संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५२

विष्णुस्मृतिः - अध्यायः ५२

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलं अर्पयेत् ॥५२.१॥

वधात्त्यागाद्वा प्रयतो भवति ॥५२.२॥

महाव्रतं द्वादशाब्दानि वा कुर्यात् ॥५२.३॥

निक्षेपापहारी च ॥५२.४॥

धान्यधनापहारी च कृच्छ्रं अब्दं ॥५२.५॥

मनुष्यस्त्रीकूपक्षेत्रवापीनां अपहारे चान्द्रायणं ॥५२.६॥

द्रव्याणां अल्पसाराणां सांतपनं ॥५२.७॥

भक्ष्यभोज्ययानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानं ॥५२.८॥
तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रं उपवसेत् ॥५२.९॥

मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् ॥५२.१०॥

कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत ॥५२.११॥

द्विशफैकशफापहरणे द्विरात्रं उपवसेत् ॥५२.१२॥

पक्षिगन्धौषधिरज्जुवैदलानां अपहरणे दिनं उपवसेत् ॥५२.१३॥

दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः ।
प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये ॥५२.१४॥

यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः ।
तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ॥५२.१५॥

जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ ।
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥५२.१६॥

प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा ।
महद्दुःखं अवाप्नोति धनहिंसापरस्तयोः ॥५२.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP