संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः २

पूर्वभागः - अध्यायः २

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
ईशानकल्पवृत्तांतमधिकृत्य महात्मना ॥
ब्रह्मणा कल्पितं पूर्वं पुराणं लौंगमुत्तमम् ॥१॥

ग्रंथकोटिप्रमाणं तु शतकोटि प्रवीस्तरे ॥
चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वांतरेषु वै ॥२॥

व्यस्तेष्टादशधा चैव ब्रह्मादौ द्वापरादिषु ॥
लिंगमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत् ॥३॥

अस्यैकादशसाहस्रे ग्रंथमानमिह द्विजाः ॥
तस्मात्संक्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत् ॥४॥

चतुर्लक्षेण संक्षिप्ते कृष्णद्वैपायनेन तु ॥
अत्रैकादशसाहस्रैः कथितो लिंगसंभवः ॥५॥

सर्गः प्राधानिकः पश्चात् प्राकृतो वैकृतानि च ॥
अंडस्यास्य च संभूतिरंडस्यावरणाष्टकम् ॥६॥

अंडोद्भवत्वं शर्वस्य रजोगुणसमाश्रयात् ॥
विष्णुत्वं कालरुद्रत्वं शयनं चाप्सु तस्य च ॥७॥

प्रजापतीनां सर्गश्च पृथिव्युद्धरणं तथा ॥
ब्रह्मणश्च दिवारात्रमायुषो गणनं पुनः ॥८॥

सवनं ब्रह्मणश्चैव युगकल्पश्च तस्य तु ॥
दिव्यं च मानुषं वर्षमार्षं वै ध्रौव्यमेव च ॥९॥

पित्र्यं पितॄणांसंभूतिधर्मश्चाश्रमिणां तथा ॥
अवृद्धिर्जगतो भूयो देव्याः शक्त्युद्भवस्तथा ॥१०॥

स्त्रीपुंभावो विरिंचस्य सर्गो मिथुनसंभवः ॥
आख्याष्टकं हि रुद्रस्य कथितं रोदनांतरे ॥११॥

ब्रह्मविष्णुविवादश्च पुनर्लिंगस्य संभवः ॥
शिलादस्य तपश्चैव वृत्रारेर्दर्शनं तथा ॥१२॥

प्रार्थनायोनिजस्याथ दुर्लभत्वं सुतस्य तु ॥
शिलादशक्रसंवादः पद्मयोनित्वमेव च ॥१३॥

भवस्य दर्शनं चैव तिष्येष्वाचार्यशिष्ययोः ॥
व्यासावताराश्च तथा कल्पमन्वंतराणि च ॥१४॥

कल्पत्वं चैव कल्पानामाख्याभेदेष्वनुक्रमात् ॥
कल्पेषु कल्पे वाराहे वाराहत्वं हरेस्तथा ॥१५॥

मेघवाहनकल्पस्य वृत्तांतं रुद्र गौरवम् ॥
पुनर्लिंगोद्भवश्चैव ऋषिमध्ये पिनाकिनः ॥१६॥

लिंगस्याराधनं स्नानविधानं शौचलक्षणम् ॥
वाराणस्याश्च महात्म्यं क्षेत्रमाहात्म्यवर्णनम् ॥१७॥

भुवि रुद्रालयानां तु संख्या विष्णोर्गृहस्य च ॥
अंतरिक्षे तथांडेऽस्मिन् देवायतनवर्णनम् ॥१८॥

दक्षस्य पतनं भूमौ पुनः स्वारोचिषेऽन्तरे ॥
दक्षशापश्च दक्षस्य शापमोक्षस्तथैव च ॥१९॥

कैलासवर्णनं चैव योगः पाशुपतस्तथा ॥
चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः ॥२०॥

संध्यांशकप्रमाणं च संध्यावृत्तं भवस्य च ॥
श्मशाननिलयश्चैव चंद्ररेखासमुद्भवः ॥२१॥

उद्वाहः शंकरस्याथ पुत्रोत्पादनमेव च ॥
मैथुनातिग्रसंगेन विनाशो जगतां भयम् ॥२२॥

शापः सत्या कृतो देवान्पुरा विष्णुं च पालितम् ॥
शुक्रोत्सर्गस्तु रुद्रस्य गांगेयोद्भव एव च ॥२३॥

ग्रहणादिषु कालेषु स्नाप्य लिंगं फलं तथा ॥
क्षुब्दधीचविवादश्च दधी चोपेंद्रयोस्तथा ॥२४॥

उत्पत्तिर्नंदिनाम्ना तु देवदेवस्य शूलिनः ॥
पतिव्रतायाश्चाख्यानं पशुपाशविचारणा ॥२५॥

प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा ॥
वसिष्ठतनयोत्पत्तिर्वासिष्ठानां महात्मनाम् ॥२६॥

मुनीनां वंशविस्तारो राज्ञां शक्तेर्विनाशनम् ॥
दौरात्म्यं कौशिकस्याथ सुरभेर्बंधनं तथा ॥२७॥

सुतशोको वसिष्ठस्य अरुंधत्याः प्रलापनम् ॥
स्नुषायाः प्रेषणं चैव गर्भस्थस्य वचस्तथा ॥२८॥

पराशरस्यावतारो व्यासस्य च शुकस्य च ॥
विनाशो राक्षसानां च कृतो वै शक्तिसूनुना ॥२९॥

देवतापरमार्थं तु विज्ञानं च प्रसादतः ॥
पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः ॥३०॥

भुवनानां प्रमाणं च ग्रहाणां ज्योतिषां गतिः ॥
जीवच्छ्राद्धविधानं च श्राद्धार्हाः श्राद्धमेव च ॥३१॥

नांदीश्राद्धविधानं च तथाध्ययन लक्षणम् ॥
पंचयज्ञप्रभावश्च पंचयज्ञविधिस्तथा ॥३२॥

रजस्वलानां वृत्तिश्च वृत्त्या पुत्रविशिष्टता ॥
मैथुनस्य विधिश्चैव प्रतिवर्णमनुक्रमात् ॥३३॥

भोज्याभोज्यविधानं च सर्वेषामेव वर्णिनाम् ॥
प्रायश्चित्तमशेषस्य प्रत्येकं चैव विस्तरात् ॥३४॥

नरकाणां स्वरूपं च दंडः कर्मानुरूपतः ॥
स्वर्गिनारकिणां पुंसां चिह्नं जन्मांतरेषु च ॥३५॥

नानाविधानि दानानि प्रेतराजपुरं तथा ॥
कल्पं पंचाक्षरस्याथ रुद्रमाहात्म्यमेव च ॥३६॥

वृत्रेंद्रयोर्महायुद्धं विश्वरूपविमर्दनम् ॥
श्वेतस्य मृत्योः संवादः श्वेतार्थे कालनाशनम् ॥३७॥

देवदारुवने शंभोः प्रवेशः शंकरस्य तु ॥
सुदर्शनस्य चाख्यानं क्रमसंन्यासलक्षणम् ॥३८॥

श्रद्धासाद्ध्योथ रुद्रस्तु कथितं ब्रह्मणा तदा ॥
मधुना कैटभेनैव पुरा हृतगतेर्विभोः ॥३९॥

ब्रह्मणः परमं ज्ञानमादातुं मीनता हरेः ॥
सर्वावस्थासु विष्णोश्च जननं लीलयैव तु ॥४०॥

रुद्रप्रसादाद्विष्णोश्च जिष्णोश्चैव तु संभवः ॥
मंथानधारणार्थाय हरेः कूर्मत्वमेवच ॥४१॥

संकर्षणस्य चोत्पत्तिः कौशिक्याश्च पुनर्भवः ॥
यद्वनां चैव संभूतिर्यादवत्वं हरेः स्वयम् ॥४२॥

भोजराजस्य दौरात्म्यं मातुलस्य हरेर्विभोः ॥
बालभावे हरेः क्रीडा पुत्रार्थं शंकरार्चनम् ॥४३॥

नारस्य च तथोत्पत्तिः कपाले वैष्णवाद्धरात् ॥
भूभारनिग्रहार्थे तु रुद्रस्याराधनं हरेः ॥४४॥

वैन्येन पृथुना भूमेः पुरा दोहप्रवर्तनम् ॥
देवासुरे पुरा लब्धो भृगुशापश्च विष्णुना ॥४५॥

कृष्णत्वे द्वारकायांतु निलयो माधवस्य तु ॥
लब्धो हिताय शापस्तु दुर्वासस्याननाद्धरेः ॥४६॥

वृष्ण्यंधकविनाशाय शापः पिंडारवासिनाम् ॥
एरकस्य तथोत्पत्तिस्तोमरस्योद्भवस्तथा ॥४७॥

एरकालाभतोऽन्योन्यं विवादे वृष्णिविग्रहः ॥
लीलया चैव कृष्णेन स्वकुलस्य च संहृतिः ॥४८॥

एरकास्त्रबलेनैव गमनं स्वेच्छयैव तु ॥
ब्रह्मणश्चैव मोक्षस्य विज्ञानं तु सुविस्तरम् ॥४९॥

पुरांधकाग्निदक्षाणां शक्रेभमृगरूपिणाम् ॥
मदनस्यादिदेवस्य ब्रह्मणश्चामरारिणाम् ॥५०॥

हलाहलस्य दैत्यस्य कृतावज्ञा पिनाकिना ॥
जालंधरवधश्चैव सुदर्शनसमुद्भवः ॥५१॥

विष्णोर्वरायुधावाप्तिस्तथा रुद्रस्य चेष्टितम् ॥
तथान्यानि च रुद्रस्य चरितानि सहस्रशः ॥५२॥


हरेः पितामहस्याथ शक्रस्य च महात्मनः ॥
प्रभावानुभवश्चैव शिवलोकस्य वर्णनम् ॥५३॥

भूमौ रुद्रस्य लोकं च पाताले हाटकेश्वरम् ॥
तपसां लक्षणं चैव द्विजानां वैभवं तथा ॥५४॥

आधिक्यं सर्वमूर्तीनां लिंगमूर्तेर्विशेषतः ॥
लिंगस्मिन्नानुपूर्व्येण विस्तरेणानुकीर्त्यते ॥५५॥

एतज्ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत्तु यः ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥५६॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽनुक्रमणिकावर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP