TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १०

पूर्वभागः - अध्यायः १०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १०
सूत उवाच ॥
सतां जितात्मनां साक्षाद्द्विजातीनां द्विजोत्तमाः ॥
धर्मज्ञानां च साधूनामाचार्याणां शिवत्मनाम् ॥१॥

दयावतां द्विजश्रेष्ठास्तथा चैव तपस्विनाम् ॥
संन्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम् ॥२॥

दानिनां चैव दान्तानां त्रयाणां सत्यवदिनाम् ॥
अलुब्धानां सयोगानां श्रुति स्मृतिविदां द्विजाः ॥३॥

श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः ॥
सदिति ब्रह्मणः शब्दस्तदंते ये लभंत्युत ॥४॥

सायुज्यं ब्रह्मणो याति तेन संतः प्रचक्षते ॥
दशात्मके ये विषये साधने चाष्टलक्षणे ॥५॥

न क्रुध्यांति न हृष्यंति जितात्मानस्तु ते स्मृताः ॥
सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च ॥६॥

ब्रह्मक्षत्रविशे यस्माद्युक्तास्तस्माद्द्विजातयः ॥
वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः ॥७॥

श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते ॥
विद्यायाः साधनात्साधुब्रह्मचारी गुरोर्हितः ॥८॥

क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥
साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः ॥९॥

यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥
एवमाश्रमधर्माणां साधनात्साधवः स्मृताः ॥१०॥

गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ॥
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ ॥११॥

कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ॥
धारणार्थे महान् ह्येष धर्मशब्दः प्रकीर्तितः ॥१२॥

अधारणे महत्त्वे च अधर्म इति चोच्यते ॥
अत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते ॥१३॥

अधर्मश्चानिष्टफलो ह्याचर्यैरुपदिश्यते ॥
वृद्धाश्चालोलुपाश्चैव आत्मवंतो ह्यदांभिकाः ॥१४॥

सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते ॥
स्वयमाचरते यस्मादाचारे स्थाप यत्यपि ॥१५॥

आचिनोति च शास्त्रार्थानाचार्यस्तेन चोच्यते ॥
विज्ञेयं श्रवणाच्छ्रौतं स्मरणात्स्मार्तमुच्यते ॥१६॥

इज्या वेदात्मकं श्रौतं स्मार्तं वर्णाश्रमात्मकम् ॥
दृष्ट्वानुरूपमर्थं यः पृष्टो नैवापि गूहति ॥१७॥     

यथादृष्टप्रवादस्तु सत्यं लैङ्गेऽत्र पठ्यते ॥
ब्रह्मचर्यं तथा मौनं निराहारत्वमेव च ॥१८॥

अहिंसा सर्वतः शान्तिस्तप इत्यभिधीयते ॥
आत्मवत्सर्वभूतेषु यो हितायाहिताय च ॥१९॥

वर्तते त्वसकृद्धृत्तिः कृत्स्ना ह्येषा दया स्मृता ॥
यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात् ॥२९॥

तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम् ॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् ॥२१॥

कारुण्यात्सर्वभूतेभ्यः संविभागस्तु मध्यमः ॥
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः ॥२२॥

शिष्टाचाराविरुद्धश्च स धर्मः साधुरुच्यते ॥
मायाकर्मफलत्यागी शिवात्मा परि कीर्तितः ॥२३॥

निवृत्तः सर्वसंगेभ्यो युक्तो योगी प्रकीर्तितः ॥
असक्तो भयतो यस्तु विषयेषु विचार्य च ॥२४॥

अलुब्धः संयमी प्रोक्तः प्रर्थितोपि समंततः ॥
आत्मार्थं वा परार्थं वा इंद्रियाणीह यस्य वै ॥२५॥

न मिथ्या संप्रवर्तंते शमस्यैव तु लक्षणम् ॥
अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनंदति ॥२६॥

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह ॥२७॥

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते ॥
अव्यक्ताद्यविशेषांते विकारेऽस्मिन्नचेतने ॥२८॥

चेतनाचेतनान्यत्व विज्ञानं ज्ञानमुच्यते ॥
एवं तु ज्ञानयुक्तस्य श्रद्धायुक्तस्य शंकरः ॥२९॥

प्रसीदति न संदेहो धर्मश्चायं द्विजोत्तमाः ॥
किं तु गुह्यतमं वक्ष्ये सर्वत्र परमेश्वरे ॥३०॥

भवे भक्तिर्न संदेहस्तया युक्तो विमुच्यते ॥
अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः ॥३१॥

प्रसीदति न संदेहो निगृह्य विविधं तमः ॥
ज्ञानमध्यापनं होमो ध्यानं यज्ञस्तपः श्रुतम् ॥३२॥

दानमध्ययनं सर्वं भवभक्त्यै न संशयः ॥
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥३३॥

मासोपवासै श्चान्यैर्वा भक्तिर्मुनिवरोत्तमाः ॥
अभक्ता भगवत्यस्मिँल्लोके गिरिगुहाशये ॥३४॥

पतंति चात्मभोगार्थं भक्तो भावेन मुच्यते ॥
भक्तानां दर्शनादेव नृणां स्वर्गादयो द्विजाः ॥३५॥

न दुर्लभा न सन्देहो भक्तानां किं पुनस्तथा ॥
ब्रह्मविष्णुसुरेंद्राणां तथान्येषामपि स्थितिः ॥३६॥

भक्त्या एव मुनीनां च बलसौभाग्यमेव च ॥
भवेन च तथा प्रोक्तं संप्रेक्ष्योमां पिनाकिना ॥३७॥

देव्यै देवेन मधुरं वाराणस्यां पुरा द्विजाः ॥
अविमुक्ते समासीना रुद्रेण परमात्मना ॥३८॥

रुद्राणी रुद्रमाहेदं लब्ध्वा वाराणसीं पुरीम् ॥
श्रीदेव्युवाच ॥
केन वश्यो महादेव पूज्यो दृश्यस्त्वमीश्वरः ॥३९॥

तपसा विद्यया वापि योगेनेह वद प्रभो ॥
सूत उवाच ॥
निशम्य वचनं तस्यास्तथा ह्यालोक्य पार्वतीम् ॥४०॥

आह बालेंदुतिलकः पूर्णेन्दुवदनां हसन् ॥
स्मृत्वाथ मेनया पत्न्या गिरेर्गां कथितां पुरा ॥४१॥

चिरकालस्थितिं प्रेक्ष्य गिरौ देव्या महात्मनः ॥
देवी लब्धा पुरी रम्या त्वया यत्प्रष्टुमर्हसि ॥४२॥

स्थानार्थं कथितं मात्रा विस्मृतेह विलासिनि ॥
पुरा पितामहेनापि पृष्टः प्रश्रवतां वरे ॥४३॥

यथा त्वयाद्य वै पृष्टो द्रष्टुं ब्रह्मात्मकं त्वहम् ॥
श्वेते श्वेतेन वर्णेन दृष्ट्वा कल्पे तु मां शुभे ॥४४॥

सद्योजातं तथा रक्ते रक्तं वामं पितामहः ॥
पीते तत्पुरुषं पीतमघोरे कृष्णमीश्वरम् ॥४५॥

ईशानं विश्वरूपाख्यो विश्वरूपं तदाह माम् ॥४६॥

पितामह उवाच ॥
वाम तत्पुरुषाघोर सद्योजात महेश्वर ॥
दृष्टो मया त्वं गायत्र्या देवदेव महेश्वर ॥
केन वश्यो महादेव ध्येयः कुत्र घृणानिधे ॥४७॥

दृश्यः पूज्यस्तथा देव्या वक्तुमर्हसि शंकर ॥
श्रीभगवानुवाच ॥
अवोचं श्रद्धयैवेति वश्यो वारिजसंभव ॥४८॥

ध्येयो लिंगे त्वया दृष्टे विष्णुना पयसां निधौ ॥
पूज्यः पंचास्यरूपेण पवित्रैः पञ्चभि र्द्विजैः ॥४९॥

भवभक्त्याद्य दृष्टोहं त्वयांडज जगद्गुरो ॥
सोपि मामाह भावार्थं दत्तं तस्मै मया पुरा ॥५०॥

भावं भावेन देवेशि दृष्टवान्मां हृदीश्वरम् ॥
तस्मात्तु श्रद्धया वश्यो दृश्यः श्रेष्ठगिरेः सुते ॥५१॥

पूज्यो लिंगे न संदेहः सर्वदा श्रद्धया द्विजैः ॥
श्रद्धा धर्मः परः सूक्ष्माः श्रद्धा ज्ञानं हुतं तपः ॥५२॥

श्रद्धा स्वर्गश्च मोक्षश्च दृश्योहं श्रद्धया सदा ॥५३॥

इति श्रीलिंगमहापुराणे पूर्वभागे भक्तिभावकथनं नाम दशमोऽध्यायः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:22.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोळा काणा असावा, मुलूख काणा असूं नये

  • पाठभेद-डोळा काणा असावा पण मुलूख काणा नसावा. दृष्‍टीला अंधत्‍व असले तरी चालेल परंतु अव्यवस्‍था असूं नये. काणा पहा. 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site