संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९१

विष्णुस्मृतिः - अध्यायः ९१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति ॥९१.१॥

तडागकृन्नित्यतृप्तो वारुणं लोकं अश्नुते ॥९१.२॥

जलप्रदः सदा तृप्तो भवति ॥९१.३॥

वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति ॥९१.४॥

वृक्षप्रदो वृक्षप्रसूनैर्देवान्प्रीणयति ॥९१.५॥

फलैश्चातिथीन् ॥९१.६॥

छायया चाभ्यागतान् ॥९१.७॥

देवे वर्षत्युदकेन पितॄन् ॥९१.८॥

सेतुकृत्स्वर्गं आप्नोति ॥९१.९॥

देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकं आप्नोति ॥९१.१०॥

सुधासिक्तं कृत्वा यशसा विराजते ॥९१.११॥

विचित्रं कृत्वा गन्धर्वलोकं आप्नोति ॥९१.१२॥

पुष्पप्रदानेन श्रीमान्भवति ॥९१.१३॥

अनुलेपनप्रदानेन कीर्तिमान् ॥९१.१४॥

दीपप्रदानेन चक्षुष्मान्सर्वत्रोज्ज्वलश्च ॥९१.१५॥

अन्नप्रदानेन बलवान् ॥९१.१६॥

देवनिर्माल्यापनयनात्गोदानफलं आप्नोति ॥९१.१७॥

देवगृहमार्जनात्तदुपलेपनात्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च ॥९१.१८॥

कूपारामतडागेषु देवतायतनेषु च ।
पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥९१.१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP