अध्यायः ३८
शैलादिरुवाच ॥
गते महेश्वरे देवे तमुद्दिश्य जनार्दनः ॥
प्रणम्य भगवान्प्राह पद्मयोनिमजोद्भवः ॥१॥
श्रीविष्णुरुवाच ॥
परमेशो जगन्नाथः शंकरस्त्वेष सर्वगः ॥
आवयोरखिलस्येशः शरणं च महेश्वरः ॥२॥
अहं वामांगजो ब्रह्मन् शंकरस्य महात्मनः ॥
भवान् भवस्य देवस्य दक्षिणांगभवः स्वयम् ॥३॥
मामाहुर्ऋषयः प्रेक्ष्य प्रधानं प्रकृतिं तथा ॥
अव्यक्तमजमित्येवं भवंतं पुरुषस्त्विति ॥४॥
एवमाहुर्महादेवमावयोरपि कारणम् ॥
इशं सर्वस्य जगतः प्रभुमव्ययमीश्वरम् ॥५॥
सोपि तस्यामरेशस्य वचनाद्वारिजोद्भवः ॥
वरेण्यं वरदं रुद्रमस्तुवत्प्रणनाम च ॥६॥
अथाम्भसा प्लुतां भूमीं समाधाय जनार्दनः ॥
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः ॥७॥
नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः ॥
कृत्वा चोर्वी प्रयत्नेन निम्नोन्नतविवर्जिताम् ॥८॥
धरायां सोचिनोत्सर्वान् भूधरान् भूधराकृतिः ॥
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥९॥
स्रष्टुं च भगवाँश्चक्रे मतिं मतिमतां वरः ॥
मुख्यं च तैर्यग्योन्यं चं दैविकं मानुषं तथा ॥१०॥
विभुश्चानुग्रहं तत्र कौमारकमदीनधीः ॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा ॥११॥
सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम् ॥
मरीचिभृग्वंगिरसं पुलस्त्यं पुलहं क्रतुम् ॥१२॥
दक्षमत्रिं वसिष्ठं च सोसृजद्योगविद्यया ॥
संकल्पं चैव धर्मं च ह्यधर्मं भगवान्प्रभुः ॥१३॥
द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः ॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः ॥१४॥
तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजो ब्रह्मवादिनौ ॥
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ ॥१५॥
एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन ॥
युगधर्मानशेषांश्च कल्पयामास विश्वसृक् ॥१६॥
इति श्रीलिंगमहापुराणे पूर्वभागे वैष्णवकथनं नामाष्टत्रिंशोऽध्यायः ॥३८॥
Translation - भाषांतर
N/A