संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः| अध्यायः २३ पूर्वभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ पूर्वभागः - अध्यायः २३ अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे. Tags : lingapuranpothipuranपुराणपोथीलिंगपुराणसंस्कृत अध्यायः २३ Translation - भाषांतर सूत उवाच ॥तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः ॥ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम् ॥१॥श्वेतकल्पो यदा ह्यसीदहमेव तदाभवम् ॥श्वेतोष्णीषः श्वेतमाल्यः श्वेतांबरधरः सितः ॥२॥श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः ॥तेन नाम्नाच विख्यातः श्वेतकल्पस्तदा ह्यसौ ॥३॥मत्प्रसूता च देवेशी श्वेतांगा श्वेतलोहिता ॥श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ॥४॥तस्मादहं च देवेश त्वया गुह्येन वै पुनः ॥विज्ञातः स्वेन तपसा सद्योजातत्वमागतः ॥५॥सद्योजातेति ब्रह्मैतद्गुह्यं चैतत्प्रकीर्तितम् ॥तस्माद्गुह्यत्वमापन्नं ये वेत्स्यंति द्विजातयः ॥६॥मत्समीपं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥यदा चैव पुनस्त्वासील्लोहितो नाम नामतः ॥७॥मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः ॥तदा लोहितमांसास्थिलोहितक्षीरसंभवा ॥८॥लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता ॥ततोऽस्या लोहितत्वेन वर्णस्य च विपर्ययात् ॥९॥वामत्वाच्चैव देवस्य वामदेवत्वमागतः ॥तत्रापि च महासत्त्व त्वयाहं नियतात्मना ॥१०॥विज्ञातः स्वेन योगेन तस्मिन्वर्णान्तरे स्थितः ॥ततश्च वामदेवेति ख्यातिं यातोऽस्मि भूतले ॥११॥ये चापि वामदेव त्वां ज्ञास्यंतीह द्विजातयः ॥रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥१२॥यदाहं पुनरेवेह पीतवर्णो युगक्रमात् ॥मत्कृतेन च नाम्ना वै पीतकल्पोऽभवत्तदा ॥१३॥मत्प्रसूता च देवेशी पीतांगी पीतलोहिता ॥पीतवर्णा तदा ह्यसीद्गायत्री ब्रह्मसंज्ञिता ॥१४॥तत्रापि च महासत्व योगयुक्तेन चेतसा ॥यस्मादहं तैर्विज्ञातो योगतत्परमानसैः ॥१५॥तत्र तत्पुरुषत्वेन विज्ञातोऽहं त्वया पुनः ॥तस्मात्तत्पुरुषत्वं वै ममैतत्कनकांडज ॥१६॥ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम् ॥वेत्स्यंति तपसा युक्ता विमला ब्रह्मसंगताः ॥१७॥रुद्रलोकं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥यदाहं पुनरेवासं कृष्णवर्णो भयानकः ॥१८॥मत्कृतेन च वर्णेन संकल्पः कृष्ण उच्यते ॥तत्राहं कालसंकाशः कालो लोकप्रकालकः ॥१९॥विज्ञातोऽहं त्वया ब्रह्मन्घोरो घोरपराक्रमः ॥मत्प्रसूता च गायत्री कृष्णांगी कृष्णलोहिता ॥२०॥कृष्णरूपा च देवेश तदासीद्ब्रह्मसंज्ञिता ॥तस्माद्घोरत्वमापन्नं ये मां वेत्स्यंति भूतले ॥२१॥तेषामघोरः शांतश्च भविष्याम्यहमव्ययः ॥पुनश्च विश्वरूपत्वं यदा ब्रह्मन्ममाभवत् ॥२२॥तदाप्यहं त्वया ज्ञातः परमेण समाधिना ॥विश्वरूपा च संवृत्ता गायत्री लोकधारिणी ॥२३॥तस्मिन्विश्वत्वमापन्नं ये मां वेत्स्यंति भूतले ॥तेषां शिवश्च सौम्यश्च भविष्यामि सदैव हि ॥२४॥यस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः ॥विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥२५॥सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः ॥चत्वारस्ते मया ख्याताः पुत्र वै लोकसंमताः ॥२६॥यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति ॥सर्वभक्षा च मेध्या च वर्णतश्च भविष्यति ॥२७॥मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम् ॥यस्माद्वेदाश्च वेद्यं च चतुर्धा वै भविष्यति ॥२८॥भूतग्रामाश्च चत्वार आश्रमाश्च तथैव च ॥धर्मस्य पादाश्चत्वारश्चत्वारो मम पुत्रकाः ॥२९॥तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् ॥चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति ॥३०॥भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महस्तथा ॥जनस्तपश्च सत्यं च विष्णुलोकस्ततः परम् ॥३१॥अष्टाक्षरस्थितो लोकः स्थानेस्थाने तदक्षरम् ॥भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च ॥३२॥भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् ॥स्वर्लोको वै तृतीयश्च चतुर्थस्तु महस्तथा ॥३३॥पंचमस्तु जनस्तत्र षष्ठश्च तप उच्यते ॥सत्यं तु सप्तमो लोको ह्यपुनर्भवगामिनाम् ॥३४॥विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम् ॥स्कांदमौमं तथा स्थानं सर्वसिद्धिसमन्वितम् ॥३५॥रुद्रलोकः स्मृतस्तस्मात्पदं तद्योगिनां शुभम् ॥निर्ममा निरहंकाराः कामक्रोध विविर्जिताः ॥३६॥द्रक्ष्यंति तद्द्विजा युक्ता ध्यानतत्परमानसाः ॥यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती ॥३७॥पादांतं विष्णु लोकं वै कौमारं शांतमुत्तमम् ॥औमं माहेश्वरं चैव तस्माद्दृष्टा चतुष्पदा ॥३८॥तस्मात्तु पशवः सर्वे भविष्यंति चतुष्पदाः ॥ततश्चैषां भविष्यंति चत्वारस्ते पयोधराः ॥३९॥सोमश्च मंत्रसंयुक्तो यस्मान्मम मुखाच्च्युतः ॥जीवः प्राणभृतां ब्रह्मन्पुनः पीतस्तनाः स्मृताः ॥४०॥तस्मात्सोममयं चैव अमृतं जीवसंज्ञितम् ॥चतुष्पादा भविष्यंति श्वेतत्वं चास्य तेन तत् ॥४१॥यस्माच्चैव क्रिया भूत्वा द्विपदा च महेश्वरी ॥दृष्टा पुनस्तथैवैषा सावित्री लोकभाविनी ॥४२॥तस्माच्च द्विपदाः सर्वे द्विस्तनाश्च नराः शुभाः ॥तस्माच्चेयमजा भूत्वा सर्ववर्णा महेश्वरी ॥४३॥या वै दृष्टा महासत्त्वा सर्वभूतधरा त्वया ॥तस्माच्च विश्वरूपत्वं प्रजानां वै भविष्यति ॥४४॥अजश्चैव महातेजा विश्वरूपो भविष्यति ॥अमोघरेताः सर्वत्र मुखे चास्य हुताशनः ॥४५॥तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः ॥तपसा भावितात्मानो ये मां द्रक्ष्यंति वै द्विजाः ॥४६॥ईशित्वे च वशित्वे च सर्वगं सर्वतः स्थितम् ॥रजस्तमोभ्यां निर्मुक्तास्त्यक्त्वा मानुष्यकं वपुः ॥४७॥मत्समीपमुपेष्यंति पुनरावृत्तिदुर्लभम् ॥इत्येवमुक्तो भगवान्ब्रह्मा रुद्रेण वै द्विजाः ॥४८॥प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ॥य एवं भगवान् विद्वान् गायत्र्या वै महेश्वरम् ॥४९॥विश्वात्मानं हि सर्वं त्वां गायत्र्यास्तव चेश्वर ॥तस्य देहि परं स्थानं तथास्त्विति च सोब्रवीत् ॥५०॥तस्माद्विद्वान् हि विश्वत्वमस्याश्चास्य महात्मनः ॥स याति ब्रह्मसायुज्यं वचनाद्ब्रह्मणः प्रभोः ॥५१॥इति श्रीलिंगमहापुराणे पूर्वभागे त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP