TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३२

पूर्वभागः - अध्यायः ३२

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ३२
पितामह उवाच ॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ॥
न तस्मात्परमं किंचित्पदं सम धिगम्यते ॥३॥

देवानां च ऋषीणां च पितॄणां चैव स प्रभुः ॥
सहस्रयुगपर्यंते पुलये सर्वदेहिनः ॥४॥

संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ॥५॥

एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥
योगी कृतयुगे चैव त्रेतायां क्रतु रुच्यते ॥६॥

द्वापरे चैव कालाग्निर्धमकेतुः कलौ स्मृतः ॥
रुद्रस्य मूर्तयस्त्वेता येऽभिध्यायांति पंडिताः ॥७॥

चतुरस्रं बहिश्चांतरष्टास्रं पिंडिकाश्रये ॥
वृत्तं सुदर्शनं योग्यमेवं लिङ्गं प्रपूजयेत् ॥८॥

तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम् ॥
मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः ॥९॥

यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ॥
तस्माद्धि देवदेवेशमीशानं प्रभुमव्ययम् ॥१०॥

आराधयंति विप्रेंद्रा जितक्रोधा जितोंद्रियाः ॥
लिंगं कृत्वा यथान्यायं सर्वलक्षणसंयुतम् ॥११॥

अंगुष्ठमात्रं सुशुभं सुवृत्तं सर्वसंमतम् ॥
समनाभं तथाष्टास्रं षोडशास्रमतापि वा ॥१२॥

सुवृत्तं मंडलं दिव्यं सर्वकामफलप्रदम् ॥
वेदिका द्विगुणा तस्य समा वा सर्वसंमता ॥१३॥

गोमुखी च त्रिभागैका वेद्या लक्षणसयुता ॥
पट्टिका च समंताद्वै यवमात्रा द्विजोत्तमाः ॥१४॥

सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा ॥
वेदिकायाश्च विस्तारं त्रिगुणं वै समन्ततः ॥१५॥

वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम् ॥
समंतान्निर्व्रणं शुभ्रं लक्षणैस्तत्सुलीक्षितम् ॥१६॥

प्रतिष्ठाप्य यथान्यायं पूजालक्षणसंयुतम् ॥
कलशं स्थापयेत्तस्य वेदिमध्ये तथा द्विजाः ॥१७॥

सहिरण्यं सबीजं च ब्रह्मभिश्चाभिमंत्रितम् ॥
सेचयेच्च ततो लिंगं पवित्रैः पञ्चभिः शुभैः ॥१८॥

पूजयेच्च यथालाभं ततः सिद्धिमवाप्स्यथ ॥
समाहिताः पूजयध्वं सपुत्राः सह बंधुभिः ॥१९॥

सर्वे प्रांजलयो भूत्वा शूलपाणिं प्रपद्यत ॥
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ॥२०॥

यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥
ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् ॥२१॥

संप्रस्थिता वनौकास्ते देवदारुवनं ततः ॥
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ॥२२॥

स्थंडिलेषु विचित्रेषु पर्वतानां गुहासु च ॥
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥२३॥

शैवालशोभनाः केचित्केचिदंतर्जलेशयाः ॥
केचिद्दर्भावकाशास्तु पादांगुष्ठाग्रधिष्ठिताः ॥२४॥

दंतोलूखलिनस्त्वन्ये अश्मकुट्टास्तथा परे ॥
स्थानवीरासनास्त्वन्ये मृगचर्यारताः परे ॥२५॥

कालं नयांति तपसा पूजया च महाधियः ॥
एवं संवत्सरे पूर्णे वसंते समुपस्थिते ॥२६॥

ततस्तेषां प्रसादार्थं भक्तानामनुकंपया ॥
देवः कृतयुगे तस्मिन्गिरौ हिमवतः शुभे ॥२७॥

देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥
भस्मपांसूपदिग्धांगो नग्नो विकृतलक्षणः ॥२८॥

उल्मुकव्यग्रहस्तश्च रक्तपिंगललोचनः ॥
क्वचिच्चहसते रौद्रं क्वचिद्गायति विस्मितः ॥२९॥

क्वचिन्नृत्यति श्रृंगारं क्वचिद्रौति मुहुर्मुहुः ॥
आश्रमे ह्यटते भैक्ष्यं याचते च पुनः पुनः ॥३०॥

मायां कृत्वा तथारूपां देवस्तद्वनमागतः ॥
ततस्ते मुनयः सर्वे तुष्टुवुश्च समाहिताः ॥३१॥

अद्भिर्विविधमाल्यैश्च धूपैर्गन्धैस्तथैव च ॥
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥३२॥

मुनयस्ते तथा वाग्भिरीश्वरं चेदमब्रुन् ॥
अज्ञानाद्देवदेवेश यदस्माभिरनुष्ठितम् ॥३३॥

कर्मणा मनसा वाचा तत्सर्वं क्षंतुमर्हसि ॥
चरितानि विचित्राणी गुह्यानि गहनानि च ॥३४॥

ब्रह्मादीनां च देवानां दुर्विज्ञे यानि ते हर ॥
अगतिं ते न जानीमो गतिं नैव च नैव च ॥३५॥

विश्वेश्वर महादेव योसि सोसि नमोस्तु ते ॥
स्तुवंति त्वां महात्मानो देवदेवं महेश्वरम् ॥३६॥

नमो भवाय भव्याय भावनायोद्भवाय च ॥
अनंतबलवीर्याय भूतानां पतये नमः ॥३७॥

संहर्त्रे च पिशंगाय अव्ययाय व्ययाय च ॥
गंगासलिलधाराय आधाराय गुणात्मने ॥३८॥

त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे ॥
कंदर्पाय हुताशाय नमोस्तु परमात्मने ॥३९॥

शंकराय वृषांकाय गणानां पतये नमः ॥
दंडहस्ताय कालाय पाशहस्ताय वै नमः ॥४०॥

वेदमंत्रप्रधानाय शतजिह्वाय वै नमः ॥
भूतं भव्यं भविष्यं च स्थावरं जंगमं च यत् ॥४१॥

तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ॥
पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः ॥४२॥

अज्ञानाद्यदि विज्ञानाद्यत्किंचित्कुरुते नरः ॥
तत्सर्वं भगवानेव कुरुते योगमायया ॥४३॥

एवं स्तुत्वा तु मुनयः प्रहृष्टैरंतरात्मभिः ॥
याचन्त तपसा युक्तः पश्यामस्त्वां यथापुरा ॥४४॥

ततो देवः प्रसन्नात्मा स्वमेवास्थाय शंकरः ॥
रूपं त्र्यक्षं च संद्रष्टुं दिव्यं चक्षुरदात्प्रभुः ॥४५॥

लब्धदृष्ट्या तया दृष्ट्वा देवदेवं त्रियंबकम् ॥
पुनस्तुष्टुवुरीशानं देवदारुवनौकसः ॥४६॥

इति श्रीलिंगमहापुराणे पूर्वभागे एकत्रिंशोध्यायः ॥३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:23.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

column chart

  • bar chart 
  • स्तंभ तक्ता 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site