संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३७

विष्णुस्मृतिः - अध्यायः ३७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अनृतवचनं उत्कर्षे ॥३७.१॥

राजगामि पैशुन्यं ॥३७.२॥

गुरोश्चालीकनिर्बन्धः ॥३७.३॥

वेदनिन्दा ॥३७.४॥

अधीतस्य च त्यागः ॥३७.५॥

अग्निपितृमातृसुतदाराणां च ॥३७.६॥

अभोज्यान्नाभक्ष्यभक्षणं ॥३७.७॥

परस्वापहरणं ॥३७.८॥

परदाराभिगमनं ॥३७.९॥

अयाज्ययाजनं ॥३७.१०॥

विकर्मजीवनं ॥३७.११॥

असत्प्रतिग्रहश्च ॥३७.१२॥

क्षत्रविट्शूद्रगोवधः ॥३७.१३॥

अविक्रेयविक्रयः ॥३७.१४॥

परिवित्तितानुजेन ज्येष्ठस्य ॥३७.१५॥

परिवेदनं ॥३७.१६॥

तस्य च कन्यादानं ॥३७.१७॥

याजनं च ॥३७.१८॥

व्रात्यता ॥३७.१९॥

भृतकाध्यापनं ॥३७.२०॥

भृतकाच्चाध्ययनादानं ॥३७.२१॥

सर्वाकरेष्वधीकारः ॥३७.२२॥

महायन्त्रप्रवर्तनं ॥३७.२३॥

द्रुमगुल्मवल्लीलतौषधीनां हिंसा ॥३७.२४॥

स्त्र्या जीवनं ॥३७.२५॥

अभिचारबलकर्मसु च प्रवृत्तिः ॥३७.२६॥

आत्मार्थे क्रियारम्भः ॥३७.२७॥

अनाहिताग्निता ॥३७.२८॥

देवर्षिपितृऋणानां अनपक्रिया ॥३७.२९॥

असत्शास्त्राभिगमनं ॥३७.३०॥

नास्तिकता ॥३७.३१॥

कुशीलवता ॥३७.३२॥

मद्यपस्त्रीनिषेवणं ॥३७.३३॥

इत्युपपातकानि ॥३७.३४॥

उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।
पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा ॥३७.३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP