संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः १७ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः १७ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः १७ Translation - भाषांतर पिता चेत्पुत्रान्विभजेत्तस्य स्वेच्छा स्वयं उपार्जितेऽर्थे ॥१७.१॥पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वं ॥१७.२॥पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः ॥१७.३॥अपुत्रधनं पत्न्यभिगामि ॥१७.४॥तदभावे दुहितृगामि ॥१७.५॥तदभावे पितृगामि ॥१७.६॥तदभावे मातृगामि ॥१७.७॥तदभावे भ्रातृगामि ॥१७.८॥तदभावे भ्रातृपुत्रगामि ॥१७.९॥तदभावे बन्धुगामि ॥१७.१०॥तदभावे सकुल्यगामि ॥१७.११॥तदभावे सहाध्यायिगामि ॥१७.१२॥तदभावे ब्राह्मणधनवर्जं राजगामि ॥१७.१३॥ब्राह्मणार्थो ब्राह्मणानां ॥१७.१४॥वानप्रस्थधनं आचार्यो गृह्णीयात् ॥१७.१५॥शिष्यो वा ॥१७.१६॥संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥१७.१७॥पितृमातृसुतभ्रातृदत्तम्, अध्यग्न्युपागतम्, आधिवेदनिकं, बन्धुदत्तं, शुल्कम्, अन्वाधेयकं इति स्त्रीधनं ॥१७.१८॥ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायां अतीतायां तद्भर्तुः ॥१७.१९॥शेषेषु च पिता हरेत् ॥१७.२०॥सर्वेष्वेव प्रसूतायां यद्धनं तत्दुहितृगामि ॥१७.२१॥पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥१७.२२॥अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना ।यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ॥१७.२३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP