संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५१

विष्णुस्मृतिः - अध्यायः ५१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सुरापः सर्वकर्मवर्जितः कणान्वर्षं अश्नीयात् ॥५१.१॥

मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥५१.२॥

लशुनपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च ॥५१.३॥

सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् ॥५१.४॥

वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि ॥५१.५॥

शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रं उपवसेत् ॥५१.६॥

गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ॥५१.७॥

तक्षकान्नं चर्मकर्तुश्च ॥५१.८॥

वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां च ॥५१.९॥

पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च ॥५१.१०॥

अवीरस्त्री सुवर्णकारसपत्नपतितानां च ॥५१.११॥

पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणां च ॥५१.१२॥

शैलूषतन्तुवायकृतघ्नरजकानां च ॥५१.१३॥

कर्मकारनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां च ॥५१.१४॥

श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च ॥५१.१५॥

रजस्वलासहोपपतिवेश्मानां च ॥५१.१६॥

भ्रूणघ्नावेक्षितं उदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च ॥५१.१७॥

कामतः पदा स्पृष्टं अवक्षुतं ॥५१.१८॥

मत्तक्रुद्धातुराणां च ॥५१.१९॥

अनर्चितं वृथा मांसं च ॥५१.२०॥

पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रं उपवसेत् ॥५१.२१॥

सर्वजलजमांसाशने च ॥५१.२२॥

आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् ॥५१.२३॥

मद्यभाण्डस्थाश्च पञ्चरात्रं ॥५१.२४॥

सोमपः सुरापस्याघ्राय गन्धं उदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनं आचरेत् ॥५१.२५॥

खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्यात् ॥५१.२६॥

प्राश्याज्ञातं सूनास्थं शुष्कमांसं च ॥५१.२७॥

क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रं ॥५१.२८॥

कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाबकबलाकाकोकिलखञ्जरीटाशने त्रिरात्रं उपवसेत् ॥५१.२९॥

एकशफोभयदन्ताशने च ॥५१.३०॥

तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रं ॥५१.३१॥

कीटाशने दिनं एकं ब्रह्मसुवर्चलां पिबेत् ॥५१.३२॥

शुनां मांसाशने च ॥५१.३३॥

छत्राककवकाशने सांतपनं ॥५१.३४॥

यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवं च वर्जयित्वा यत्पर्युषितं तत्प्राश्योपवसेत् ॥५१.३५॥

व्रश्चनामेध्यप्रभवान्लोहितांश्च वृक्षनिर्यासान् ॥५१.३६॥

शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ॥५१.३७॥

गोअजामहिषीवर्जं सर्वपयांसि च ॥५१.३८॥

अनिर्दशाहानि तान्यपि ॥५१.३९॥

स्यन्दिनीसन्धिनीविवत्साक्षीरं च ॥५१.४०॥

अमेध्यभुजश्च ॥५१.४१॥

दधिवर्जं केवलानि च शुक्तानि ॥५१.४२॥

ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रं उपवसेत् ॥५१.४३॥

दिनं एकं चोदके वसेत् ॥५१.४४॥

मधुमांसाशने प्राजापत्यं ॥५१.४५॥

बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् ॥५१.४६॥

श्वोच्छिष्टाशने दिनं एकं उपोषितः पञ्चगव्यं पिबेत् ॥५१.४७॥

पञ्चनखविण्मूत्राशने सप्तरात्रं ॥५१.४८॥

आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ॥५१.४९॥

ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं ॥५१.५०॥

वैश्योच्छिष्टाशने पञ्चरात्रं ॥५१.५१॥

राजन्योच्छिष्टाशने त्रिरात्रं ॥५१.५२॥

ब्राह्मणोच्छिष्टाशने त्वेकाहं ॥५१.५३॥

राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रं ॥५१.५४॥

वैश्योच्छिष्टाशी त्रिरात्रं ॥५१.५५॥

वैश्यः शूद्रोच्छिष्टाशी च ॥५१.५६॥

चण्डालान्नं भुक्त्वा त्रिरात्रं उपवसेत् ॥५१.५७॥

सिद्धं भुक्त्वा पराकः ॥५१.५८॥

असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिं आस्थितः ॥५१.५९॥

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।
वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥५१.६०॥

यज्ञार्थं पशवः सृष्टाः स्वयं एव स्वयंभुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥५१.६१॥

न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथा मांसानि खादतः ॥५१.६२॥

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥५१.६३॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ॥५१.६४॥

यज्ञार्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः ।
आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥५१.६५॥

गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।
नावेदविहितां हिंसां आपद्यपि समाचरेत् ॥५१.६६॥

या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसां एव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥५१.६७॥

योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखं एधते ॥५१.६८॥

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखं अत्यन्तं अश्नुते ॥५१.६९॥

यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥५१.७०॥

नाकृत्वा प्राणिनां हिंसां मांसं उत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥५१.७१॥

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥५१.७२॥

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥५१.७३॥

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥५१.७४॥

स्वमांसं परमांसेन यो वर्धयितुं इच्छति ।
अनभ्यर्च्य पितॄन्देवान्न ततोऽन्योऽस्त्यपुण्यकृत् ॥५१.७५॥

वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥५१.७६॥

फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलं अवाप्नोति यन्मांसपरिवर्जनात् ॥५१.७७॥

मां स भक्षयितामुत्र यस्य मांसं इहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥५१.७८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP