TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः २६

पूर्वभागः - अध्यायः २६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः २६
नंद्युवाच ॥
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम् ॥
आयातु वरदा देवीत्यनेनैव महेश्वरीम् ॥१॥

पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत् ॥
प्राणायामत्रयं कृत्वा समासीनः स्थितेपि वा ॥२॥

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥
गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरत् ॥३॥

अर्घ्यं दत्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम् ॥
उत्तमे शिखरे देवीत्युक्त्वोद्वास्य च मातरम् ॥४॥

प्राच्यालोक्याभिवंद्येशां गायत्रीं वेदमातरम् ॥
कृतांजलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा ॥५॥

उदुत्यं च तथा चित्रं जातवेदसमेव च ॥
अभिवंद्य पुनः सूर्यं ब्रह्माणं च विधानतः ॥६॥

तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च ॥
जप्त्वा प्रदक्षिणं पश्चात्त्रिः कृत्वा च विभावसोः ॥७॥

आत्मानं चांतरात्मानं परमात्मानमेव च ॥
अभिवंद्य पुनः सूर्यं ब्रह्माणं च विभावसुम् ॥८॥

मुनीन्पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः ॥
सर्वानावाहयामीति देवानावाह्य सर्वतः ॥९॥

तर्पयेद्विधिना पश्चात्प्राङ्मुखो वा ह्युदङ्मुखः ॥
ध्यात्वा स्वरूपं तत्तत्त्वमभिवंद्य यथाक्रमम् ॥१०॥

देवानां पुष्पतोयेन ऋषीणां तु कुशांभसा ॥
पितॄणां तिलतोयेन गंधयुक्तेन सर्वतः ॥११॥

यज्ञोपवीति देवानां निवीती ऋषितर्पणम् ॥
प्राचीनावीति विप्रेद्र पितॄणां तर्पयेत् क्रमात् ॥१२॥

अंगुल्यग्रेण वै धीमांस्तर्पयेद्देवतर्पणम् ॥
ऋषीन् कनिष्ठांगुलिना श्रोत्रियः सर्वसिद्धये ॥१३॥

पितॄंस्तु तर्पयेद्विद्वान्दाक्षिणांगुष्ठकेन तु ॥
तथैवं मुनिशार्दूल ब्रह्मयज्ञ यजेद्द्विजः ॥१४॥

देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च ॥
पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः ॥१५॥

स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः ॥
अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः ॥१६॥

सर्वेषामेव भूतानां बलिदानं विधानतः ॥
भूतयज्ञ इति प्रोक्तो भूतिदः सर्वदेहिनाम् ॥१७॥

सदारान्सर्वतत्त्वज्ञान्ब्राह्मणान्वेदपारगान् ॥
प्रणम्य तेभ्यो यद्दत्तमन्नं मानुष उच्यते ॥१८॥

पितॄनुद्दिश्य यद्दत्तं पितृयज्ञः स उच्यते ॥
एवं पंच महायज्ञान्कुर्यात् सर्वार्थसिद्धये ॥१९॥

सर्वेषां श्रृणु यज्ञानां ब्रह्मयज्ञः परः स्मृतः ॥
ब्रह्मयज्ञरतो मर्त्यो ब्रह्मलोके महीयते ॥२०॥

ब्रह्मयज्ञेन तुष्यंति सर्वे देवाः सवासवाः ॥
ब्रह्मा च भगवान्विष्णुः शंकरो नीललोहितः ॥२१॥

वेदाश्च पितरः सर्वे नात्र कार्या विचारणा ॥
ग्रामाद्बहिर्गतो भूत्वा ब्राह्मणो ब्रह्मयज्ञवित् ॥२२॥

यावत्त्वदृष्टमभवदुटजानां छदं नरः ॥
प्राच्यामुदीच्यां च तथा प्रागुदीच्यामथापि वा ॥२३॥

पुण्यमाचमनं कुर्याद्ब्रह्मयज्ञार्थमेव तत् ॥
प्रीत्यर्थं च ऋचां विप्राः त्रिः पीत्वा प्लाव्यप्लाव्य च ॥२४॥

यजुषां परिमृज्यैवं द्विः प्रक्षाल्य च वारिणा ॥
प्रीत्यर्थं सामवेदानामुपस्पृश्य च मूर्धानि ॥२५॥

स्पृशेदथर्व वेदानां नेत्रे चांगिरसां तथा ॥
नासिके ब्राह्मणोऽङ्गानां क्षाल्यक्षाल्य च वारिणा ॥२६॥

अष्टादशपुराणानां ब्रह्माद्यानां तथैव च ॥
तथा चोपपुराणानां सौरादीनां यथाक्रमम् ॥२७॥

पुण्यानामितिहासानां शैवादीनां तथैव च ॥
श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं हृद्देश्यं तु ततः स्पृशेत् ॥२८॥

कल्पादीनां तु सर्वेषां कल्पवित्कल्पवित्तमाः ॥
एवमाचम्य चास्तीर्य दर्भपिंजूलमात्मनः ॥२९॥

कृत्वा पाणितले धीमानात्मनो दक्षिणोत्तरम् ॥
हेमांगुलीयसंयुक्तो ब्रह्मबंधयुतोपि वा ॥३०॥

विधिवद्ब्रह्मयज्ञं च कुर्यात्सूत्री समाहितः ॥
अकृत्वा च मुनिः पंच महायज्ञान्द्विजोत्तमः ॥३१॥

भुक्त्वा च सूकराणां तु योनौ वै जायते नरः ॥
तस्मात्सर्वप्रयत्नेन कर्तव्याः शुभमिच्छता ॥३२॥

ब्रह्मयज्ञादथ स्नानं कृत्वादौ सर्वथात्मनः ॥
तीर्थं संगृह्य विधिवत्प्रविशेच्छिबिरं वशी ॥३३॥

बहिरेव गृहात्पादौ हस्तौ प्रक्षाल्य वारिणा ॥
भस्मस्नानं ततः कुर्याद्विधिवद्देहशुद्धये ॥३४॥

शोध्य भस्म यथान्यायं प्रणवेनाग्निहोत्रजम् ॥
ज्योतिः सूर्य इति प्रातर्जुहुयादुदिते यतः ॥३५॥

ज्योतिरग्निस्तथा सायं सम्यक् चानुदिते मृषा ॥
तस्मादुदितहोमस्थं भसितं पावनं शुभम् ॥३६॥

नास्ति सत्यसमं यस्मादसत्यं पातकं च यत् ॥
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ॥३७॥

उरोदेशमघोरेण गुह्यं वामेव सुव्रताः ॥
सद्येन पादौ सर्वांगं प्रणवेनाभिषेचयेत् ॥३८॥

ततः प्रक्षालयेत्पादं हस्तं ब्रह्मविदां वरः ॥
व्यपोद्य भस्म चादाय देवदेवमनुस्मरन् ॥३९॥

मंत्रस्नानं ततः कुर्यादापोहिष्ठादिभिः क्रमात् ॥
पुण्यैश्चैव तथा मंत्रैर्ऋग्यजुः सामसंभवैः ॥४०॥

द्विजानां तु हितायैवं कथितं स्नानमद्य ते ॥
संक्षिप्य यः सकृत्कुर्यात्स याति परमं पदम् ॥४१॥

इति श्रीलिंगमहापुराणे पूर्वभागे पञ्चयज्ञविधानं नाम षड्विंशोध्यायः ॥२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:23.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.