP