संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८१

विष्णुस्मृतिः - अध्यायः ८१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नान्नं आसनं आरोपयेत् ॥८१.१॥

न पदा स्पृशेत् ॥८१.२॥

नावक्षुतं कुर्यात् ॥८१.३॥

तिलैः सर्षपैर्वा यातुधानान्विसर्जयेत् ॥८१.४॥

संवृते च श्राद्धं कुर्यात् ॥८१.५॥

न रजस्वलां पश्येत् ॥८१.६॥

न श्वानं ॥८१.७॥

न विड्वराहं ॥८१.८॥

न ग्रामकुक्कुटं ॥८१.९॥

प्रयत्नात्श्राद्धं अजस्य दर्शयेत् ॥८१.१०॥

अश्नीयुर्ब्राह्मणाश्च वाग्यताः ॥८१.११॥

न वेष्टितशिरसः ॥८१.१२॥

न सोपानत्काः ॥८१.१३॥

न पीठोपहितपादाः ॥८१.१४॥

न हीनाङ्गा अधिकाङ्गाः श्राद्धं पश्येयुः ॥८१.१५॥

न शूद्राः ॥८१.१६॥

न पतिताः ॥८१.१७॥

न महारोगिणः ॥८१.१८॥

तत्कालं ब्राह्मणं ब्राह्मणानुमतेन भिक्षुकं वा पूजयेत् ॥८१.१९॥

हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः ॥८१.२०॥

यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः ।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥८१.२१॥

सार्ववर्णिकं अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतां अग्रतो विकिरन्भुवि ॥८१.२२॥

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥८१.२३॥

उच्छेषणं भूमिगतं अजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥८१.२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP