TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४९

पूर्वभागः - अध्यायः ४९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ४९
सूत उवाच ॥
शतमेकं सहस्राणां योजनानां स तु स्मृतः ॥
अनुद्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम् ॥१॥

पंचाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ॥
द्वीपैश्च सप्तभिर्युक्ता लोकालोकावृता शुभा ॥२॥

नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः ॥
श्रृंगी तस्योत्तरे विप्रास्त्रयस्ते वर्षपर्वताः ॥३॥

जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ॥
निषधो दक्षिणे मेरोस्तस्य दक्षिणतो गिरिः ॥
हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे ॥४॥

मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ ॥
माल्यवान्गंधमादश्च द्वावेतावुद गायतौ ॥५॥

एते पर्वतराजानः सिद्धचारणसेविताः ॥
तेषामंतरविष्कंभो नवसाहस्रमेकशः ॥६॥

इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥
हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥७॥

नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥
हरिवर्षात्परं चैव मेरोः शुभमिलावृतम् ॥८॥

इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥
रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम् ॥९॥

हिरण्मयात्परं चापि श्रृंगी चैव कुरुः स्मृतः ॥
धनुः संस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ॥१०॥

दीर्घाणि तत्र चत्वारी मध्यतस्तदिलावृतम् ॥
मेरोः पश्चिमपूर्वेण द्वे तु दीर्घे तरे स्मृते ॥११॥

अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम् ॥
वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥१२॥

तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम् ॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥१३॥

उदगायतो महाशैलो माल्यवान्नाम पर्वतः ॥
योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः ॥१४॥

आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥
तस्य प्रतीच्यां विज्ञेयः पर्वतो गंधमादनः ॥१५॥

आयामतः स विज्ञेयो माल्यवानिव विस्तृतः ॥
जबूंद्वीपस्य विस्तारात्समेन तु समंततः ॥१६॥

प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः ॥
अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ ॥१७॥

हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान् ॥
तरुणादित्यसंकाशो हौरण्यो निषधः स्मृतः ॥१८॥

चतुर्वर्णः ससौवर्णो मेरुश्चोर्ध्वायतः स्मृतः ॥
वृत्ताकृतिपरीणाहश्चातुरस्रः समुत्थितः ॥१९॥

नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः ॥
मयूरबर्हवर्णस्तु शातकुंभस्त्रिश्रृंगवान् ॥२०॥

एवं संक्षेपतः प्रोक्ताः पुनः श्रृणु गिरीश्वरान् ॥
मंदरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ॥२१॥

कैलासो गंधमादश्च हेमवांश्चैव पर्वतौ ॥
पूर्वतश्चायतावेतावर्णवांतर्व्यवस्थितौ ॥२२॥

निषधः पारियात्रश्च द्वावेतौ वरपर्वतौ ॥
यथा पूर्वौ तथा याम्यावेतौ पश्चिमतः श्रितौ ॥२३॥

त्रिश्रृंगो जारुचिश्चैव उत्तरौ वरपर्वतौ ॥
पूर्वतश्चायतावेतावर्णवांतर्व्यवस्थितौ ॥२४॥

मर्यादापर्वतानेतानष्टावाहुर्मनीषिणः ॥
योसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः ॥२५॥

तस्य पादास्तु चत्वारश्चतुर्दिक्षु नगोत्तमाः ॥
यैर्विष्टब्धा न चलति सप्तद्वीपवती मही ॥२६॥

दशयोजनसाहस्रमायामस्तेषु पठ्यते ॥
पूर्वे तु मंदरो नाम दक्षिणे गंधमादनः ॥२७॥

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥
महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥२८॥

मंदरस्य गिरेः श्रृंगे महावृक्षः सकेतुराट् ॥
प्रलंबशाखाशिखरः कदंबश्चैत्यपादपः ॥२९॥

दक्षिणस्यापि शैलस्य शिखरे देवसेविता ॥
जंबूः सदा पुण्यफला सदा माल्योप शोभिता ॥३०॥

सकेतुर्दक्षिणे द्वीपे जंबूर्लोकेषु विश्रुता ॥
विपुलस्यापि शैलस्य पश्चिमे च महात्मनः ॥३१॥

संजातः शिखरेऽश्वत्थः स महान् चैत्यपादपः ॥
सुपार्श्वस्योत्तरस्यापि श्रृंगे जातो महाद्रुमः ॥३२॥

न्यग्रोधो विपुलस्कंधोऽनेकयोजनमंडलः ॥
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यताक्रमम् ॥३३॥

अमानुष्याणि रम्याणि सर्वकालर्तुकानि च ॥
मनोहराणि चत्वारि देवक्रीडनकानि च ॥३४॥

वनानि वै चतुर्दिक्षु नामतस्तु निबोधत ॥
पूर्वे चैत्ररथं नाम दक्षिणे गंधमादनम् ॥३५॥

वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ॥
मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरमतः परम् ॥३६॥

वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम् ॥
महा सरांसि च तथा चत्वारी मुनिपुंगवाः ॥३७॥

यत्र क्रीडंति मुनयः पर्वतेषु वनेषु च ॥
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् ॥३८॥

सितोदं पश्चिमसरो महाभद्रं तथोत्तरम् ॥
शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे ॥३९॥

उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः ॥
अरुणोदस्य पूर्वेण शैलेंद्रा नामतः स्मृताः ॥४०॥

तांस्तु संक्षेपतो वक्ष्ये न शक्यं विस्तरेण तु ॥
सितांतश्च कुरंडश्च कुररश्चाचलोत्तमः ॥४१॥

विकरो मणिशैलश्च वृक्षवांश्चाचलोत्तमः ॥
महानीलोथ रुचकः सबिन्दुर्दर्दुरस्तथा ॥४२॥

वेणुमांश्च समेघश्च निषधो देवपर्वतः ॥
इत्येते पर्वतवरा ह्यन्ये च गिरयस्तथा ॥४३॥

पूर्वेण मंदरस्यैते सिद्धावासा उदाहृताः ॥
तेषुतेषु गिरींद्रेषु गुहासु च वनेषु च ॥४४॥

रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च ॥
सरसो मानसस्येह दक्षिणेन महाचलाः ॥४५॥

ये कीर्त्यमानास्तान्सर्वान् संक्षिप्य प्रवदाम्यहम् ॥
शैलश्च विशिराश्चैव शिखरश्चाचलोत्तमः ॥४६॥

एकश्रृंगो महाशूलो गजशैलः पिशाचकः ॥
पंचशैलोथ कैलासो हिमवांश्चाचलोत्तमः ॥४७॥

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥
तेषुतेषु च सर्वेषु पर्वतेषु वनेषु च ॥४८॥

रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः ॥
दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः ॥४९॥

अपरेण सितोदश्च सुरपश्च महाबलः ॥
कुमुदो मधुमांश्चैव ह्यंजनो मुकुटस्तथा ॥५०॥

कृष्णश्च पांडुरश्चैव सहस्रशिखरश्च यः ॥
पारिजातश्च शैलेंद्रः श्रीश्रृंगश्चाचलोत्तमः ॥५१॥

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥
सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः ॥५२॥

महाभद्रस्य सरसश्चोत्तरे च महाबलाः ॥
ये स्थिताः कीर्त्यमानांस्तान्संक्षिप्येह निबोधत ॥५३॥

शंखकूटो महाशैलो वृषभो हंसपर्वतः ॥
नागश्च कपिलश्चैव इंद्र शैलश्च सानुमान् ॥५४॥

नीलः कंटकश्रृंगश्च शतश्रृंगश्च पर्वतः ॥
पुष्पकोशः प्रशैलश्च विरजश्चाचलोत्तमः ॥५५॥

वराहपर्वतश्चैव मयूरश्चाचलोत्तमः ॥
जारुधिश्चैव शैलेंद्र एत उत्तरसंस्थिताः ॥५६॥

तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः ॥
असंख्यातानि दिव्यानि विमानानि सहस्रशः ॥५७॥

एतेषां शैलमुख्यानामंतरेषु यथाक्रमम् ॥
संति चैवांतरद्रोण्यः सरांस्युपवनानि च ॥५८॥

वसंति देवा मुनयः सिद्धाश्च शिवभाविताः ॥
कृतवासाः सपत्नीकाः प्रसादात्परमेष्ठिनः ॥५९॥

लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः ॥
तथा तालवने प्रोक्तमिंद्रोपेंद्रोरगात्मनाम् ॥६०॥

उदुंबरे कर्दमस्य तथान्येषां महात्मनाम् ॥
विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे ॥६१॥

नागानां सिद्धसंघानां तथा निंबवने स्थितिः ॥
सूर्यस्य किंशुकवने तथा रुद्रगणस्य च ॥६२॥

बीजपूरवने पुण्ये देवाचर्यो व्यवस्थितः ॥
कौमुदे तु वने विष्णुप्रमुखानां महात्मनाम् ॥६३॥

स्थलपद्मवनांतस्थन्यग्रोधेऽशेषभोगिनः ॥
शेषस्त्वशेषजगतां पतिरास्तेऽतिगर्वितः ॥६४॥

स एव जगतां कालः पाताले च व्यवस्थितः ॥
विष्णोर्विश्वगुरोर्मूर्तिर्दिव्यः साक्षाद्धलायुधः ॥६५॥

शयनं देवदेवस्य स हरेः कंकणं विभोः ॥
वने पनसवृक्षाणां सशुक्रा दानवादयः ॥६६॥

किन्नरैरुरगाश्चैव विशाखकवने स्थिताः ॥
मनोहरवने वृक्षाः सर्व कोटिसमन्विताः ॥६७॥

नंदीश्वरो गणवरैः स्तूयमानो व्यवस्थितः ॥
संतानकस्थलीमध्ये साक्षाद्देवी सरस्वती ॥६८॥

एवं संक्षेपतः प्रोक्ता वनेषु वनवासिनः ॥
असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु ॥६९॥

इति श्रीलिंगमहापुराणे पूर्वभागे एकोनपंचाशत्तमोऽध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:25.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

notice of abandonment

  • परित्याग सूचना 
  • परित्याग सूचना 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.