संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २७

विष्णुस्मृतिः - अध्यायः २७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


गर्भस्य स्पष्टताज्ञाने निषेककर्म ॥२७.१॥

स्पन्दनात्पुरा पुंसवनं ॥२७.२॥

*षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनं [पष्ठे] ॥२७.३॥

जाते च दारके जातकर्म ॥२७.४॥

आशौचव्यपगमे नामधेयं ॥२७.५॥

मङ्गल्यं ब्राहमणस्य ॥२७.६॥

बलवत्क्षत्रियस्य ॥२७.७॥

धनोपेतं वैश्यस्य ॥२७.८॥

जुगुप्सितं शूद्रस्य ॥२७.९॥

चतुर्थे मास्यादित्यदर्शनं ॥२७.१०॥

षष्ठेऽन्नप्राशनं ॥२७.११॥

तृतीयेऽब्दे चूडाकरणं ॥२७.१२॥

एता एव क्रियाः स्त्रीणां अमन्त्रकाः ॥२७.१३॥

तासां समन्त्रको विवाहः ॥२७.१४॥

गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनं ॥२७.१५॥

गर्भैकादशे राज्ञः ॥२७.१६॥

गर्भद्वादशे विशः ॥२७.१७॥

तेषां मुञ्जज्याबल्बजमय्यो मौञ्ज्यः ॥२७.१८॥

कार्पासशाणाविकान्युपवीतानि वासांसि च ॥२७.१९॥

मार्गवैयाघ्रबास्तानि चर्माणि ॥२७.२०॥

पालाशखादिरौदुम्बरा दण्डाः ॥२७.२१॥

केशान्तललाटनासादेशतुल्याः ॥२७.२२॥

सर्व एव वा ॥२७.२३॥

अकुटिलाः सत्वचश्च ॥२७.२४॥

भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरनं ॥२७.२५॥

आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥२७.२६॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालं असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥२७.२७॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥२७.२८॥

मेखलां अजिनं दण्डं उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥२७.२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP