संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः| अध्यायः ४० पूर्वभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ पूर्वभागः - अध्यायः ४० अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे. Tags : lingapuranpothipuranपुराणपोथीलिंगपुराणसंस्कृत अध्यायः ४० Translation - भाषांतर शक्र उवाच ॥तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ॥साधयंति नरास्तत्र तमसा व्याकुलेन्द्रियाः ॥१॥कलौ प्रमादको रोगः सततं क्षुद्भयानि च ॥अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥२॥न प्रामाण्यं श्रुतेरस्ति नृणां चाधर्मसेवनम् ॥अधार्मिकास्त्वनाचारा महाकोपाल्पचेतसः ॥३॥अनृतं ब्रुवते लुब्धास्तिष्ये जाताश्च दुष्प्रजाः ॥दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥४॥विप्राणां कर्म दोषेण प्रजानां जायते भयम् ॥नाधीयन्ते तदा वेदान्न यजंति द्विजातयः ॥५॥उत्सीदंति नराश्चैव क्षत्रियाश्च विशः क्रमात् ॥शूद्राणां मंत्रयोगेन संबंधो ब्राह्मणैः सह ॥६॥भवतीह कलौ तस्मिञ्शयनासनभोजनैः ॥राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयंति ते ॥७॥भ्रूणहत्या वीरहत्या प्रजायंते प्रजासु वै ॥शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥८॥राजवृत्तिस्थिताश्चौराश्चौराचाराश्च पार्थिवाः ॥एकपत्न्यो न शिष्यंति वर्धिष्यंत्यभिसारिकाः ॥९॥वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः ॥तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला ॥१०॥अरक्षितारो हर्तारः पार्थिवाश्च शिलशन ॥शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवंदिताः ॥११॥अक्षत्रियाश्च राजानो विप्राः शुद्रोपजीविनः ॥आसनस्था द्विजान्दृष्ट्वा न चलंत्यल्पबुद्धयः ॥१२॥ताडयंति द्विजेन्द्रांस्च शूद्रा वै स्वल्पबुद्धयः ॥आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः ॥१३॥नीचस्येव तदा वाक्यं वदंति विनयेन तम् ॥उच्चासनस्थान् शूद्रांश्च द्विजमध्ये द्विजर्षभ ॥१४॥ज्ञात्वा न हिंसते राजा कलौ कालवशेन तु ॥पुष्पैश्च वासितैश्चैव तथान्यैर्मगलैः शुभैः ॥१५॥शूद्रानभ्यर्चयंत्यल्प श्रुतभाग्यबलान्विताः ॥न प्रेक्षंते गर्विताश्च शूद्रा द्विजवरान् द्विज ॥१६॥सेवावसरमालेक्य द्वारे तिष्ठंति वै द्विजाः ॥वाहनस्थान् समावृत्य शुद्राञ्शूद्रोपजीविनः ॥१७॥सेवंते ब्राह्मणास्तत्र स्तुवंति स्तुतिभिः कलौ ॥तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ॥१८॥यतयश्च भविष्यंति बहवोस्मिन्कलौ युगे ॥पुरुषाल्पं बहुस्त्रीकं युगांते समुपस्थिते ॥१९॥निन्दन्ति वेदविद्यां च द्विजाः कर्माणि वै कलौ ॥कलौ देवो महादेवः शंकरो नीललोहितः ॥२०॥प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥ये तं विप्रा निषेवंते येन केनापि शंकरम् ॥२१॥कलिदोषान् विनिर्जित्य प्रयांति परमं पदम् ॥श्वापदप्रबलत्वं च गवां चैव परिक्षयः ॥२२॥साधूनां विनिवृत्तिश्च वेद्या तस्मिन्युगक्षये ॥तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् ॥२३॥चातुराश्रमशौथिल्ये धर्मः प्रतिचलिष्यति ॥अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ॥२४॥युगान्तेषु भविष्यंति स्वरक्षणपरायणाः ॥अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ॥२५॥प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ॥चित्रवर्षी तदा देवो यदा प्राहुर्युगक्षयम् ॥२६॥सर्वे वणिग्जनाश्चापि भविष्यंत्यधमे युगे ॥कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः ॥२७॥बहुयाजनको लोको भविष्यति परस्परम् ॥नाव्याहृतक्रूरवाक्यो नार्जवी नानसूयकः ॥२८॥न कृते प्रतिकर्ता च युगक्षीणे भविष्यति ॥निंदकाश्चैव पतिता युगांतस्य च लक्षमण् ॥२९॥नृपशून्या वसुमती न च धान्यधनावृता ॥मंडलानि भविष्यंति देशेषु नगरेषु च ॥३०॥अल्पोदका चाल्पफला भविष्यति वसुंधरा ॥गोप्तारश्चाप्यगोप्तारः संभविष्यंत्यशासनाः ॥३१॥हर्तारः परवित्तानां परदारप्रधर्षकाः ॥कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः ॥३२॥प्रनष्टचेष्टनाः पुंसो मुक्तकेशाश्च शूलिनः ॥जनाः षोडशवर्षाश्च प्रजायंते युगक्षये ॥३३॥शुक्लदंताजिनाक्षाश्च मुंडाः काषायवाससः ॥शूद्रा धर्मं चरिष्यांति युगांते समुपस्तिते ॥३४॥सस्यचौरा भविष्यंति दृढचैलाभि लाषिणः ॥चौराश्चोरस्वहर्तारो हर्तुर्हर्ता तथापरः ॥३५॥योग्यकर्मण्युपरते लोके निष्क्रियतां गते ॥कटिमूषकसर्पाश्च धर्षयिष्यंति मानवान् ॥३६॥सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं तदा ॥कौशिकीं प्रतिपत्स्यंते देशान्क्षुद्भयपीडिताः ॥३७॥दुःखेनाभिप्लुतानां च परमायुः शतं तदा ॥दृश्यंते न च दृश्यंते वेदाः कलियुगेऽखिलाः ॥३८॥उत्सीदंति तदा यज्ञा केवलाधर्मपीडिताः ॥काषायिणोप्य निर्ग्रन्थाः कापालीबहुलास्त्विह ॥३९॥वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ॥४०॥उत्पद्यंते तदा ते वै संप्राप्ते तु कलौ युगे ॥अधीयंते तदा वेदाञ्शूद्रा धर्मार्थकोविदाः ॥४१॥यजंते चाश्वमेधेन राजानः शूद्रयोनयः ॥स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥४२॥उपद्रवांस्तथान्योन्यं साधयन्ति तदा प्रजाः ॥दुःखप्रभूतमल्पायुर्देहोत्सादः सरोगता ॥४३॥अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ॥प्रजासु ब्रह्महत्यादि तदा वै संप्रवर्तते ॥४४॥तस्मादायुर्बलं रूपं किलं प्राप्य प्रहीयते ॥तदा त्वल्पेन कालेन सिद्धिं गच्छंति मानवाः ॥४५॥धन्या धर्मं चरिष्यंति युगांते द्विजसत्तमाः ॥श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः ॥४६॥त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ॥यथाक्लेशं चरन्प्राज्ञस्तदह्ना प्राप्नुते कलौ ४७॥एषा कलियुगावस्था संध्यांशं तु निबोध मे ॥युगेयुगे च हीयंते त्रींस्त्रीन्पादांस्तु सिद्धयः ॥४८॥युगस्वभावाः संध्यास्तु तिष्ठन्तीह तु पादशः ॥संध्यास्वभावाः स्वांशेषु पादशस्ते प्रतिष्ठिताः ॥४९॥एवं सन्ध्यांशके काले संप्राप्ते तु युगांतिके ॥तेषां शास्ता ह्यसाधूनां भूतानां निदनोत्थितः ॥५०॥गोत्रेऽस्मिन्वै चन्द्रमसो नाम्ना प्रमितिरुच्यते ॥मानवस्य तु सेंशेन पूर्वं स्वायंभुवेन्तरे ॥५१॥समाः स विंशतिः पूर्णाः पर्यटन्वै वसुंधराम् ॥अनुकर्षन् स वै सेनां सवाजिरथकुंजराम् ॥५२॥प्रगृहीतायुधैर्विप्रैः शतशोथ सहस्रशः ॥स तदा तैः परिवृतो म्लेच्छान् हंति सहस्रशः ॥५३॥स हत्वा सर्वशश्चैव राज्ञस्ताञ्शूद्रयोनिजान् ॥पाखंडांस्तु ततः सर्वान्निःशेषं कृतवान् प्रभुः ॥५४॥नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वतः ॥वर्णव्यत्यासजाताश्च ये च ताननुजीविनः ॥५५॥प्रवृत्तचक्रो बलवान् म्लेच्छानामंतकृत्स तु ॥अधृष्यः सर्वभूतानां चचाराथ वसुंधराम् ॥५६॥मानवस्य तु सोंशेन देवस्येह विजज्ञिवान् ॥पूर्वजन्मनि विष्णोस्तु प्रमितिर्नाम वीर्यवान् ॥५७॥गोत्रतो वै चन्द्रमसः पूर्णे कलियुगे प्रभुः ॥द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रांतो विंशतिः समाः ॥५८॥विनिघ्नन्सर्वभूतानि शतशोथसहस्रशः ॥कृत्वा बीजावशेषां तु पृथिवीं क्रूरकर्मणः ॥५९॥परस्परनिमित्तेन कोपेनाकस्मिकेन तु ॥स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥६०॥गंगायमुनयोर्मध्ये स्थितिं प्राप्तः सहानुगः ॥ततो व्यतीते काले तु सामात्यः सहसैनिकः ॥६१॥उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ॥तत्र संध्यांशके काले संप्राप्ते तु युगांतिके ॥६२॥स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥अप्रग्रहास्ततस्ता वै लोभाविष्टास्तु कृत्स्नशः ॥६३॥उपहिंसन्ति चान्योन्यं प्रणिपत्य परस्परम् ॥अराजके युगवशात्संशये समुपस्थिते ॥६४॥प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ॥व्याकुलाश्च परिभ्रांतास्त्यक्त्वा दारान् गृहाणि च ॥६५॥स्वान्प्राणाननपेक्षन्तो निष्कारुण्याः सुदुः खिताः ॥नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा ॥६६॥निर्मर्यादा निराक्रांता निःस्नेहा निरपत्रपाः ॥नष्टे धर्मे प्रतिहताः ह्रस्वकाः पंचविंशकाः ॥६७॥हित्वा पुत्रांश्च दारांश्च विवादव्याकुलेन्द्रियाः ॥अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः ॥६८॥प्रत्यंतानुपसेवंते हित्वा जनपदान् स्वकान् ॥सरित्सागरकूपांस्ते सेवंते पर्वतांस्तथा ॥६९॥मधुमांसैर्मूलफलैर्वर्तयंति सुदुःखिताः ॥चरिपत्राजिनधरा निष्क्रिया निष्परिग्रहाः ॥७०॥वर्णाश्रमपरिभ्रष्टाः संकटं घोरमास्तिताः ॥एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा ॥७१॥जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः ॥विचारणा तु निर्वेदात्साम्यावस्था विचारणा ॥७२॥साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता ॥अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम् ॥७३॥अहोरात्रात्तदा तासां युगं तु परिवर्तते ॥चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत् ॥७४॥भाविनोर्थस्य च बलात्ततः कृतमवर्तत ॥प्रवृत्ते तु ततस्तस्मिन्पुनः कृतयुगे तु वै ॥७५॥उत्पन्नाः कलिशिष्टास्तु प्रजाः कार्तयुगास्तदा ॥तिष्ठंति चेह ये सिद्धा अदृष्टा विचरंति च ॥७६॥सप्त सप्तर्षिभिश्चैव तत्र ते तु व्यवस्तिताः ॥ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ॥७७॥कलिजैः सह ते सर्वे निर्विशेषास्तदाऽभवन् ॥तेषां सप्तर्षयो धर्मं कथयंतीतरेपि च ॥७८॥वर्णाश्रमाचारयुतं श्रैतं स्मार्तं द्विधा तु यम् ॥ततस्तेषु क्रियावत्सु वर्दन्ते वै प्रजाः कृते ॥७९॥श्रौतस्मार्तकृतानां च धर्मे सप्तर्षिदर्शिते ॥केचिद्धर्मव्यवस्तार्थ तिष्ठन्तीह युगक्षये ॥८०॥मन्वंतराधिकारेषु तिष्ठंति मुनयस्तु वै ॥यथा दावप्रदग्धेषु तृणोष्विह ततः क्षितौ ॥८१॥वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः ॥तथा कार्तयुगानां तु कलिजेष्विह संभवः ॥८२॥एवं युगाद्युगस्येह संतानं तु परस्परम् ॥वर्तते हव्यवच्छेदाद्यावन्मन्वंतरक्षयः ॥८३॥सुखमायुर्बलं रूपं धर्मोऽर्थः काम एव च ॥युगेष्वेतानि हीयंते त्रींस्त्रीन्पादान्क्रमेण तु ॥८४॥ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः ॥इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेणु तु ॥८५॥चतुर्युगानां सर्वेषामनेनैव तु साधनम् ॥एषा चतुर्युगावृत्तिरासहस्राद्गुणीकृता ॥८६॥ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता ॥अनार्जवं जडीभावो भूतानामयुगक्षयात् ॥८७॥एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् ॥एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः ॥८८॥क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ॥चतुर्युगे यथैकास्मिन्भवतीह यदा तु यत् ॥८९॥तथा चान्येषु भवति पुनस्तद्वै यताक्रमम् ॥सर्गेसर्गे यथा भेदा उत्पद्यंते तथैव तु ॥९०॥पंचविंशत्परिमिता न न्यूना नाधिकास्तथा ॥तथा कल्पा युगैः सार्धं भवंति सह सक्षणैः ॥९१॥मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥९२॥यता युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् ॥तथा तु संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥९३॥इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः ॥अतीतानागतानां हि सर्वमन्वन्तरेषु वै ॥९४॥मन्वंतरेण चैकेन सर्वाण्येवान्तराणि च ॥व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥९५॥अनागतेषु तद्वच्च तकः कार्यो विजानता ॥मन्वंतरेषु सर्वेषु अतीतानागतेष्विह ॥९६॥तुल्याभिमानिनः सर्वे नामरूपैर्भवंत्युत ॥देवा ह्यष्टविधा ये च ये च मन्वंतरेश्वराः ॥९७॥ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः ॥एवं वर्णाश्रमाणां तु प्रविभागो युगेयुगे ॥९८॥युगस्वभावश्च तथा विधत्ते वै तदा प्रभुः ॥वर्णाश्रमविभागाश्च युगानि युगसिद्धयः ॥९९॥युगानां परिमाणं ते कथितं हि प्रसङ्गतः ॥वदामि देविपुत्रत्वं पद्मयोनेः समासतः ॥१००॥इति श्रीलिंगमहापुराणे पूर्वभागे चतुर्युगपरिमाणं नाम चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP