संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २०

विष्णुस्मृतिः - अध्यायः २०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यदुत्तरायणं तदहर्देवानां ॥२०.१॥

दक्षिणायनं रात्रिः ॥२०.२॥

संवत्सरोऽहोरात्रः ॥२०.३॥

तत्त्रिंशता मासाः ॥२०.४॥

मासा द्वादश वर्षं ॥२०.५॥

द्वादश वर्षशतानि दिव्यानि कलियुगं ॥२०.६॥

द्विगुणानि द्वापरं ॥२०.७॥

त्रिगुणानि त्रेता ॥२०.८॥

चतुर्गुणानि कृतयुगं ॥२०.९॥

द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगं ॥२०.१०॥

चतुर्युगाणां एकसप्ततिर्मन्वन्तरं ॥२०.११॥

चतुर्युगसहस्रं च कल्पः ॥२०.१२॥

स च पितामहस्याहः ॥२०.१३॥

तावती चास्य रात्रिः ॥२०.१४॥

एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतं आयुः ॥२०.१५॥

ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः ॥२०.१६॥

तस्यान्ते महाकल्पः ॥२०.१७॥

तावत्येवास्य निशा ॥२०.१८॥

पौरूषेयाणां अहोरात्राणां अतीतानां संख्यैव नास्ति ॥२०.१९॥

न च भविष्याणां ॥२०.२०॥

अनाद्यन्तत्वात्कालस्य ॥२०.२१॥

एवं अस्मिन्निरालम्बे काले सततयायिनि ।
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥२०.२२॥

गङ्गायाः सिकता धारास्तथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥२०.२३॥

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः ।
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥२०.२४॥

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।
विनष्तानीह कालेन मनुजेष्वथ का कथा ॥२०.२५॥

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥२०.२६॥

ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे ।
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः ॥२०.२७॥

आक्रम्य सर्वः कालेन परलोकं च नीयते ।
कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥२०.२८॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥२०.२९॥

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः ।
अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः ॥२०.३०॥

सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ॥२०.३१॥

बान्धवानां अशौचे तु स्थितिं प्रेतो न विन्दति ।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥२०.३२॥

अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः ।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥२०.३३॥

पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम् ।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥२०.३४॥

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥२०.३५॥

प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥२०.३६॥

एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च ॥२०.३७॥

दृष्ट्वा लोकं अनाक्रन्दं म्रियमाणांश्च बान्धवान् ।
धर्मं एकं सहायार्थं वरयध्वं सदा नराः ॥२०.३८॥

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥२०.३९॥

धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम् ।
नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत मा चिरम् ॥२०.४०॥

श्वः कार्यं अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥२०.४१॥

क्षेत्रापणगृहासक्तं अन्यत्र गतमानसम् ।
वृकीवोरणं आसाद्य मृत्युरादाय गच्छति ॥२०.४२॥

न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥२०.४३॥

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति ॥२०.४४॥

नौशधानि न मन्त्राश्च न होमा न पुनर्जपाः ।
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥२०.४५॥

आगामिनं अनर्थं हि प्रविधानशतैरपि ।
न निवारयितुं शक्तस्तत्र का परिदेवना ॥२०.४६॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥२०.४७॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२०.४८॥

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तह्ता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२०.४९॥

गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः ।
गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ॥२०.५०॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२०.५१॥

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२०.५२॥

अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयं उच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुं अर्हथ ॥२०.५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP