संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७५

विष्णुस्मृतिः - अध्यायः ७५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् ॥७५.१॥

पितरि पितामहे च जीवति येषां पितामहः ॥७५.२॥

पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् ॥७५.३॥

यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् ॥७५.४॥

यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् ॥७५.५॥

यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ॥७५.६॥

मातामहानां अप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥७५.७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP