संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५८

विष्णुस्मृतिः - अध्यायः ५८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति ॥५८.१॥

शुक्लः शबलोऽसितश्च ॥५८.२॥

शुक्लेनार्थेन यद्+और्ध्वदेहिकं करोति तेनास्य देवत्वं आसादयति ॥५८.३॥

यच्छबलेन तन्मानुष्यं ॥५८.४॥

यत्कृष्णेन तत्तिर्यक्त्वं ॥५८.५॥

स्ववृत्त्युपार्जितं सर्वेषां शुक्लं ॥५८.६॥

अनन्तरवृत्त्युपात्तं शबलं ॥५८.७॥

एकान्तरितवृत्त्युपात्तं च कृष्णं ॥५८.८॥

क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुक्लं उदाहृतम् ॥५८.९॥

उत्कोचशुल्कसंप्राप्तं अविक्रेयस्य विक्रयैः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥५८.१०॥

पार्श्विकद्यूतचौर्याप्त प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥५८.११॥

यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधं अवाप्नोति स फलं प्रेत्य चेह च ॥५८.१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP