संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५३

विष्णुस्मृतिः - अध्यायः ५३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् ॥५३.१॥

परदारगमने च ॥५३.२॥

गोव्रतं गोगमने च ॥५३.३॥

पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानं आचरेत् ॥५३.४॥

चण्डालीगमने तत्साम्यं आप्नुयात् ॥५३.५॥

अज्ञानतश्चान्द्रायणद्वयं कुर्यात् ॥५३.६॥

पशुवेश्यागमने च प्राजापत्यं ॥५३.७॥

सकृद्दुष्टा च स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् ॥५३.८॥

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥५३.९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP