TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४१

पूर्वभागः - अध्यायः ४१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ४१
इन्द्र उवाच ॥
पुनः ससर्ज भगवान्प्रभ्रष्टाः पूर्ववत्प्रजाः ॥
सहस्रयुगपर्यंते प्रभाते तु पितामहः ॥१॥

एवं परार्धे विप्रेंद्व द्विगुणे तु तथा गते ॥
तदा धराम्भसि व्याप्ता ह्यापो वह्नौ समीरणे ॥२॥

वह्निः समीरणश्चैव व्योम्नि तन्मात्रसंयुतः ॥
इंद्रियाणि दशैकं च तन्मात्राणि द्विजोत्तम ॥३॥

अहंकारमनुप्राप्य प्रलीनास्तत्क्षणादहो ॥
अभिमानस्तदा तत्र महान्तं व्याप्य वै क्षणात् ॥४॥

महानपि तथा व्यक्तं प्राप्य लीनोभवद्द्विज ॥
अव्यक्तं स्वगुणैः सार्धं प्रलीनमभवद्भवे ॥५॥

ततः सृष्टिरभूत्तस्मात्पूर्ववत्पुरुषाच्छिवात् ॥
अथ सृष्टास्तदा तस्य मनसा तेन मानसाः ॥६॥

न व्यवर्धंत लोकेऽस्मिन्प्रजाः कमलयोनिना ॥
वृद्ध्यर्थं भगवान्ब्रह्मा पुत्रैर्वै मानसैः सह ॥७॥

दुश्चरं विचचारेशं समुद्दिश्य तपः स्वयम् ॥
तुष्टस्तु तपसा तस्य भवो ज्ञात्वा स वाञ्छितम् ॥८॥

ललाटमध्यं निर्भिद्य ब्रह्मणः पुरुषस्य तु ॥
पुत्रस्नेहमिति प्रोच्य स्त्रीपुंरुपोभवत्तदा ॥९॥

तस्य पुत्रो महादेवो ह्यर्धनारीश्वरोभवत् ॥
ददाह भगवान्सर्वं ब्रह्माणं च जगद्गुरुम् ॥१०॥

अथार्धमात्रां कल्याणीमात्मनः परमेश्वरीम् ॥
बुभुजे योगमार्गेण वृद्ध्यर्थं जगतां शिवः ॥११॥

तस्यां हरिं च ब्रह्माणं ससर्ज परमेश्वरः ॥
विश्वेश्वरस्तु विश्वात्मा चास्त्रां पाशुपतं तथा ॥१२॥

तस्माद्ब्रह्मा महादेव्याश्चांशजश्च हरिस्तथा ॥
अंडजः पद्मजश्चैव भवांगभव एव च ॥१३॥

एतत्ते कथितं सर्वमितिहासं पुरातनम् ॥
परार्धं ब्रह्मणो यावत्तावद्भूतिः समासतः ॥१४॥

वैराग्यं ब्रह्मणो वक्ष्ये तमोद्भूतं समासतः ॥
नारायणोपि भगवान्द्विधा कृत्वात्मनस्तनुम् ॥१५॥

ससर्ज सकलं तस्मात्स्वांगादेव चराचरम् ॥
ततो ब्रह्माणमसृजद्ब्रह्मा रुद्रं पितामहः ॥१६॥

मुने कल्पांतरे रुद्रो हरिं ब्रह्माणमीश्वरम् ॥
ततो ब्रह्माणमंसृजन्मुने कल्पांतरे हरिः ॥१७॥

नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः ॥
तदा विचार्य वै ब्रह्मा दुःखं संसार इत्यजः ॥१८॥

सर्गं विसृज्य चात्मानमात्मन्येव नियोज्य च ॥
संहृत्य प्राणसञ्चारं पाषाण इव निश्चलः ॥१९॥

दशवर्षसहस्राणि समाधिस्थोऽभवत्प्रभुः ॥
अधोमुखं तु यत्पद्मं हृदि संस्थं सुशोभनम् ॥२०॥

पूरितं पूरकेणैव प्रबुद्धं चाभवत्तदा ॥
तदूर्ध्ववक्त्रमभवत्कुंभकेन निरोधितम् ॥२१॥

तत्पद्मकर्णिकामध्ये स्थापयामास चेश्वरम् ॥
तदोमिति शिवं देवमर्धमात्रापरं परम् ॥२२॥

मृणालतन्तुभागैकशतभागे व्यवस्तितम् ॥
यमी यमविशुद्धात्मा नियम्यैवं हृदीश्वरम् ॥२३॥

यमपुष्पादिभिः पूज्यं याज्यो ह्ययजदव्ययम् ॥
तस्य हृत्कमल स्थस्य नियोगाच्चांशजो विभुः ॥२४॥

ललाटमस्य निर्भिद्य प्रादुरासीत्पितामहात् ॥
लोहितोऽभूतस्वयं नीलः शिवस्य हृदयोद्भवः ॥२५॥

वह्नेश्चैव तु संयोगात्प्रकृत्य पुरुषः प्रभुः ॥
नीलश्च लोहितश्चैव यतः कालाकृतिः पुमान् ॥२६॥

नीललोहित इत्युक्तस्तेन देवेन वै प्रभुः ॥
ब्रह्मणा भगवान्कालः प्रीतात्मा चाभवद्विभुः ॥२७॥

सुप्रीतमनसं देवं तुष्टाव च पितामहः ॥
नामाष्टकेन विश्वात्मा विश्वात्मानं महामुने ॥२८॥

पितामह उवाच ॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥
नमो भवाय देवाय रसायाम्बुमयाय ते ॥२९॥

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ॥
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः ॥३०॥

पशूनां पतये चैव पावकायातितेजसे ॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥३१॥

महादेवाय सोमाय अमृताय नमोस्तु ते ॥
उग्राय यजमानाय नमस्ते कर्मयोगिने ॥३२॥

यः पठेच्छृणुयाद्वापि पैता महमिमं स्तवम् ॥
रुद्राय कथितं विप्राञ्श्रावयेद्वा समाहितः ॥३३॥

अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात् ॥
एवं स्तुत्वामहादेवमवैक्षत पितामहः ॥३४॥

तदाष्टधा महादेवः समातिष्ठत्समंततः ॥
तदा प्रकाशते भानुः कृष्णवर्त्मा निशाकरः ॥३५॥

क्षितिर्वायुः पुमानंभः सुषिरं सर्वगं तथा ॥
तदाप्रभृति तं प्राहृरष्टमूर्तिरितीश्वरम् ॥३६॥

अष्टमूर्तेः प्रसादेन विरंचिश्चासृजत्पुनः ॥
सृष्ट्वैतदखिलं ब्रह्मा पुनः कल्पांतरे प्रभुः ॥३७॥

सहस्रयुगपर्यंतं संसुप्ते च चराचरे ॥
प्रजाः स्रष्टुमनास्तेपे तत उग्रं तपो महत् ॥३८॥

तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥३९॥

क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥
ततस्तेभ्योश्रुबिंदुभ्यो भूताः प्रेतास्तदाभवन् ॥४०॥

सर्वांस्तानग्रजान्दृष्ट्वा भूतप्रेतनिशाचरान् ॥
अनिंदत तदा देवो ब्रह्मात्मानमजो विभुः ॥४१॥

जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥
ततः प्राणमयो रुद्रः प्रादुरासीत्प्रभोर्मुखात् ॥४२॥

अर्धनारीश्वरो भूत्वा बालार्कसदृशद्युतिः ॥
तदैकादशधात्मानं प्रविभज्य व्यवस्तितः ॥४३॥

अर्धेनांशेन सर्वात्मा ससर्जासौ शिवामुमाम् ॥
सा चासृजत्तदा लक्ष्मीं दुर्गां श्रेष्ठां सरस्वतीम् ॥४४॥

वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम् ॥
कलां विकरिणीं चैव कालीं कमल वासिनीम् ॥४५॥

बलविकरिणीं देवीं बलप्रमथिनीं तथा ॥
सर्वभूतस्य दमनीं ससृजे च मनोन्मनीम् ॥४६॥

तथान्या बहवः सृष्टा स्तया नार्यः सहस्रशः ॥
रुद्रैश्चैव महादेवस्ताभिस्त्रिभुवनेश्वरः ॥४७॥

सर्वात्मनश्च तस्याग्रे ह्यतिष्ठत्परमेश्वरः ॥
मृतस्य तस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥४८॥

घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥
ब्रह्मणः प्रददौ प्राणानात्मस्थांस्तु तदा प्रभुः ॥४९॥

प्रहृष्टो भूत्ततो रुद्रः किंचित्प्रत्यागतासवम् ॥
अभ्यभाषत देवेशो ब्रह्माणं परमं वचः ॥५०॥

मा भैर्देव महाभाग विरिंच जगतां गुरो ॥
मयेह स्थापिताः प्राणास्तस्मादुत्तिष्ठ वै प्रभा ॥५१॥

श्रुत्वा वचस्ततस्तस्य स्वप्नभूतं मनोगतम् ॥
पितामहः प्रसन्नात्मा नेत्रैः फुल्लांबुज प्रभैः ॥५२॥

ततः प्रत्यागतप्राणः समुदैक्षन्महेश्वरम् ॥
स उद्वीक्ष्य चिरं कालं स्निग्धगंभीरया गिरा ॥५३॥

उवाच भगवान् ब्रह्मा समुत्थाय कृतांजलिः ॥
भो भो वद महाभाग आनंदयसि मे मनः ॥५४॥

को भवानष्टमूर्तिर्वै स्थित एकादशात्मकः ॥
इंद्र उवाच ॥
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥५५॥

स्पृशन्कराभ्यां ब्रह्माणं सुखाभ्यां स सुरारिहा ॥
श्रीशंकर उवाच ॥
मां विद्धि परमात्मानमेनां मायामजामिति ॥५६॥

एते वै संस्थिता रुद्रास्त्वां रक्षितुमिहागताः ॥
ततः प्रणम्य तं ब्रह्मा देवदेवमुवाच ह ॥५७॥

कृतांजलिपुटो भूत्वा हर्षगद्गदया गिरा ॥
भगवन्देवदेवेश दुःखैराकुलितो ह्यहम् ॥५८॥

संसारान्मोक्तुमीशान मामिहार्हसि शंकर ॥
ततः प्रहस्य भगवान्पितामहमुमापतिः ॥५९॥

तदा रुद्रैर्जगन्नाथस्तया चान्तर्दधे विभुः ॥
इन्द्र उवाच ॥
तस्माच्छिलाद लोकेषु दुर्लभो वै त्वयोनिजः ॥६०॥

मृत्युहीनः पुमान्विद्धि समृत्युः पद्मजोपि सः ॥
किंतु देवेश्वरो रुद्रः प्रसीदति यदीश्वरः ॥६१॥

न दुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ॥
मया च विष्णुना चैव ब्रह्मणा च महात्मना ॥६२॥

अयोनिजं मृत्युहीनमसमर्थं निवेदितुम् ॥
शैलादिरुवाच ॥

एवं व्याहृत्य विप्रेंद्रमनुगृह्य च तं घृणी ॥६३॥

देवैर्वृतो ययौ देवः सितेनेभेन वै प्रभुः ॥६४॥

इति श्रीलिंगमहापुराणे पूर्वभागे इन्द्रवाक्यं नामकचत्वारिंशोऽध्यायः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:24.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.