TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ८

पूर्वभागः - अध्यायः ८

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ८
सूत उवाच ॥
संक्षेपतः प्रवक्ष्यामि योगस्थानानि सांप्रतम् ॥
कल्पितानि शिवेनैव हिताय जगतां द्विजाः ॥१॥

गलादधो वितस्त्यायन्नाभेरुपरि चोत्तमम् ॥
योगस्थनमधो नाभेरावर्तं मध्यमं भ्रुवोः ॥२॥

सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते ॥
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः ॥३॥

प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः ॥
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम् ॥४॥

योगशब्देन निर्वाणं माहेशं पदमुच्यते ॥
तस्य हेतुर्ऋषेर्ज्ञानं ज्ञानं तस्य प्रसादतः ॥५॥

ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा ॥
निरुद्धेंद्रियवृत्तेस्तु योगसिद्धिर्भविष्यति ॥६॥

योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः ॥
साधनान्यष्टधा चास्य कथितानीह सिद्धये ॥७॥

यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस्तथा ॥
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम् ॥८॥

प्रत्याहारं पंचमो वै धारणा च ततः परा ॥
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः ॥९॥

तपस्युपरमश्चैव यम इत्यभिधीयते ॥
अहिंसा प्रथमो हेतुर्यमस्य यमिनां वराः ॥१०॥

सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ ॥
नियमस्यापि वै मूलं यम एव न संशयः ॥११॥

आत्मवत्सर्वभूतानां हितायैव प्रवर्तनम् ॥
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा ॥१२॥

दृष्टं श्रुतं चानुभितं स्वानुभूतं यथार्थतः ॥
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ॥१३॥

नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः ॥
परदोषान् परिज्ञाय न वदेदिति चापरम् ॥१४॥

अनादानं परस्वानामापद्यपि विचारतः ॥
मनसा कर्मणा वाचा तदस्तेयं समासतः ॥१५॥

मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा ॥
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम् ॥१६॥

इह वैखानसानां च विदाराणां विशेषतः ॥
सदाराणां गृहस्थनां तथैव च वदामि वः ॥१७॥

स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा ॥
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम् ॥१८॥

मेध्या स्वनारा संभोगं कृत्वा स्नानं समाचरेत् ॥
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः ॥१९॥

अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने ॥
विधिना यादृशी हिंसा सात्व हिंसा इति स्मृता ॥२०॥

स्त्रियः सदा परित्याज्याः संगं नैव च कारयेत् ॥
कुणपेषु यथा चित्त तथा कुर्याद्विचक्षणः ॥२१॥

विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः ॥
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः ॥२२॥

अंगारसदृशी नारी घृतकुंभसमः पुमान् ॥
तस्मान्नरिषु संसर्गं दूरतः परिवर्जयेत् ॥२३॥

भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः ॥
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा ॥२४॥

न जातु कामः कामानामुपभोगेन शाम्यति ॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥२५॥

तस्मात्त्यागः सदा कार्यस्त्वमृतत्वाय योगिना ॥
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते ॥२६॥

त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः ॥
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः ॥२७॥

तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा ॥
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम् ॥२८॥

यमाः संक्षेपतः प्रोक्ता नियमांश्च वदामि वः ॥
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ॥२९॥

व्रतोपवासमौनं च स्नानं च नियमा दश ॥
नियमः स्यादनीहा च शौचं तुष्टिस्तपस्तथा ॥३०॥

जपः शिवप्रणीधानं पद्मकाद्यं तथासनम् ॥
बाह्यमाभ्यंतरं प्रोक्तं शौचमाभ्यंतरं वरम् ॥३१॥

बाह्यशौचेन युक्तः संस्तथा चाभ्यंतरं चरेत् ॥
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः ॥३२॥

स्नानं विधानतः सम्यक् पश्चादाभ्यंतरं चरेत् ॥
आदेहांतं मृदालिप्य तीर्थतोयेषु सर्वदा ॥३३॥

अवगाद्यापि मलिनो ह्यंतश्शौचविवर्जितः ॥
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ॥३४॥

सदावगाद्यः सलिले विशुद्धाः किं द्विजोत्तमाः ॥
तस्मादाभ्यंतरं शौचं सदा कार्यं विधानतः ॥३५॥

आत्मज्ञानांभसि स्नात्वा सकृदालिप्य भावतः ॥
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम् ॥३६॥

शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः ॥
न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः ॥३७॥

संतोषस्तस्य सततमतीतार्थस्य चास्मृतिः ॥
चांद्रायणादिनिपुणस्य पांसि सुशुभानि च ॥३८॥

स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः ॥
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः ॥३९॥

मानसो विस्तरेणैव कल्पे पंचाक्षरे स्मृतः ॥
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा ॥४०॥

शिवज्ञानं गुरोर्भक्तिरचला सुप्रतिष्ठिता ॥
निग्रहो ह्यपहृत्याशु प्रसक्तानींद्रियाणि च ॥४१॥

विषयेषु समासेन प्रत्याहारः प्रकीर्तितः ॥
चित्तस्य धारणा प्रोक्ता स्थानबंधः समासतः ॥४२॥

तस्याः स्वास्थ्येन ध्यानं च समाधिश्च विचारतः ॥
तत्रैकचित्तता ध्यानं प्रत्ययांतरवर्जितम् ॥४३॥

चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम् ॥
समाधिः सर्वहेतुश्च प्राणायाम इति स्मृतः ॥४४॥

प्राणः स्वदेहजो वायुर्यमस्तस्य निरोधनम् ॥
त्रिधा द्विजैर्यमः प्रोक्तो मंदो मध्योत्तमस्तथा ॥४५॥

प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः ॥
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम् ॥४६॥

नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः ॥
मध्यमस्तु द्विरुद्वातश्चतुर्विंशतिमात्रकः ॥४७॥

मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते ॥
प्रस्वेदकंपनोत्थानजनकश्च यथाक्रमम् ॥४८॥

आनंदोद्भवयोगार्थं निद्राघूर्णिस्तथैव च ॥
रोमांचध्वनिसंविद्धस्वांगमो टनकंपनम् ॥४९॥

भ्रमणं स्वेदजन्या सा संविन्मूर्च्छा भवेद्यदा ॥
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः ॥५०॥

सगर्भोऽगर्भ इत्युक्तः सजपो विजपः क्रमात् ॥
इभो वा शरभो वापि दुराधर्षोऽथ केसरी ॥५१॥

गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते ॥
तथा समरिणोऽस्वस्थो दुराधर्षश्च योगिनाम् ॥५२॥

न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत् ॥
यथैव मृगराड् नागः शरभो वापि दुर्मदः ॥५३॥

कालांतरवशाद्योगाद्दम्यते परमादरात् ॥
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति ॥५४॥

योगादभ्यसते यस्तु व्यसनं नैव जायते ॥
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत् ॥५५॥

मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति ॥
संयुक्तस्य तथा सम्यक्प्राणायामेन धीमतः ॥५६॥

दोषात्तस्माच्च नश्यंति निश्वासस्तेन जीर्यते ॥
प्राणायामेन सिध्यंति दिव्याः शांत्यादयः क्रमात् ॥५७॥

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च तथा क्रमात् ॥
आदौ चतुष्टयस्येह प्रोक्ता शांतिरिह द्विजाः ॥५८॥

सहजागंतुकानां च पापानां शांतिरुच्यते ॥
प्रशांतिः संयमः सम्यग्वचसामिति संस्मृता ॥५९॥

प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः ॥
सर्वेंद्रियप्रसादस्तु वुद्धेर्वै मरुतामपि ॥६०॥

प्रसाद इति संप्रोक्तः स्वांते त्विह चतुष्टये ॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥६१॥

नागः कूर्मस्तु कृकलो देवदत्तो धनंजयः ॥
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः ॥६२॥

प्रयाणं कुरुते तस्माद्वायुः प्राण इति स्मृतः ॥
अपानयत्यपानस्तु आहारादीन् क्रमेण च ॥६३॥

व्यानो व्यानामयत्यंगं व्याध्यादीनां प्रकोपकः ॥
उद्वेजयति मर्माणि उदानोऽयं प्रकीर्तितः ॥६४॥

समं नयति गात्राणि समानः पंच वायवः ॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः ॥६५॥

कृकलः क्षुतकायैव देवदत्तो विजृंभणे ॥
धनंजयो महाघोषः सर्वगः स मृतेऽपि हि ॥६६॥

इति यो दशवायूनां प्राणायामेन सिध्यति ॥
प्रसादोऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये ॥६७॥

विस्वरस्तु महान् प्रज्ञा मनो ब्रह्माचितिः स्मृतिः ॥
ख्यातिः संवीत्ततः पश्चादीश्वरो मतिरेव च ॥६८॥

बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः ॥
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति ॥६९॥

विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः ॥
अग्रजः सर्व तत्त्वानां महान्यः परिमाणतः ॥७०॥


यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः ॥
बृहत्वाद्बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः ॥७१॥

सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता ॥
स्मरते यत्स्मृतिः सर्वं संविद्वै विंदते यतः ॥७२॥

ख्यायते यत्त्विति ख्यातिर्ज्ञानादिभिरनेकशः ॥
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः ॥७३॥

मनुते मन्यते यस्मान्मतिर्मतिमतांवराः ॥
अर्थं बोधयते यच्च बुद्ध्यते बुद्धिरुच्यते ॥७४॥

अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति ॥
दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी ॥७५॥

पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत् ॥
विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान् ॥७६॥

समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत् ॥
स्थानं लब्ध्वैव कुर्वीत योगाष्टांगानि वै क्रमात् ॥७७॥

लब्ध्वासनानि विधिवद्योगसिद्ध्यर्थमात्मवित् ॥
आदेशकाले योगस्य दर्शनं हि न विद्यते ॥७८॥

अग्नयभ्यासे जले वापि शुष्कपर्णचये तथा ॥
जंतुव्याप्ते श्मशाने च जीर्णगोष्टे चतुष्पथे ॥७९॥

सशब्दे सभये वापि चैत्यवल्मीकसंचये ॥
अशुभे दुर्जनाक्रांते मशकादिसमन्विते ॥८०॥

नाचरेद्देहबाधायां दौर्मनस्यादिसंभवे ॥
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु ॥८१॥

भवक्षेत्रे सुगुप्ते वा भवारामे वनेपि वा ॥
गृहे तु सुशुभे देशे विजने जंतुवर्जिते ॥८२॥

अत्यंतनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते ॥
दर्पणोदरसंकाशे कृष्णागरुसुधूपिते ॥८३॥

नानापुष्पसमाकीर्णे वितानोपरि शोभिते ॥
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते ॥८४॥

समासनस्थो योगांगान्यभ्यसेद्धृषितः स्वयम् ॥
प्रणिपत्य गुरुं पश्चाद्भवं देवीं विनायकम् ॥८५॥

योगीश्वरान् सशिष्यांश्च योगं युंजीत योगवित् ॥
आसनं स्वस्तिकं बध्वा पद्ममर्धासनं तु वा ॥८६॥

समजानुस्तथा धीमानेकजानुरथापिवा ॥
समं दृढासनो भूत्वा संहृत्य चरणावुभौ ॥८७॥

संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः ॥
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥८८॥

किंचिदुन्नामितशिर दंतैर्दंतान्न संस्पृशेत् ॥
संप्रेक्ष्य नासिकाग्रां स्वं दिशश्चानवलोकयन् ॥८९॥

तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत् ॥
ततः सत्त्वस्थितो भूत्वा शिवध्य न समभ्यसेत् ॥९०॥

ॐकारवाच्यं परमं शुद्धं दीपशिखाकृतिम् ॥
ध्यायेद्वै पुंडरीकस्य कर्णिकायां समाहितः ॥९१॥

नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम् ॥
त्र्यंगुले चाष्टकोणं वा पंचकोणमथापि वा ॥९२॥

त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः ॥
सौरं सौम्य तथाग्नेयमथ वानुक्रमेण तु ॥९३॥

आग्नेयं च ततः सौरं सौम्यमेवं विधानतः ॥
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम् ॥९४॥

गुणत्रयं क्रमेणैव मंडलोपरि भावयेत् ॥
सत्त्वस्थं चिंतयेद्रुद्रं स्वशक्त्या परिमंडितम् ॥९५॥

नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि ॥
ललाट फलिकायां वा मूर्ध्नि ध्यानं समाचरेत् ॥९६॥

द्विदले षोडशारे वा द्वादशारे क्रमेण तु ॥
दशारे वा ष़डस्रे वा चतुरस्रे स्मरेच्छिवम् ॥९७॥

कनकाभे तथागारसन्निभे सुसितेऽपि वा ॥
द्वादशादित्यसंकाशे चंद्रबिंबसमेऽपि वा ॥९८॥

विद्युत्कोटिनिभे स्थाने चिंतयेत्परमेश्वरम् ॥
आग्निवर्णेऽथ वा विद्युद्वलयाभे समाहितः ॥९९॥

वज्रकोटिप्रभे स्थाने पद्मरागनिभेऽपि वा ॥
नीललोहितबिंबे वा योगी ध्यानं समभ्यसेत् ॥१००॥

महेश्वरं हृदि ध्यायेन्नाभिपद्मे सदाशिवम् ॥
चंद्रचूडं ललाटे तु भ्रूमध्ये शंकरं स्वयम् ॥१०१॥

दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत् ॥
निर्मलं निष्कलं ब्रह्म सुशांतं ज्ञानरूपिणम् ॥१०२॥

अलक्षणमनिर्देश्यमणोरल्पतरं शुभम् ॥
निरालंबमतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥१०३॥

कैवल्यं चैव निर्वाणं निःश्रेयसमनूपमम् ॥
अमृतं चाक्षरं ब्रह्म ह्यपुनर्भव मद्भुतम् ॥१०४॥

महानंदं परानंदं योगानंदमनामयम् ॥
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम् ॥१०५॥

स्वयंवेद्यमवेद्यं तच्छिवं ज्ञानमयं परम् ॥
अतींद्रियमनाभासं परं तत्त्वं परात्परम् ॥१०६॥

सर्वोपाधिविनिर्मुकं ध्यानगम्यं विचारतः ॥
अद्वयं तमसश्चैव परस्तात्संस्थितं परम् ॥१०७॥

मनस्येवं महादेवं हृत्पद्मे वापि चिंतयेत् ॥
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम् ॥१०८॥

देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम् ॥
कन्यसेनैव मार्गेण चोद्घातेनापि शंकरम् ॥१०९॥

क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः ॥
उत्तमेनापि वै विद्वान् कुंभकेन समभ्यसेत् ॥११०॥

द्वात्रींशद्रेचयेद्धीमान् हृदि नाभौ समाहितः ॥
रेचकं पूरकं त्यक्त्वा कुंभकं च द्विजोत्तमाः ॥१११॥

साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम् ॥
एकीभावं समेत्यैवं तत्र यद्रससंभवम् ॥११२॥

आनंदं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः ॥
धारणा द्वादशायामा ध्यानं द्वादश धारणम् ॥११३॥

ध्यानं द्वादशकं यावत्समाधि रभिधीयते ॥
अथवा ज्ञानिनां विप्राः संपर्कादेव जायते ॥११४॥

प्रयत्नाद्वा तयोस्तुल्य चिराद्वा ह्यचिराद्द्विजाः ॥
योगांतरायास्तस्याथ जायंते युंजतः पुनः ॥११५॥

नश्यंत्यभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः ॥११६॥
इति श्रीलिंगमहापुराणे पूर्वभागेऽष्टांगयोगनिरूपणं नामाऽष्टमोध्यायः ॥८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:22.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अविंद्य

  • वि. छिद्र , भोंक न पाडलेला ( मोतीं , कान ). - पु . मुसलमान ; यवन ; म्लेंछ ; मुसलमानाच्या कानास हिंदूप्रमाणें भोंकें पाडलेलीं नसतात म्हणून . ( सामा . ) अहिंदु . [ सं . अ + व्यध ] 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site