संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ५९

पूर्वभागः - अध्यायः ५९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयन्विताः ॥
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम् ॥१॥

ऋषय ऊचुः ॥
यदेतदुक्तं भवता सूतेह वदतां वर ॥
एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम् ॥२॥

श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥
उवाच परमं वाक्यं तेषां संशयनिर्णये ॥३॥

अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं शांतबुद्धिभिः ॥
एतद्वोहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् ॥४॥

यथा देवगृहाणीह सूर्यचंद्रादयो ग्रहाः ॥
अतः परं तु त्रिविधमग्नेर्वक्ष्ये समुद्भवम् ॥५॥

दिव्यस्य भौतिक स्याग्नेरथोग्नेः पार्थिवस्य च ॥
व्युष्टायां तु रजन्यां च ब्रह्मणोऽव्यक्तजन्मनः ॥६॥

अव्याकृतमिदं त्वासीन्नैशेन तमसा वृतम् ॥
चतुर्भागावशिष्टेऽस्मिन् लोके नष्टे विशेषतः ॥७॥

स्वयंभूर्भगवांस्तत्र लोकसर्वार्थसाधकः ॥
खद्योतवत्स व्यचरदाविर्भावचिकीर्षया ॥८॥

सोग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः ॥
संहृत्य तत्प्रकाशार्थं त्रिधा व्यभजदीश्वरः ॥९॥

पवनो यस्तु लोकेस्मिन्पार्थिवो वह्निरुच्यते ॥
यश्चासौ लोकादौ सूर्ये शुचिरग्निस्तु स स्मृतः ॥१०॥

वैद्युतोब्जस्तु विज्ञेयस्तेषां वक्ष्ये तु लक्षणम् ॥
वैद्युतो जाठरः सौरो वारिगर्भास्त्रयोऽग्नयः ॥११॥

तस्मादपः पिबन्सूर्यो गोभिर्दोप्यत्यसौ विभुः ॥
जले चाब्जः समाविष्टो नाद्भिराग्निः प्रशाम्यति ॥१२॥

मानवानां च कुक्षिस्थो नाग्निः शाम्यति पावकः ॥
अर्चिष्मान्पवनः सोग्निर्निष्प्रभो जाठरः स्मृतः ॥१३॥

यश्चायं मंडली सुक्ली निरूष्मा संप्रजायते ॥
प्रभा सौरी तु पादेन ह्यस्तं याते दिवाकरे ॥१४॥

अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ॥
उद्यंतं च पुनः सूर्यमौष्यमग्नेः समाविशेत् ॥१५॥

पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ॥
प्रकाशोष्णस्वरूपे च सौराग्नेये तु तेजसी ॥१६॥

परस्परानुप्रवेशादाप्यायेते परस्परम् ॥
उत्तरे चैव भूम्यर्धे तथा ह्यग्निश्च दक्षिणे ॥१७॥

उत्तिष्ठति पुनः सूर्यः पुनर्वै प्रविशत्यपः ॥
तस्मात्ताम्रा भवंत्यापो दिवारात्रिप्रवेशनात् ॥१८॥

अस्तं याति पुनः सूर्यो अहर्वै प्रविशत्यपः ॥
तस्मान्नक्तं पुनः शुक्ला आपो दृश्यंति भास्वराः ॥१९॥

एतेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे ॥
उदयास्तमने नित्यमहोरात्रं विशत्यपः ॥२०॥

यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः ॥
पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥२१॥

सहस्रपादसौ वह्निर्वृत्तकुंभनिभः स्मृतः ॥
आदत्ते स तु नाडीनां सहस्रेण समंततः ॥२२॥

नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः ॥
स्थावरा जंगमाश्चैव वापीकुल्यादिका अपः ॥२३॥

तस्य रश्मिसहस्रं तच्छीतवर्षोष्ण निस्स्रवम् ॥
तासां चतुःशता नाड्यो वर्षंते चित्रमूर्तयः ॥२४॥

भजनाश्चैव माल्याश्च केचनाः पतनास्तथा ॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥२५॥

हिमोद्वहाश्च ता नाड्यो रश्मयस्त्रिशताः पुनः ॥
रेशा मेघाश्च वात्स्याश्च ह्लादिन्यो हिमसर्जनाः ॥२६॥

चंद्रभा नामतः सर्वा पीताभाश्च गभस्तयः ॥
शुक्लाश्च ककुभाश्चैव गावो विश्वभृतस्तथा ॥२७॥

शुक्लास्ता नामतः सर्वास्त्रिशतीर्घर्मसर्जनाः ॥
सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ॥२८॥

मनुष्यानौषधेनेह स्वधया च पितॄनपि ॥
अमृतेन सुरान्सर्वांस्तिसृभिस्तर्पयत्यसौ ॥२९॥

वसंते चैव ग्रीष्मे च शतैः स तपते त्रिभिः ॥
वर्षास्वथो शरदि च चतुर्भिः संप्रवर्षति ॥३०॥

हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः ॥
इंद्रो धाता भगः पूषा मित्रोथ वरुणोर्यमा ॥३१॥

अंशुर्विवस्वांस्त्वष्टा च पर्जन्यो विष्णुरेव च ॥
वरुणो माघमासे तु सूर्य एव तु फाल्गुने ॥३२॥

चैत्रे मासी भवेदंशुर्धाता वैशाखतापनः ॥
ज्येष्ठे मासि भवेदिन्द्र आषाढे चार्यमा रविः ॥३३॥

विवस्वान् श्रवणे मासि प्रोष्ठपादे भगः स्मृतः ॥
पर्जन्याश्वयुजे मासि त्वष्टा वै कार्तिके रविः ॥३४॥

मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ॥
पंचरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥३५॥

षड्भिः सहस्रैः पूषा तु देवोंशुः सप्तभिस्तथा ॥
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥३६॥

विवस्वान् दशभिर्याति यात्येकादशभिर्भगः ॥
सप्तभिस्तपते मित्रस्त्वष्टा चौवाष्टभिः स्मृतः ॥३७॥

अर्यमा दशभिर्याति पर्जन्यो नवभिस्तथा ॥
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति मेदिनीम् ॥३८॥

वसंते कपिलः सूर्यो ग्रीष्मे कांचनसप्रभः ॥
श्वेतो वर्षासु वर्णेन पांडुः शरदि भास्करः ॥३९॥

हेमंते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥
इति वर्णाः समाख्याता मया सूर्यसमुद्भवाः ॥४०॥

ओषधीषु बलं धत्ते स्वधया च पितृष्वपि ॥
सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु नियच्छति ॥४१॥

एवं रश्मिसहस्रं तत्सौरं लोकार्थसाधकम् ॥
भिद्यते लोकमासाद्य जलशीतोष्णनिस्स्रवम् ॥४२॥

इत्येतन्मंडलं शुक्लं भास्वरं सूर्यसंज्ञितम् ॥
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च ॥४३॥

चंद्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः ॥
नक्षत्राधिपतिः सोमो नयनं वाममीशितुः ॥४४॥

नयनं चैव मीशस्य दक्षिणं भास्करः स्वयम् ॥
तेषां जनानां लोकेस्मिन्नयनं नयते यतः ॥४५॥

इति श्रीलिंगमहापुराणे पूर्वभागे सूर्यरश्मिस्वरूप कथनं नामेकोनषष्टितमोध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP