TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः २०

पूर्वभागः - अध्यायः २०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः २०
ऋषय ऊचुः ॥
कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवोऽभवत् ॥
भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः ॥१॥

एतत्सर्वं विशेषेण सांप्रतं वक्तुमर्हसि ॥
सूत उवाच ॥
आसीदेकार्णवं घोरमविभागं तमोमयम् ॥२॥

मध्ये चैकार्णवे तस्मिन् शंखचक्रगदाधरः ॥
जीमूतांभोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ॥३॥

नारायणमुखोद्गीर्णसर्वात्मा पुरुषोत्तमः ॥
अष्टबाहुर्महावक्षा लोकानां योनिरुच्यते ॥४॥

किमप्यचिंत्यं योगात्मा योगमास्थाय योगवित् ॥
फणासहस्रकलितं तमप्रतिमवर्चसम् ॥५॥

महाभोगपतेर्भोगं साध्वास्तीर्य महोच्छ्रयम् ॥
तस्मिन्महति पर्यंके शेते चैकार्णवे प्रभुः ॥६॥

एवं तत्र शयनेन विष्णुना प्रभविष्णुना ॥
आत्मारामेण क्रीडार्थं लीलयाक्लिष्टकर्मणा ॥७॥

शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् ॥
वज्रदंडं महोत्सेधं नाभ्यां सृष्टं तु पुष्करम् ॥८॥

तस्यैवं क्रीडमानस्य समीपं देवमीढुषः ॥
हेमगर्भांडजो ब्रह्म रुक्मवर्णो ह्यतींद्रियः ॥९॥

चतुर्वक्त्रो विशालाक्षः समागम्य यदृच्छया ॥
श्रिया युक्तेन दिव्येन सुशुभेन सुगंधिना ॥१०॥

क्रीडमानं च पद्मेन दृष्ट्वा ब्रह्मा शुभेक्षणम् ॥
सविस्मयमथागम्य सौम्यसंपन्नया गिरा ॥११॥

प्रोवाच को भवाञ्छेते ह्याश्रितो मध्यमंभसाम् ॥
अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः ॥१२॥

उदतिष्ठत पर्यंकाद्विस्मयोत्फुल्ललोचनः ॥
प्रत्युवाचोत्तरं चैव कल्पेकल्पे प्रतिश्रयः ॥१३॥

कर्तव्यं च कृतं चैव क्रियते यच्च किंचन ॥
द्यौरंतरिक्षं भूश्चैव परं पदमहं भुवः ॥१४॥

तमेवमुक्त्वा भगवान् विष्णुः पुनरथाब्रवीत् ॥
कस्त्वं खलु समायातः समीपं भगवान्कुतः ॥१५॥

क्व वा भूयश्च गंतव्यं कश्च वा ते प्रतिश्रयः ॥
को भवान् विश्वमूर्तिर्वै कर्तव्यं किं च ते मया ॥१६॥

एवं ब्रुवंतं वैकुंठं प्रत्युवाच पितामहः ॥
मायया मोहितः शंभोरविज्ञाय जनार्दनम् ॥१७॥

मायया मोहितं देवमविज्ञातं महात्मनः ॥
यथा भवांस्तथैवाहमादिकर्ता प्रजापतिः ॥१८॥

सविस्मयं वचः श्रुत्वा ब्रह्मणो लोकतंत्रिणः ॥
अनुज्ञातश्च ते नाथ वैकुंठो विश्वसंभवः ॥१९॥

कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम् ॥
इमानष्टादश द्वीपान्ससमुद्रान् सपर्वतान् ॥२०॥

प्रविश्य सुमहातेजाश्चातुर्वर्ण्यसमाकुलान् ॥
ब्रह्मणस्तंबपर्यंतं सप्तलोकान् सनातनान् ॥२१॥

ब्रह्मणस्तूदरे दृष्ट्वा सर्वान्विष्णुर्महाभुजः ॥
अहोस्य तपसो वीर्यमित्युक्त्वा च पुनः पुनः ॥२२॥

अटित्वा विविधाँल्लोकान् विष्णुर्नानाविधाश्रयान् ॥
ततो वर्षसहस्रांते नांतं हि ददृशे यदा ॥२३॥

तदास्य वक्त्रान्निष्क्रम्य पन्नगेंद्रनिकेतनः ॥
नारायणो जगद्धाता पितामहमथाब्रवीत् ॥२४॥

भगवानादिरंतश्च मध्यं कालो दिशो नभः ॥
नाहमंतं प्रपश्यामि उदरस्य तवानघ ॥२५॥

एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः ॥
भगवानेवमेवाहं शाश्वतं हि ममोदरम् ॥२६॥

प्रविश्य लोकान् पश्यैताननौपम्यान्सुरोत्तम ॥
ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनंद्य च ॥२७॥

श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥
तानेव लोकान् गर्भस्थानपश्यत्सत्यविक्रमः ॥२८॥

पर्यटित्वा तु देवस्य ददृशेऽन्तं न वै हरेः ॥
ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः ॥
विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तोहमिति प्रचिंत्य ॥२९॥

ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै ॥
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविंदत ॥३०॥

पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः ॥
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥३१॥

विरराजारविंदस्थः पद्मगर्भसमद्युतिः ॥
ब्रह्मा स्वयंभूर्भगवाञ्जगद्योनिः पितामहः ॥३२॥

एतस्मिन्नंतरे ताभ्यामेकैकस्य तु कृत्स्नशः ॥
वर्तमाने तु संघर्षे मध्ये तस्यार्णवस्य तु ॥३३॥

कुतोप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः ॥
शूलपाणिर्महादेवो हेमवीरांबरच्छदः ॥३४॥

अगच्छद्यत्र सोनंतो नागभोगपतिर्हरिः ॥
शीघ्रं विक्रमतस्तस्य पद्भ्यामाक्रांतपीडिताः ॥३५॥

उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिंदवः ॥
अत्युष्णश्चातिशीतश्च वायुस्तत्र ववौ पुनः ॥३६॥

तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत ॥
अब्बिंदवश्च शीतोष्णाः कंपयंत्यंबुजं भृशम् ॥३७॥

एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि ॥
एतदेवंविधं वाक्यं पितामहमुखोद्गतम् ॥३८॥

श्रुत्वाप्रतिमकर्मा हि भगवानसुरांतकृत् ॥
किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् ॥३९॥

वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः ॥
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम् ॥४०॥

किमत्र भगवानद्य पुष्करे जातसंभ्रमः ॥
किं मया च कृतं देव यन्मां प्रियमनुत्तमम् ॥४१॥

भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ॥
एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः ॥४२॥

प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः ॥
योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया ॥४३॥

यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो ॥
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥४४॥

ततो वर्षसहस्रात्तु उपावृत्तस्य मेऽनघ ॥
त्वया मत्सरभावेन मां वशीकर्तुमिच्छता ॥४५॥

आशु द्वाराणि सर्वाणि पिहितानि समंततः ॥
ततो मया महाभाग संचित्य स्वेन तेजसा ॥४६॥

लब्धो नाभिप्रदेशेन पद्मसूत्राद्विनिर्गमः ॥
माभूत्ते मनसोऽल्पोपि व्याघातोऽयं कथंचन ॥४७॥

इत्येषानुगतिर्विष्णो कार्याणामौपसर्पिणी ॥
यन्मयानंतरं कार्यं ब्रूहि किं करवाण्यहम् ॥४८॥

ततः परममेयात्मा हिरण्यकशिपो रिपुः ॥
अनवद्यां प्रियामिष्टां शिवां वाणीं पितामहात् ॥४९॥

श्रुत्वा विगतमात्सर्यं वाक्यमस्मै ददौ हरिः ॥
न ह्येवमीदृशं कार्यं मयाध्यवसितं तव ॥५०॥

त्वां बोधयितुकामेन क्रीडापूर्वं यदृच्छया ॥
आशु द्वाराणि सर्वाणि घटितानि मयात्मनः ॥५१॥

न तेऽन्यथावगंतव्यं मान्यः पूज्यश्च मे भवान् ॥
सर्वं मर्षय कल्याण यन्मयापकृतं तव ॥५२॥

अस्मान् मयोह्यमानस्त्वं पद्मादवतर प्रभो ॥
नाहं भवंतं शक्नोमि सोढुं तेजोमयं गुरुम् ॥५३॥

सहोवाच वरं ब्रूहि पद्मादवतर प्रभो ॥
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम् ॥५४॥

सद्भाववचनं ब्रूहि पद्मादवतर प्रभो ॥
स त्वं च नो महायोगी त्वमीड्यः प्रणवात्मकः ॥५५॥

अद्यप्रभृति सर्वेशः श्वेतोष्णीषविभूषितः ॥
पद्मयोनिरिति ह्येवं ख्यातो नाम्ना भविष्यसि ॥५६॥

पुत्रो मे त्वं भव ब्रह्मन् सप्तलोकाधिपः प्रभो ॥
ततः स भगवान्देवो वरं दत्वा किरीटिने ॥५७॥

एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः ॥
प्रत्यासन्नमथायांतं बालार्काभं महाननम् ॥५८॥

भवमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ॥
अप्रमेयो महावक्त्रो दंष्ट्री ध्वस्तशिरोरुहः ॥५९॥

दशबाहुस्त्रिशूलांको नयनैर्विश्वतः स्थितः ॥
लोकप्रभुः स्वयं साक्षाद्विकृतो मुंजमेखली ॥६०॥

मेंढ्रेणोर्ध्वेन महता नर्दमानोतिभैरवम् ॥
कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः ॥६१॥

व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते ॥
तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत् ॥६२॥

पद्भ्यां? तल०निपातेन यस्य विक्रमतोर्णवे ॥
वेगेन महताकाशेप्युत्थिताश्च जलाशयाः ॥६३॥

स्थूलाद्भिर्विश्वतोत्यर्थं सिच्यसे पद्मसंभव ॥
घ्राणजेन च वातेन कंप्यमानं त्वया सह ॥६४॥

दोधूयते महापद्मं स्वच्छंदं मम नाभिजम् ॥
समागतो भवानीशो ह्यनादिश्चांतकृत्प्रभुः ॥६५॥

भवानहं च स्तोत्रेण उपतिष्ठाव गोध्वजम् ॥
ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ॥६६॥

भवान्न नूनमात्मानं वेत्ति लोकप्रभुं विभुम् ॥
ब्रह्माणं लोककर्तारं मां न वेत्सि सनातनम् ॥६७॥

को ह्यसौ शंकरो नाम आवयोर्व्यतिरिच्यते ॥
तस्य तत्क्रोधजं वाक्यं श्रुत्वा हरिरभाषत ॥६८॥

मा मैवं वद कल्याण परिवादं महात्मनः ॥
महायोगेंधनो धर्मो दुराधर्षो वरप्रदः ॥६९॥

हेतुरस्याथ जगतः पुराणपुरुषोऽव्ययः ॥
बीजी खल्वेष बीजानां ज्योतिरेकः प्रकाशते ॥७०॥

बालक्रीडनकैर्देवः क्रीडते शंकरः स्वयम् ॥
प्रधानमव्ययो योनिरव्यक्तं प्रकृतिस्तमः ॥७१॥

मम चैतानि नामानि नित्यं प्रसवधर्मिणः ॥
यः कः स इति दुःखार्तैर्दृश्यते यतिभिः शिवः ॥७२॥

एष बीजी भवान्बीजमहं योनिः सनातनः ॥
स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत ॥७३॥

भवान् योनिरहं बीजं कथं बीजी महेश्वरः ॥
एतन्मे सूक्ष्ममव्यक्तं संशयंछेत्तुमर्हसि ॥७४॥

ज्ञात्वा च विविधोत्पत्तिं ब्रह्मणो लोकतंत्रिणः ॥
इमं परमसादृश्यं प्रश्नमभ्यवदद्धरिः ॥७५॥

अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते ॥
महतः परमं धाम शिवमध्यात्मिनां पदम् ॥७६॥

द्विविधं चैवमात्मानं प्रविभज्यव्यवस्थितः ॥
निष्कलस्तत्र योव्यक्तः सकलश्च महेश्वरः ॥७७॥

यस्य मायाविधिज्ञस्य अगम्यगहनस्य च ॥
पुरा लिंगोद्भवं बीजं प्रथमं त्वादिसर्गिकम् ॥७८॥

मम योनौ समायुक्तं तद्बीजं कालपर्ययात् ॥
हिरण्मयमकूपारे योन्यामंडमजायत ॥७९॥

शतानि दशवर्षाणामंडमप्सु प्रतिष्ठितम् ॥
अंते वर्षसहस्रस्य वायुना तद्द्विदा कृतम् ॥८०॥

कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः ॥
उल्बं तस्य महोत्सेधो योसौ कनकपर्वतः ॥८१॥

ततश्च प्रतिसंध्यात्मा देवदेवो वरः प्रभुः ॥
हिरण्यगर्भो भगवांस्त्वभिजज्ञे चतुर्मुखः ॥८२॥

आतारार्केंदुनक्षत्रं शून्यं लोकमवेक्ष्य च ॥
कोहमित्यपि च ध्याते कुमारास्तेऽभवंस्तदा ॥८३॥

प्रियदर्शनास्तु यतयो यतीनां पूर्वजास्तव ॥
भूयो वर्षसहस्रांते तत एवात्मजास्तव ॥८४॥

भुवनानलसंकाशाः पद्मपत्रायतेक्षणाः ॥
श्रीमान्सनत्कुमारश्च ऋभुश्चैवोर्ध्व रेतसौ ॥८५॥

सनकः सनातनश्चैव तथैव च सनंदनः ॥
उत्पन्नाः समकालं ते बुद्ध्यातींद्रियदर्शनाः ॥८६॥

उत्पन्नाः प्रतिभात्मानो जगतां स्थितिहेतवः ॥
नारप्स्यंते च कर्माणि तापत्रयविवर्जिताः ॥८७॥

अल्पसौख्यं बहुक्लेशं जराशोकसमन्विताम् ॥
जीवनं मरणं चैव संभवश्च पुनः पुनः ॥८८॥

अल्पभूतं सुखं स्वर्गे दुःखानि नरके तथा ॥
विदित्वा चागमं सर्वमवश्यं भवितव्यताम् ॥८९॥

ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ ॥
त्रयस्तु त्रीन् गुणान् हित्वा चात्मजाः सनकादयः ॥९०॥

वैवर्तेन तु ज्ञानेन प्रवृत्तास्ते महौजसः ॥
ततस्तेषु प्रवृत्तेषु सनकादिषु वै त्रिषु ॥९१॥

भविष्यसि विमूढस्त्वं मायया शंकरस्य तु ॥
एवं कल्पे तु वै वृत्ते संज्ञा नश्यति तेऽनघ ॥९२॥

कल्पे शेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ॥
सर्वेषां ह्यैश्वरी माया जागृतिः समुदाहृता ॥९३॥

यथैष पर्वतो मेरुर्देवलोको ह्युदाहृतः ॥
तस्य चेदं हि माहात्म्यं विद्धि देववरस्य ह ॥९४॥

ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामंबुजेक्षणम् ॥
महादेवं महाभूतं भूतानां वरदं प्रभुम् ॥९५॥

प्रणवेनाथ साम्ना तु नमस्कृत्य जगद्गुरुम् ॥
त्वां च मां चैव संक्रुद्धो निःश्वासान्निर्दहेदयम् ॥९६॥

एवं ज्ञात्वा महायोगमभ्युत्तिष्ठन्महाबलम् ॥
अहं त्वामग्रतः कृत्वा स्तोष्याम्यनलसप्रभम् ॥९७॥

इति श्रीलिंगमहापुराणे पूर्वभागे ब्रह्मप्रबोधनं नाम विंशोऽध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:23.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

acorn

  • छदकपाली 
  • वंजुफळ 
  • छदककपाली, वंजुफल 
  • लहान छदांच्या पेल्याने वेढलेले ओक (वंजू) चे (किंवा तत्सम) कवची फळ 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site