संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २६

विष्णुस्मृतिः - अध्यायः २६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सवर्णासु बहुभार्यासु विद्यमानासु *ज्येष्ठया सह धर्मकार्यं कुर्यात्[ज्येष्टया] ॥२६.१॥

मिश्रासु च कनिष्ठयापि समानवर्णया ॥२६.२॥

समानवर्णाया अभावे त्वनन्तरयैवाप्दि च ॥२६.३॥

न त्वेव द्विजः शूद्रया ॥२६.४॥

द्विजस्य भार्या शूद्रा तु धर्मार्थं न क्वचिद्भवेत् ।
रत्यर्थं एव सा तस्य रागान्धस्य प्रकीर्तिता ॥२६.५॥

हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥२६.६॥

दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥२६.७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP